2023-12-20 15:21:11 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
१८६
कादम्बरी
[ कथायाम्-
मदनान्धे । संयमय मदनिश्चेतने, केशपाशम् । उत्क्षिप चन्द्रापीड- दर्शनव्यसनिनि, काञ्ची-
दामकम् । उत्सर्पय पापे, कपोलदोलायितं कर्णपल्लवम् । अहृदये, गृहाण निपतितं दन्त-
पत्रम् । यौवनोन्मत्ते, विलोक्यसे जनेन, स्थगय पयोधर [^१]भारम् । अपगतलज्जे, शिथिलीभू-
तमाकलय दुकूलम् । अलीकमुग्धे, द्रुततरमागम्यताम् । कुतूह लिनि, देहि [^२]नृपदर्शनान्तरम् ।
असंतुष्टे, कियदालोकयसे । तरलहृदये, परिजनम पेक्षस्व । [^३]पिशाचि, गॅ[^४]गलितोत्तरीया हे[^५]हस्यसे
जनेन । रागावृतनयने, पश्यसि न सखीजनम् । ।अनेक- भङ्गिविकारपूर्णे, दुःखमकारणाया-
सितहृदया जीवसि । मिथ्यावि- नीते, किं व्यपदेशवीक्षितैः, विश्रब्धं [^६]विलोकँकय । यौवन-
शालिनि, किं पीडयसि पयोधरभारेण । अतिकोपने, पुरतो भव । मत्सरिणि, किमेकाकिनी
रुणत्सि वातायनम् । अनङ्गपरवशे मदीयमुत्तरीयां- शुकमुत्तरीयतां नयसि । राँ[^८]रागासवमत्ते,
निवारयात्मानम् । उज्झितधैर्ये, किं धावसि गुरुजनसमक्षम् । उल्लसत्स्वभावे, किमे- वमाकु-
,
9
,
[ टि ]-- लतां केशलतामुल्ला सयोवींर्ध्वीकुरु । हे मदनान्धे, चन्द्रले- खामलिकाभरण [^1]मुपाहर दूरीकुरु । उपहारार्थथं पूजार्थं यानि
कुसुमानि तैः, स्खलितचरणा पतसि । पतिष्यसीत्यर्थः । 'वर्तमान- सामीप्ये वर्तमानवद्वा' इति भविष्यत्यर्थे वर्त-
मानः । हे मदनिश्चेतने, केशपाशमलकसमूहं संयमय सम्यग्बन्धनं कुरु । हे चन्द्रापीडद- र्शन व्यसनिमिनि, काञ्ची-
दामकं रसनादामोत्क्षिपोच्चैर्नय । हे पापे, कपोलदोलायितं कपोलावलम्बि कर्णपल्लवमुत्सर्पयोर्ध्वं कुरु । हे अहं-
हृदये हृदयवर्जिते । निपतितं स्रस्तं दन्तपत्रं कर्णाभरणं गृहाण स्वीकुरु हे यौवनोन्मत्ते, यौवनं तारुण्यं तेनो-
न्मत्ते, पयोधरभारं स्थग- याच्छादय । अनेन विलोक्यस आगन्तुकलोकेन हदृग्विषयीक्रियसे । हे अपगतलज्जे,
अपगता दूरीभूता लज्जा यस्यास्तस्याः संबोधनम्, शिथिलीभूतं श्लथीभूतं दुकूलं दुगूकूलमाकलय संयमय । हे
अली- कमुग्धे त्वं मुग्धा नांनासि । किंतु मिथ्यामुग्धत्वं प्रतिपन्नासि । द्रुततरं शीघ्रतरमागम्यताम् । किमर्थ
थं बिलम्बं करोषि । हे कुतूहलिनि, कुतूहलं विद्यते यस्यामिति तस्याः संबोधनम्, नृपदर्शनार्थमन्तरं विचालं देहि ।
' विचालं मध्यमन्तरे' इति कोशः हे असंतुष्टे संतोष- वर्जिते, कियत्कियन्मात्रमा लोकय से वीक्षसे । हे तरलह-
हृदये चञ्चल- चित्ते, परिजनं परिच्छदमपेक्षस्खावापेक्षां कुरु । हे पिशाचि हे राक्षसि, गलितं स्वस्थानात्त्स्रस्तमुत्तरीयं
संव्यानं यस्या एवंविधा त्वं जनेन लोकेन हस्यसे । हे रागावृतनयने रागेण कामरागेणावृते आच्छादिते नयने
लोचने यस्यास्तस्याः संबोधनम्, सखीजनमालिजनं न पश्य- सि न विलोकयसि । अनेकेति । अनेके ये
भङ्गिविकाराः कौटिल्य- विकारास्तैः पूर्णे भृते हे सखि, अकारणेन निमित्तव्यतिरेकेणायासि- तं खेदितं [^3]हृदयं
ययैवंभूता सती दुःखं दुःखरूपमेव । न सुखे- नेत्यर्थः । जीवसि प्राणान्धत्से । हे मिथ्याविनीते हे [^4]असत्येन
विनयकारिणि, व्यपदेश वीक्षितैः कपटावलोकितैः किम् । विश्रब्धं सविश्वासं यथा स्यात्तथा विलोकय पश्य ।
हे यौवनशालिनि हे तारु- ण्यशोभिनि, पयोधरभारेण स्तनभारेण किं पीडयसि किं पीडां जनयसि । मदुपरि
पतनेनेति भावः । अतिकोपने हे चण्डि, पुर- तोऽग्रतो भव । हे मत्सरिणि हे अमर्षिणि, एकाकिनी
वातातयनं गवा- क्षं किं रुणत्सि रोधनं कुरुषे । हे अनङ्गपरवशे हे मदनायत्ते, मदी- यमुत्तरीयांशुकमुत्तरीयता-
मुपरिवस्त्रतां नयसि प्रापयसि । हे रागा- सवमत्ते रागः प्रीतिः स एवासवः सीधु तेन मत्ते क्षीबे, आत्मानं
निवारय वारणां कुरु । अतिरागवशान्मरणं भविष्यतीति भावः ।
हे उज्झितधैर्ये त्यक्तसाहसे, गुरुजनसमक्षं
टिप्प० -
[^1]F. पतितां चन्द्रलेखाम् ('चाँद' 'बैदा' ) उपाहर उत्थापय, गृहाणेत्यर्थः । टीकाकारस्तु
भ्रान्तः ।
[^2]F. अवकाशम् मह्यमपि दर्शनाय स्थानं देहीत्याशयः ।
[^3 ]F.चन्द्र/रापीडलाभासंभवादकारणमेव
हृदयस्यायासः दुःखमयं च जीवनमित्याशयः ।
[^4]F. मिथ्यैव विनयाऽभिनयं प्रदर्शयसीत्यर्थः ।
2
पाठा० -
[^१]G. भागम्.
[^२]G. दर्शनान्तरम्.
[^३]G. पिशाचिके, .
[^४]G. वलित .
[^५]G. विहस्यसे.
[^६]G. आलोकय .
[^७]G. रागमत्ते.