2023-09-04 17:33:09 by Lakshmainarayana achar

This page has been fully proofread twice.

कादम्बरीयं चिरापाठ्यपुस्तकत्वेन परिगृहीता । अत एव पठतामुपयोगाय-
१-गद्यकाव्यानां विकासक्रमः ।
२-बाणस्य समयः, जीवनचरितम्, वंशवृक्षादिकं च ।
३-बाणसमये सामाजिकी परिस्थितिः ।
४- बाणकृतेस्तत्त्वविमर्शः ।
५- अन्यकविभिः सह तुलनात्मकमालोचनम् ।
६- कादम्बरीबृहत्कथयोः कथानकंस्य पात्राणां च मिथोविमर्शः ।
७-ग्रन्थे वर्णितानां नायकनायिका-रस-गुण-रीत्यादीनां निरूपणम्।
८-'कादम्बरीसार' नाम्ना पूर्वोत्तरकादम्बर्योः कथासंक्षेपः ।
९ – विषयानुक्रमणिका ।
 
एवमादयो विषयाः संनिवेशिताः । पूर्वार्धसंशोधने उपोद्धाते च महामहोपाध्यायश्रीहरिदाससिद्धान्तवागीशभट्टाचार्यटीकापुस्तकात्,उत्तरार्धे च श्रीजीवानन्दविद्यासागरपुस्तकाच्च भूयसी सहायता-
धिगता । सिद्धान्तवागीशमहोदयस्य वैदुष्यमभिनन्दन्नुपकार- भारमिममसामान्यमधिमानयामि ।
 
बाणा [^१]दुद्भूय भूमानमभीमेष्वपि विन्दती ।
'सेयं कादम्बरीगङ्गा रससङ्गान्निषेव्यताम् ॥
 
 
 
मकरसंक्रान्ति: १९९६ } मञ्जुनाथोपनामा (कविशिरोमणि)-
जयपुरम् भट्टश्रीमथुरानाथशास्त्री,
 
 
 
१ अर्जुनशरादुद्भूय भीष्मे एवं महिमानं प्रकाशयन्त्या: प्रसिद्ध- (बाण) गङ्गात: अभीष्मेषु (काव्यभावनाकोमलहृदयेषु )
महत्त्वं प्राप्नुवती बाणरचनारूपा गङ्गा विशिष्टेति सेवनीयेत्याशयः ।