This page has not been fully proofread.

चन्द्रापीडप्रवेशे नारीणां भावालापा: ] पूर्वभागः ।
 
१८७
 
,
 
लीभवसि । मुग्धे, निगूहस्व मदनज्वरजनितपुलकजालकम् । अंसाध्वाचरणे, किमेवमुत्ता-
म्यसि । बहुविकारे, अंङ्गभङ्गवलनायासितमध्यभागा वृथा खिद्यसे । शून्यहृदये, स्वभव-
नान्निर्गतमपि नात्मानमवगच्छसि । कौतुकाविष्टे, विस्मृतासि निःश्वसितम्, अन्तःसंकल्प-
रचितरतसमागमसुखरसनिमीलितलोचने, समुन्मीलय लोचनयुगलम्, अतिक्रामत्ययम् ।
अनङ्गशरप्रहारमूच्छिते, रविकिरणनिवारणाय कुरु शिरस्युत्तरीयांशुकपल्लवम् । अयि सती-
व्रतग्रहगृहीते, द्रष्टव्यमपश्यन्ती वंश्चयसि लोचनयुगलम् । अॅधन्ये, हतासि परपुरुषादर्श-
नत्रैतेन । प्रसीदोत्तिष्ठ सखि, पश्य रतिविरहितं साक्षादिव भगवन्तमगृहीतमकरध्वजं म
करध्वजम् । अयमस्य सितातपत्रान्तरेण अलिकुलनीले शिरसि तिमिरशङ्कानिपतित इव
शशिकरकलापो मालतीकुसुभशेखरोऽभिलक्ष्यते । एतदस्य कर्णाभरणमरकत प्रभाशयामायि..
तमुपरचित विकच शिरीषकुसुमकर्णपूरमिव कपोलतलमाभाति । अयमस्य हारान्तर्निविष्टार-
गुरुजना: पूज्यजनास्तेषां समक्षं प्रत्यक्षं किं धावसि किं प्रधावनं करोषि । हे उल्लसत्खभावे प्रवर्धमानाशये
किंमिति प्रश्ने । एवममुना प्रकारेणाकुलीभवसि व्याकुलतां भजसे । हे मुन्धे प्रथिले, मदनज्वरेण कामज्वरेण
जनितं यत्पुलकजालकं रोमाञ्चसमूहं निगूहस्व संवृतं कुरु । हे असाध्याचरणे अशुभचरिते । किमेवमुत्ता-
म्यसि कथं ग्लानिं भजसि । हे बहुविकारे हे अनेकविकारवति, अङ्गानां भङ्गाः संस्थानविशेषास्तेषां वलनं
संकोचस्तेनायासितः खिन्नो मध्यभागोऽवलग्नं यस्या एवंविधा त्वं वृथा मुधा त्रिद्यसे खेदं प्राप्नोषि ।
शून्यहृदये शून्यचित्ते । स्वभवनान्निजगृहादात्मानं निर्गतमपि बहिरागतमपि नावगच्छसि न जानासि । हे
कौतुकाविष्टे हे कुतूहलगृहीते । निःश्वसितुं निःश्वासं ग्रहीतुं विस्मृतासि । कौतुकेनैवं व्याक्षिप्तचित्ताभूर्य-
थोच्छ्रासमपि न गृह्णासीति भावः । अन्तःसंकल्पेन मनोध्यवसायेन रचितो यो रतसमागमो मैथुनप्राप्तिस्ततो
यंत्सुखं सातं तस्य यो रस आन्तरप्रीतिस्तेन निमीलिते मुद्रिते लोचने यस्यास्तस्याः संबोधनम्, लोचनयुगलं
समुन्मीलय विकासय । अयं चन्द्रापीडोऽतिक्रामति गच्छति । हे अनङ्गशरप्रहारमूच्छिते हे कामबाणाघात-
निश्चेतने, रविकिरणनिवारणाय सूर्यतापापनोदायोत्तरीयांशुकपल्लवं शिरसि मस्तके कुरु विधेहि । अयीति
कोमलामन्त्रणे । हे सतीव्रतग्रहगृहीते सतीव्रतं पातिव्रत्यं तल्लक्षणो यो ग्रहस्तेन गृहीते, ग्रथिले इत्यर्थः ।
द्रष्टव्यं द्रष्टुं योग्यमपि चन्द्रापीडमपश्यन्त्यनवलोकयन्ती लोचनयुगलं वञ्चयसि वञ्चनां करोषि । हे अधन्ये
हे अभाग्ये, परपुरुषाणां यददर्शनव्रतं तेन हतासि पीडितासि । चन्द्रापीडस्तु न तथाविधः पुरुषो येन दर्श-
नांदेव व्रतभङ्गः स्यादिति भावः । प्रसीद प्रसन्ना भव । हे सखि, उत्तिष्ठोत्थानं कुरु । रतिविरहितं रतिरहि-
तमगृहीतो मकरचिह्नितो ध्वजो येनैवंभूतं साक्षादिव भगवन्तं मकरध्वजं पश्य विलोकय । अयमिति । अस्य
चन्द्रापीडस्य सितं यदातपत्रं छत्रं तस्यान्तरेणान्तराऽलिकुलं भ्रमरकुलं तद्वन्नीले हरिते शिरसि मस्तकेऽयं माल-
ती कुसुम शेखर स्तिमिरस्य या शङ्का शङ्कनं तेन निपतितः शशिकरकलाप इव चन्द्ररश्मिसमूह इवाभिलक्ष्यते जनै-
ज्ञयते । तिमिरस्य शशिकरबाध्यत्वात्तच्छङ्कया तंद्वातयितुं निपतित इवेत्युत्प्रेक्षा । श्वेतत्वसाम्यान्मालती कुसुम-
शेखरस्य चन्द्रकरकलापोपमानम् । एतदिति । अस्य कुमारस्यैतत्कपोलतलं गल्लात्परो भाग आभाति शोभते ।
कीदृशं कपोलस्थलम् । कर्णाभरणस्य या मरकतप्रभा तथा श्यामायितं श्यामवदाचरितम् । किमिव । उपरचितो.
निर्मितो विकचशिरीषकुसुमस्य कर्णपूरो यस्मिन्नेवंभूतमिव । मरकतप्रभायाः श्यामत्वात्तयांलंकृतस्य कपोलस्य
 
टिप्प० - 1 चन्द्रापीडालाभादित्यर्थः ।
 
पाठा० -१ अंसावरणे. २ विविभाङ्गवत; विविधाङ्गभङ्गवलन; विविधाङ्गभङ्ग चकचकन. ३ सुरत; रति. ४ अमे
५ परिहारमतेन.