This page has not been fully proofread.

१८६
 
कादम्बरी
 
[ कथायाम्-
मदनान्धे । संयमय मदनिश्चेतने, केशपाशम् । उत्क्षिप चन्द्रापीडदर्शनव्यसनिनि, काञ्ची-
दामकम् । उत्सर्पय पापे, कपोलदोलायितं कर्णपल्लवम् । अहृदये, गृहाण निपतितं दन्त-
पत्रम् । यौवनोन्मत्ते, विलोक्यसे जनेन, स्थगय पयोधरभारम् । अपगतलजे, शिथिलीभू-
तमाकलय दुकूलम् । अलीकमुग्धे, द्रुततरमागम्यताम् । कुतूह लिनि, देहि नृपदर्शनान्तरम् ।
असंतुष्टे, कियदालोकयसे । तरलहृदये, परिजनम पेक्षस्व । पिशाचि, गॅलितोत्तरीया हेस्यसे
जनेन । रागावृतनयने, पश्यसि न सखीजनम् । अनेकभङ्गिविकारपूर्णे, दुःखमकारणाया-
सितहृदया जीवसि । मिथ्याविनीते, किं व्यपदेशवीक्षितैः, विश्रब्धं विलोकँय । यौवन-
शालिनि, किं पीडयसि पयोधरभारेण । अतिकोपने, पुरतो भव । मत्सरिणि, किमेकाकिनी
रुणत्सि वातायनम् । अनङ्गपरवशे मदीयमुत्तरीयांशुकमुत्तरीयतां नयसि । राँगासवमत्ते,
निवारयात्मानम् । उज्झितधैर्ये, किं धावसि गुरुजनसमक्षम् । उल्लसत्स्वभावे, किमेवमाकु-
,
 
9
 
,
 
लतां केशलतामुल्ला सयोवींकुरु । हे मदनान्धे, चन्द्रलेखामलिकाभरणमुपाहर दूरीकुरु । उपहारार्थ पूजार्थं यानि
कुसुमानि तैः, स्खलितचरणा पतसि । पतिष्यसीत्यर्थः । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यत्यर्थे वर्त-
मानः । हे मदनिश्चेतने, केशपाशमलकसमूहं संयमय सम्यग्बन्धनं कुरु । हे चन्द्रापीडदर्शन व्यसनिमि, काञ्ची-
दामकं रसनादामोत्क्षिपोचैर्नय । हे पापे, कपोलदोलायितं कपोलावलम्बि कर्णपल्लवमुत्सर्पयोर्ध्वं कुरु । हे अहं-
दये हृदयवर्जिते । निपतितं स्रस्तं दन्तपत्रं कर्णाभरणं गृहाण स्वीकुरु हे यौवनोन्मत्ते, यौवनं तारुण्यं तेनो-
न्मत्ते, पयोधरभारं स्थगयाच्छादय । अनेन विलोक्यस आगन्तुकलोकेन हग्विषयीक्रियसे । हे अपगतलज्जे,
अपगता दूरीभूता लज्जा यस्यास्तस्याः संबोधनम्, शिथिलीभूतं श्लथीभूतं दुकूलं दुगूलमाकलय संयमय । हे
अलीकमुग्धे त्वं मुग्धा नांसि । किंतु मिथ्यामुग्धत्वं प्रतिपन्नासि । द्रुततरं शीघ्रतरमागम्यताम् । किमर्थ
बिलम्बं करोषि । हे कुतूहलिनि, कुतूहलं विद्यते यस्यामिति तस्याः संबोधनम्, नृपदर्शनार्थमन्तरं विचालं देहि ।
' विचालं मध्यमन्तरे' इति कोशः हे असंतुष्टे संतोषवर्जिते, कियत्कियन्मात्रमा लोकय से वीक्षसे । हे तरलह-
दये चञ्चलचित्ते, परिजनं परिच्छदमपेक्षस्खापेक्षां कुरु । हे पिशाचि हे राक्षसि, गलितं स्वस्थानात्त्रस्तमुत्तरीयं
संव्यानं यस्या एवंविधा त्वं जनेन लोकेन हस्यसे । हे रागावृतनयने रागेण कामरागेणावृते आच्छादिते नयने
लोचने यस्यास्तस्याः संबोधनम्, सखीजनमालिजनं न पश्यसि न विलोकयसि । अनेकेति । अनेके ये
भङ्गिविकाराः कौटिल्यविकारास्तैः पूर्णे भृते हे सखि, अकारणेन निमित्तव्यतिरेकेणायासितं खेदितं हृदयं
ययैवंभूता सती दुःखं दुःखरूपमेव । न सुखेनेत्यर्थः । जीवसि प्राणान्धत्से । हे मिथ्याविनीते हे असत्येन
विनयकारिणि, व्यपदेश वीक्षितैः कपटावलोकितैः किम् । विश्रब्धं सविश्वासं यथा स्यात्तथा विलोकय पश्य ।
हे यौवनशालिनि हे तारुण्यशोभिनि, पयोधरभारेण स्तनभारेण किं पीडयसि किं पीडां जनयसि । मदुपरि
पतनेनेति भावः । अतिकोपने हे चण्डि, पुरतोऽग्रतो भव । हे मत्सरिणि हे अमर्षिणि, एकाकिनी
वातायनं गवाक्षं किं रुणत्सि रोधनं कुरुषे । हे अनङ्गपरवशे हे मदनायत्ते, मदीयमुत्तरीयांशुकमुत्तरीयता-
मुपरिवस्त्रतां नयसि प्रापयसि । हे रागासवमत्ते रागः प्रीतिः स एवासवः सीधु तेन मत्ते क्षीबे, आत्मानं
निवारय वारणां कुरु । अतिरागवशान्मरणं भविष्यतीति भावः । हे उज्झितधैर्ये त्यक्तसाहसे, गुरुजनसमक्षं
 
टिप्प० - 1 पतितां चन्द्रलेखाम् ('चाँद' 'बैदा' ) उपाहर उत्थापय, गृहाणेत्यर्थः । टीकाकारस्तु
भ्रान्तः । 2 अवकाशम् मह्यमपि दर्शनाय स्थानं देहीत्याशयः । 3 चन्द्र/पीडलाभासंभवादकारणमेव
हृदयस्यायासः दुःखमयं च जीवनमित्याशयः । 4 मिथ्यैव विनयाऽभिनयं प्रदर्शयसीत्यर्थः ।
 
2
 
पाठा० -१ भागम्. २ दर्शनान्तरम्. ३ पिशाचिके, ४ वलित ५ विहस्यसे. ६ आलोकय ७ रागमत्ते.