This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
णमणिकिरणकलापच्छलेन हृदयं विविक्षुरभिनवयौवनराग इव बहिः परिस्फुरति । एतदेनेन
चामरकलापान्तरैरित एव वीक्षितम् । एतत्किमपि वैशम्पायनेन सह समामत्र्य दशनमयू-
खलेखाधवलीकृत दिक्चक्रवालं हसितम् । एषोऽस्य शुकपक्षतिहरितरागेणोत्तरीयांशुकप्रान्तेन
बलाहकस्तुरगखुरचलनजन्मानं लग्नमय केशेषु रेणुमपहरति । अयमनेन लक्ष्मीकरकमलको-
मलतलः समुत्क्षिप्य तिर्यक् तुरङ्गमस्कन्धे निक्षिप्तश्चरणपल्लव: सलीलम् । अयमनेन च ता-
म्बूलयाचनार्थर्मुत्तानिततलो दीर्घाङ्गुलिराताम्रपुष्करकोशशोभी गजेनेव शैवालकँवलग्रासला-
लसः प्रसारितः करः । धन्या सा या लक्ष्मीरिव निर्जितकमलं करतलमस्यं वसुंधरासपत्नी
महीष्यति । धन्या च देवी विलासवती सकलमहीमण्डलभारधारणक्षमः ककुभा दिग्गज
 
१८८
 
शिरीषकुसुमकर्णपूरीभावेऽपि तद्वत्त्वं बोध्यमिति भावः । एतस्येति विषये षष्ठी । फलस्येच्छेतिवत् । एतद्विषये
योsभिनवयौवनेनाभिनवतारुण्येन योऽस्माकं रागः स हारा मुक्ताकलापास्तेष्वन्तर्निविष्टा अन्तःप्रविष्टा
येऽरुणमणयः पद्मरागास्तेषां किरणास्त्विषस्तेषां कलापच्छलेन बहिः परिस्फुरति हृदयं चित्तं विविक्षुः प्रवेष्टु
मिच्छुरिव बहिः परिस्फुरति बहिः प्रसर्पति । यद्वाभिनवयौवनरागो हृदयं विविक्षुरिव पूर्वोक्तच्छलेन बहिः
परिस्फुरति । एतदिति । एतद्वैस्त्वभिनवमनेन चन्द्रापीडेन चामरकलापान्तरैर्मध्यैरित एवेतः प्रदेश एव
वीक्षितमवलोकितम् । अनेन किमप्येतदज्ञातस्वरूपं वैशम्पायनेन सह समामन्त्र्य संभाषणं कृत्वा दशनमयूख-
लेखाधवलीकृत दिक्चक्रवालं यथा स्यात्तथा हसितम् । एषोऽस्येति । एष बलाहकोऽस्य राज्ञः शुकः की रस्तस्य
पक्षतिः पक्षस्तद्वद्धरितरागो नीलरागो यस्मिन्नेवंभूतेनोत्तरीयां शुकप्रान्तेन संव्यानवस्त्रप्रान्तेन । तुरगखुरच
लनजन्मानमिति । तुरगा अश्वास्तेषां खुराः शफास्तेषां चलनं गमनं तस्माज्जन्मोत्पत्तिर्यस्यैवंविधं रेणुं
धूलिमप्र केशेषु लग्नमपहरति दूरीकरोति । अनेनेति । अनेन चन्द्रापीडेन लक्ष्म्या यत्करकमलं तद्वत्कोमलं
मृदु तलं यस्य स तथा चरणपल्लवस्तुरङ्गमस्कन्धे तिर्यक्समुत्क्षिप्य तिर्यगुत्पाद्य सलीलं यथा स्यात्तथा निक्षिप्तः
स्थापितः । अयमिति । अनेन चन्द्रापीडेन ताम्बूलं नागवल्लीदलं तद्याचनार्थंमयं करो हस्तः झुण्डा च
गजेनेव प्रसारितो विस्तारितः । करं विशिष्टि - उत्तानि तेति । उत्तानितं तलं यस्य स तथा । दीर्घा अङ्गु
लयो यस्य स तथा । आ ईषत्ताम्रो रक्तवर्णः पुष्करकोशः कमलकोशस्तद्वच्छोभत इत्येवंशीलः स तथा । पक्षे
पुष्करं शुण्डाग्रम् । ताम्बूलपत्राणां तत्साम्येनाह - शैवेति । शैवालं शेवालं तस्य कवलो गुडस्तस्य ग्रासो भक्षणं
तत्र लालसो लोलुपः । धन्येति । सा स्त्री धन्या भाग्यवती यास्य निर्जितकमलं करतलं लक्ष्मीरिव ग्रहीष्यति ।
अत एव वसुंधरायाः सपत्नीत्युक्तम् । धन्या चेति । चकारः पुनरर्थे । देवी विलासवती धन्या महाभाग्य-
बती । एतदर्थ स्पष्टयन्नाह - सकलेति । यथा विलासवत्या सकलं यन्महीमण्डलं तस्य यो भारो वीवधस्तस्य
 
F
 

 
टिप्प० - 1 पुरन्ध्रीणामेवं वर्णनानौचित्यात्कवेरनभिप्रेतोयमर्थः । अस्य वक्षसि हारान्तर्गतरक्कम-
णीनामवं रक्तिमा नास्ति किन्तु अभिनवो यौवनरागोऽस्य हृदयं प्रवेष्टुमिच्छति परं नाद्यापि प्रवेशं लब्ध-
वान्, अत एव स बहिः स्फुरति । शैशवं पराजित्य नाद्यापि यौवनस्य पूर्णाधिकारोभूदिति सन्धिविशेषो
व्यङ्ग्यः । 2 एतद्वस्तु वीक्षितमिति तु टीकाकारस्य घोरमज्ञानम् । अनेन ( चन्द्रा पीडेन ) चामर कला-
पस्य अन्तरैः मध्यप्रदेशैः इत एव मां प्रत्येव एतद् पीक्षितम् । एतदिति दर्शनक्रियायाः परामर्शः । सेयं
संविलासमन्मथा कस्याश्चिदुक्तिः । 3 राजकुमारस्य ( चन्द्रापीडस्य ) इत्यर्थः । 4 उत्थाप्य ।
 
२ धवलित.
 

 
पाठा०-१ अलकचामरकलापान्तरेरितविरलवीक्षितम् अनेकचामरकलापान्तरितमस्य वीक्षितम्.
३ आलभ. ४ करतल, ५ कोमलदीर्घाङ्गुलि: ६ कवललालसः; कवलमासवान्छ्या. ७ मण्डलधारण.