2023-12-20 15:36:28 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

चन्द्रापीडप्रवेशे नारीणां भावालापा: ] पूर्वभागः ।
 
१८७
 
,
 
लीभवसि । मुग्धे, निगूहस्व मदनज्वरजनितपुलकजालकम् । अं[^१]असाध्वाचरणे, किमेवमुत्ता-
म्यसि । बहुविकारे, अं[^२]अङ्गभङ्ग- वलनायासितमध्यभागा वृथा खिद्यसे । शून्यहृदये, स्वभव-
नान्निर्गत- मपि नात्मानमवगच्छसि । कौतुकाविष्टे, विस्मृतासि निःश्वसितम्, अन्तःसंकल्प-
रचित [^३]रतसमागमसुखरसनिमीलितलोचने, समु- न्मीलय लोचनयुगलम्, अतिक्रामत्ययम् ।
अनङ्गशरप्रहारमूर्च्छिते, रविकिरणनिवारणाय कुरु शिरस्युत्तरीयांशुकपल्लवम् । अयि सती-
व्रतग्रहगृहीते, द्रष्टव्यमपश्यन्ती वंश्वञ्चयसि लोचनयुगलम् । अॅ[^४]अधन्ये, हतासि परपुरुषादर्श-
नत्रै
न [^५]व्रतेन । प्रसीदोत्तिष्ठ सखि, पश्य रतिविरहितं साक्षादिव भगवन्तमगृहीतमकरध्वजं म
-
करध्वजम् । अयमस्य सितातपत्रान्तरेण अलिकुलनीले शिरसि तिमिरशङ्कानिपतित इव
शशिकरकलापो मालतीकुसुशेख- रोऽभिलक्ष्यते । एतदस्य कर्णाभरणमरकत प्रभाशयामायि..
तमुप- रचित विकच शिरीषकुसुमकर्णपूरमिव कपोलतलमाभाति । अयमस्य हारान्तर्निविष्टार-
रु-
 
[ टि ]--
गुरुजना: पूज्यजनास्तेषां समक्षं प्रत्यक्षं किं धावसि किं प्रधावनं करोषि । हे उल्लसत्स्वाभावे प्रवर्धमानाशये
किं
किमिति प्रश्ने । एवममुना प्रकारेणाकुलीभवसि व्याकुलतां भजसे । हे मुन्ग्धे प्ग्रथिले, मदनज्वरेण कामज्वरेण
जनितं यत्पुलकजालकं रोमाञ्चसमूहं निगूहस्व संवृतं कुरु । हे असाध्याचरणे अशुभचरिते । किमेवमु- त्ता-
म्यसि कथं ग्लानिं भजसि । हे बहुविकारे हे अनेकविकारवति, अङ्गानां भङ्गाः संस्थानविशेषास्तेषां वलनं
संकोचस्तेनायासितः खिन्नो मध्यभागोऽवलग्नं यस्या एवंविधा त्वं वृथा [^1]मुधा त्रि ‌खिद्यसे खेदं प्राप्नोषि ।
शून्यहृदये शून्यचित्ते । स्वभवनान्निजगृहादात्मानं निर्गतमपि बहिरागतमपि नावगच्छसि न जानासि । हे
कौतुकाविष्टे हे कुतूहलगृहीते । निःश्वसितुं निःश्वासं ग्रहीतुं विस्मृतासि । कौतुके- नैवं व्याक्षिप्तचित्ताभूर्य-
थोच्छ्रावासमपि न गृह्णासीति भावःअन्तःसंक- ल्पेन मनोध्यवसायेन रचितो यो रतसमागमो मैथुनप्राप्तिस्ततो
यं

त्सुखं सातं तस्य यो रस आन्तरप्रीतिस्तेन निमीलिते मुद्रिते लोचने यस्यास्तस्याः संबोधनम्, लोचनयुगलं
समुन्मीलय विकासय । अयं चन्द्रापीडोऽतिक्रामति गच्छति । हे अनङ्गशरप्रहारमूर्च्छिते हे का- मबाणाघात-
निश्चेतने, रविकिरणनिवारणाय सूर्यतापापनोदायोत्तरी-
यांशुकपल्लवं शिरसि मस्तके कुरु विधेहि । अयीति
कोमलामन्त्रणे । हे सतीव्रतग्रहगृहीते सतीव्रतं पातिव्रत्यं तल्लक्षणो यो ग्रहस्तेन गृहीते, ग्रथिले इत्यर्थः ।
द्रष्टव्यं द्रष्टुं योग्यमपि चन्द्रापीडमपश्य-
न्त्यनवलोकयन्ती लोचनयुगलं वञ्चयसि वञ्चनां करोषि । हे अधन्ये

हे अभाग्ये, परपुरुषाणां यददर्शनव्रतं तेन हतासि पीडितासि । चन्द्रापीडस्तु न तथाविधः पुरुषो येन दर्श-
नां
नादेव व्रतभङ्गः स्यादिति भावः । प्रसीद प्रसन्ना भव । हे सखि, उत्तिष्ठोत्थानं कुरु । रतिविर- हितं रतिरहि-
तमगृहीतो मकरचिह्नितो ध्वजो येनैवंभूतं साक्षादिव भगवन्तं मकरध्वजं पश्य विलोकय । अयमिति । अस्य
चन्द्रा- पीडस्य सितं यदातपत्रं छत्रं तस्यान्तरेणान्तराऽलिकुलं भ्रमरकुलं तद्वन्नीले हरिते शिरसि मस्तकेऽयं माल-
ती कुसुम शेखर स्तिमिरस्य या शङ्का शङ्कनं तेन निपतितः शशिकरकलाप इव चन्द्ररश्मिसमूह इवाभिलक्ष्यते जनै-
र्ज्ञायते । तिमिरस्य शशिकरबाध्यत्वात्तच्छङ्कया तंद्वाघातयितुं निपतित इवेत्युत्प्रेक्षा । श्वेतत्वसाम्यान्मालती कुसुम-

शेखरस्य चन्द्रकरकलापोपमानम् । एतदिति । अस्य कुमारस्यै- तत्कपोलतलं गल्लात्परो भाग आभाति शोभते ।
कीदृशं कपोल- स्थलम् । कर्णाभरणस्य या मरकतप्रभा तथा श्यामायितं श्यामव-
दाचरितम् । किमिव । उपरचितो.
निर्मितो विकचशिरीषकुसुमस्य कर्णपूरो यस्मिन्नेवंभूतमिव । मरकतप्रभायाः श्यामत्वात्तयांयालंकृत- स्य कपोलस्य
 
टिप्प० -

 
[^
1]F. चन्द्रापीडालाभादित्यर्थः ।
 
पाठा० -

 
[^
]G. अंसावरणे.
[^
विविभाङ्गवत;]G. विविधाङ्गवलन; विविधाङ्गभङ्गवलन; विविधाङ्गभङ्ग चकचकचल- चलन.
[^
]G. सुरत; रति.
[^
]G. अधमे

[^
]G. परिहारव्रतेन.