This page has not been fully proofread.

चन्द्रापीडप्रवेशे नारीणां भावालापाः ] पूर्वभागः ।
 
१८५
 
मुहूर्तादिव युवतिजन निरन्तरतया नारीमया इव प्रासादाः, सालक्तक पदकमलविन्यासैः
पल्लवमयमिव क्षितितलम्, अङ्गनाङ्गप्रभाप्रवाहेण लावण्यमयमिव नगरम्, आननमण्डल-
निवहेन चन्द्रबिम्बमयमिव गगनतलम् आतपनिवारणायोत्तानित करतलजालकेन कमलव-
नमयमिव दिक्चक्रवालम्, आभरणांशुकलापेनेन्द्रायुधमय इवातपः, लोर्चेनमयूखलेखासं-
तानेन नीलोत्पलदलमय इव दिवसो बभूव । कौटुकप्रसारित निश्चललोचनानां च पश्य-
न्तीनां तासामादर्शमयानीव सलिलमयानीव स्फटिकमयानीव हृदयानि विवेश चन्द्रापी-
डाकृतिः । आविर्भूतमदनरसानां चान्योन्यं सपरिहासाः सविनम्भाः ससंभ्रमाः सेर्ष्याः
सोत्प्रासा: साभ्यसूयाः सविलासाः समन्मथा : सस्पृहाच तत्क्षणं रँमणीयाः प्रससुरालापाः ।
 
तथा हि 'त्वरितगमने, मामपि प्रतिपालय । दर्शनोन्मत्ते, गृहाणोत्तरीयम् । उँल्लासयाल-
कलतामाननावलम्बिनीम् । मूंढे, चन्द्रलेखामुपाहर । उपहारकुसुमस्खलितचरणा पतसि
 

 
मुहूर्तादिव मुहूर्तानन्तरं युवतिजनैः स्त्रीजनैर्निरन्तरतया निबिडतया प्रासादा भूपसद्मानि नारीमया इन
स्त्रीभिर्निष्पन्ना इव बभूवुः । सालक्तकं सयावकं यत्पदकमलं चरणपद्मं तस्य विन्यासैः स्थापनैः क्षितितलं
वसुधातलं पल्लवमयमिव किसलयमयमिवासीत् । अङ्गनानां योषितामङ्गस्य शरीरस्य प्रभाप्रवाहेण कान्तिधारया
नगरं द्रङ्गं लावण्यमयमिव चातुर्यमैयमिवासीत् । आननं मुखं तस्य मण्डलम् । वर्तुलाकृतित्वात् । तेषां निवहेन
समूहेन गगनतलं व्योमतलं चन्द्रबिम्बमयमिवासीत् । आतपनिवारणाय सूर्यालोकदृरीकरणायोत्ता नितान्यूर्वी-
कृतानि यानि करतलानि तेषां जालकेन समूहेन दिक्चक्रवालं दिशां चक्रं कमलवनमप्रमिवासीत् । आभरणानां
भूषणानामंशवः किरणास्तेषां कलापेन समूहेनातप इन्द्रायुधमय इवासीत् । लोचनानां नेत्राणां या मयूखलेखाः
कान्तिराजयस्तासां संतानेन परंपरया दिवसो नीलोत्पलदलमय इव बभूव । नीलन लिन दलैर्निष्पन्न इवेत्यर्थः ।
कौतुकेन कुतूहलेन प्रसारितानि विस्तारितान्यत एव निश्चलानि स्थिराणि लोचनानि नेत्राणि यासामेवंविधानां
पश्यन्तीनां विलोकयन्तीनां तांसां योषितां हृदयानि चन्द्रापीडाकृतिर्विवेश प्रविष्टा । हृदयानि विशेषयन्नाह-
आदर्शेति । आदर्शो मुकुरस्तन्मयानीव तद्रूपाणीव । सलिलं जलं तन्मयानीव । स्फटिकः प्रसिद्धस्तन्मया-
नीव । प्रतिबिम्बसाधर्म्यादेतेषामुपमानम् । आविरिति । आविर्भूतः प्रकटीभूतो मदनरसः कामरसो यासा-
मेवंविधानां कामिनीनामन्योन्यं परस्परं तत्क्षणं तस्मिन्समये रमणीया मनोहरा आलापा: संलापाः प्रसनु •
र्विस्तारं प्रापुः । आल(पान्विशिष्टि - सपरीति । सह परिहासेन नर्मवचनेन वर्तमानाः सपरिहासाः । सह
विश्रम्मेण विश्वासेन वर्तमानाः सविनम्भाः । सह संभ्रमेण भयेन वर्तमानाः ससंभ्रमाः । सहेर्ध्यया परासहन-
लक्षणया वर्तमानाः सेर्ष्या: । सहोत्प्रासेन वितण वर्तमानाः सोत्प्रासाः । सहाभ्यसूययान्यगुणा सहना त्मिकथा
वर्तमानाः साभ्यसूयाः । सह विलासेन नेत्रजेन वर्तमानाः सविलासाः । सह मन्मथेनानङ्गेन वर्तमानाः
समन्मथाः । सह स्पृहया वान्छया वर्तमानाः सस्पृहाः ।
 
-
 
तानेव प्रदर्शयन्नाह - तथा हीति । त्वरितं शीघ्रं गमनं यस्यास्तस्याः संबोधनं हे त्वरितगमने । मां सखी -
मपि प्रतिपालय । गृहीत्वा गच्छेत्यर्थः । दर्शनेऽवलोकन उन्मत्ता प्रथिला तस्याः संबोधनं हे दर्शनोन्मत्ते ।
उत्तरीयमुपरिवस्त्रं गृहाण । पतन्तं निवारयेत्यर्थः । हे मैढेऽनभिज्ञे । आननावलम्बिनीं मुखोपरि स्रस्तामलक-
टिप्प० -1 सौन्दर्यमयमित्युचितम् । 2 उत्प्रासेन मन्दहासेन सहिताः, 'उत्प्रासः स मनाकू सितम्'
अमरः । 3 उल्लासय इतः पूर्व 'चपले' इति संबोधनं ग्रन्थोचितम् । इदं त्वतनम् ।
 
-
 
पाठा० - १ अङ्गप्रभा; अङ्गनानामङ्गप्रभा २ उत्तानितेन. ३ आभरणांशुकलापेन. ४ साभ्यसूयालोचन.
५ अन्योन्यतः ६ अतिरमणीयाः; अभिरमणीयाः ७ चपले उल्लासय ८ चन्द्रलेखे किमुपहार ९ मुहुरुपाहर.
१० समुपाहर.
 
२४ का०