2023-12-24 10:06:07 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
[ कथायाम्-
णमणिकिरणकलापच्छलेन हृदयं विविक्षुरभिनवयौवनराग इव बहिः परिस्फुरति । एतदे [^१]दनेन
चामरकलापान्तरैरित एव वीक्षितम् । एतत्किमपि वैशम्पायनेन सह समामन्त्र्य दशन- मयू-
खलेखा [^२]धवलीकृत दिक्चक्रवालं हसितम् । एषोऽस्य शुकपक्षतिहरितरागेणोत्तरीयांशुकप्रान्तेन
बलाहकस्तुरगखुर- चलनजन्मानं [^३]लग्नमग्रकेशेषु रेणुमपहरति । अयमनेन लक्ष्मीकरकमलको-
मलतलः समुत्क्षिप्य तिर्यक् तुरङ्गमस्कन्धे निक्षिप्तश्चरणपल्लव: सलीलम् । अयमनेन च ता-
म्बूलयाचनार्थर् [^४]मुत्तानिततलो [^५]दीर्घाङ्गुलिराताम्रपुष्करकोशशोभी गजेनेव शैवालकँ [^६]कवलग्रासला-
लसः प्रसारितः करः । धन्या सा या लक्ष्मीरिव निर्जितकमलं करतलमस्यं वसुंधरासपत्नी
ग्रहीष्यति । धन्या च देवी विलासवती सकलमही [^७]मण्डलभारधारणक्षमः ककुभा दिग्गज
 
१८८
 

 
[ टि ]--
शिरीषकुसुमकर्णपूरीभावेऽपि तद्वत्त्वं बोध्यमिति भावः । एतस्येति विषये षष्ठी । फलस्येच्छेतिवत् । एतद्विषये
योsभिनव- यौवनेनाभिनवतारुण्येन योऽ [^1]स्माकं रागः स हारा मुक्ता- कलापास्तेष्वन्तर्निविष्टा अन्तःप्रविष्टा
येऽरुणमणयः पद्मरागास्तेषां किरणास्त्विषस्तेषां कलापच्छलेन बहिः परिस्फुरति हृदयं चित्तं विविक्षुः प्रवेष्टु
मिच्छुरिव बहिः परिस्फुरति बहिः प्रसर्पति । यद्वा- भिनवयौवनरागो हृदयं विविक्षुरिव पूर्वोक्तच्छलेन बहिः
परिस्फुरति । एतदिति । एत [^2]द्वैस्त्वभिनवमनेन चन्द्रापीडेन चामरकला- पान्तरैर्मध्यैरित एवेतः प्रदेश एव
वीक्षितमवलोकितम् । अनेन
किमप्येतदज्ञातस्वरूपं वैशम्पायनेन सह समामन्त्र्य संभाषणं कृत्वा दशनमयूख-
लेखाधवलीकृत दिक्चक्रवालं यथा स्यात्तथा हसि- तम् । एषोऽस्येति । एष बलाहकोऽस्य [^3]राज्ञः शुकः की रस्तस्य
रस्तस्य
पक्षतिः पक्षस्तद्वद्धरितरागो नीलरागो यस्मिन्नेवंभूतेनोत्तरीयां शुक- प्रान्तेन संव्यानवस्त्रप्रान्तेन । तुरगखुरच
लनजन्मानमिति । तुरगा अश्वास्तेषां खुराः शफास्तेषां चलनं गमनं तस्माज्जन्मोत्पत्तिर्यस्यै- वंविधं रेणुं
धूलिमप्र ग्रकेशेषु लग्नमपहरति दूरीकरोति । अनेनेति । अनेन चन्द्रापीडेन लक्ष्म्या यत्करकमलं तद्वत्कोमलं
मृदु तलं यस्य स तथा चरणपल्लवस्तुरङ्गमस्कन्धे तिर्यक्समुत्क्षिप्य [^4]तिर्यगु- त्पाद्य सलीलं यथा स्यात्तथा निक्षिप्तः
स्थापितः । अयमिति । अनेन चन्द्रापीडेन ताम्बूलं नागवल्लीदलं तद्याचनार्थंमयं करो हस्तः झु
शु
ण्डा च
गजेनेव प्रसारितो विस्तारितः । करं विशिष्टि - उत्तानि- तेति । उत्तानितं तलं यस्य स तथा । दीर्घा अङ्गु
लयो यस्य स तथा । आ ईषत्ताम्रो रक्तवर्णः पुष्करकोशः कमलकोशस्तद्वच्छोभत इत्येवंशीलः स तथा । पक्षे
पुष्करं शुण्डाग्रम् । ताम्बूलपत्राणां तत्साम्येनाह - शैवेति । शैवालं शेवालं तस्य कवलो गुडस्तस्य ग्रासो भक्षणं
तत्र लालसो लोलुपः । धन्येति । सा स्त्री धन्या भाग्यवती यास्य निर्जितकमलं करतलं लक्ष्मीरिव ग्रहीष्यति ।
अत एव वसुंधरायाः सपत्नीत्युक्तम् । धन्या चेति । चकारः पुनरर्थे । देवी विलासवती धन्या महाभाग्य-
ती । एतदर्थं स्पष्टयन्नाह - सकलेति । यथा विलासवत्या सकलं यन्महीमण्डलं तस्य यो भारो वीवधस्तस्य
 

 
[^1]
F
 

 
टिप्प० - 1
. पुरन्ध्रीणामेवं वर्णनानौचित्यात्कवेरनभिप्रेतोयमर्थः । अस्य वक्षसि हारान्तर्गतरक्कम-
तमणीनामवं रक्तिमा नास्ति किन्तु अभिनवो यौवनरागोऽस्य हृदयं प्रवेष्टुमिच्छति परं नाद्यापि प्रवेशं लब्ध-
वान्, अत एव स बहिः स्फुरति । शैशवं पराजित्य नाद्यापि यौवनस्य पूर्णाधिकारोभूदिति सन्धिविशेषो
व्यङ्ग्यः ।
[^
2]F. एतद्वस्तु वीक्षितमिति तु टीकाकारस्य घोरमज्ञानम् । अनेन ( चन्द्रा पीडेन ) चामर कला-
पस्य अन्तरैः मध्यप्रदेशैः इत एव मां प्रत्येव एतद् पीवीक्षितम् । एतदिति दर्शनक्रियायाः परामर्शः । सेयं
सं

विलासमन्मथा कस्याश्चिदुक्तिः ।
[^
3]F. राजकुमारस्य ( चन्द्रापीडस्य ) इत्यर्थः ।
[^
4]F. उत्थाप्य ।
 
२ धवलित

 
[^१]G
.
 

 
पाठा०-१
अलकचामरकलापान्तरेरितविरलवीक्षितम्. अनेकचामर- कलापान्तरितमस्य वीक्षितम्.

[^२]G. धवलित.
[^
]G. आलग्न.
[^
करतल, ]G. करतल.
[^
]G. कोमलदीर्घाङ्गुलि: .
[^
]G. कवललालसः; कवलमासवान्छ्ञ्छया.
[^
]G. मण्डलधारण.