This page has not been fully proofread.

१.८४
 
कादम्बरी ।
 
[ कथायाम्-

 
मुत्थितेन्द्रायुधतया परिचयानुगतगृहमयूरिका इन विरेंराजन्यः कादिर्धपीतोज्झितमणिच-
षकाः स्फुरितरागैर्मधुरसमिवाधरपल्लवैः क्षरन्यो हर्म्यतलानि ललनाः समारुरुहुः । अन्याश्च
मरकतवातायनविवरवि निर्गतमुखमण्डला विकच कमलकोशपुटामम्बरवलसंचारिणीं कमलि -
नीमिव दर्शयन्त्यो ददृशुः । उदपादि च सहसा सरभससंचलनजन्मा, मधुरसारणास्फालि-
तवीणारव कोलाहलबद्दलः, रसनारबाहूतसारसरसितसंभिन्नः स्खलितचरणतलताडितसोपा-
नजातगम्भीरध्वनिमँहृष्टानामवरोधशिखण्डिनां केकारखैरनुगम्यमानः, नवजलधररवभयच-
कित कलहसकोलाहलकोमलः, मकरध्वजविजयघोषणानुकारी, परस्परविघट्टनारणिततौरतर-
हारमणीनां रमणीनां श्रोत्रहारी, हर्म्यकुक्षिषु प्रतिरवनिदी भूषणनिनादः ।
 

 
,
 
n
 
मयूर्य इव विराजन्त्यः । पूर्वनायिकानामिन्द्रायुधरागरुचिराम्बरपरिधानव स्ववर्णनादेतदुपनानम् । काधि
दिति । अर्ध पीतं पानविषयीकृतं येष्वेवंविधा उज्झितास्यक्ता मणिचषका रत्ननिर्मितपानभाजनानि याभिरताः ।
स्फुरितो देदीप्यमानो रागो रक्तिमा येष्वेवंविधैरधरपल्लवैर्दन्तच्छद किसलयैर्मधुरसमिव कादम्बरीरसमिव क्षरन्त्यः
क्षरणं कुर्वव्यः । रक्तत्वसाम्यादधररागस्य मधुरसोपमानमिति भावः । ललना हर्म्यतलानि समारुरुहुरित्य-
न्वयस्तु प्रागेवोक्तः । अन्याश्चेति । अन्याः काश्चन स्त्रियश्चन्द्रापीडं ददृशुरद्राक्षुः । कीदृश्यः । मरकतस्याश्म-
गर्भस्य ये वातायना गवाक्षास्तेषां विवराणि रन्ध्राणि तेभ्यो विनिर्गतं बहिरागतं मुखमण्डलं यासां ताः ।
कमिव । विकचं स्फीतं कमलकोशपुटं यस्यामेवंविधामम्बरतलसंचारिणी व्योमतलगामिनी कमलिनीमिव दर्श-
यन्त्य आत्मानं प्रकाशयन्त्यः । अत्र नीलत्वसाम्यान्मरकताम्बरयोः साम्यं वर्तुलत्वसाम्यान्मुखकमलयोः
सार्म्य च प्रदर्शितम् । ततो भूषणनिनादोऽङ्गाभरणध्वनिः सहसा सद्य उदपाद्युत्पन्नः । अथ ध्वनिं विशेष-
यन्नाह - सरभसेति । सरभसं सत्वरं यत्संचलनं गमनं तस्माजन्मोत्पत्तिर्यस्य स तथा । मधुरं यथा स्यात्तथा
सारणासु तन्त्रीष्वास्फालिता या वीणा वलक्यस्तासां खः शब्दस्तजनितो यः कोलाहलः कलकलस्तेन बहलो
दृढः । रसना काञ्ची तस्या रवेण शब्देनाहूता आमन्त्रिता ये सारसा लक्ष्मणास्तेषां रसितं शब्दितं तेन संभिन्नो
मिश्रितः । स्खलिताः स्खलनां प्राप्ता ये चरणाः पादास्तेषां तलेन ताडितं हतं यत्सोपानजातमारोहणसमूहं ततो
यो गम्भीर ध्वनिर्मन्द्रध्वनिस्तेन प्रहृष्टानां हर्षितानामवरोधशिखण्डिनामन्तःपुरमयूराणां केकारवैरनुगम्यमानः ।
नवो नवीनोऽकालसंभवो यो जलधरो मेघस्तस्य यो रवः शब्दस्तस्माद्यद्भयं तेन चकितास्त्रस्ता ये कलहंसा:
कादम्बास्तेषां कोलाहलस्तेन कोमलो मधुरः । हर्षप्रकर्षाद्वाद्यमान पटहध्वनेर्नवजलधरध्वनिसाम्यम् । मकरध्वजस्य
कन्दर्पस्य या विजयघोषणा त्रैलोक्यं मया जितमित्युद्घोषणं तस्या अनुकारी सादृश्यकरणशीलः । परस्परं
यद्विशेषेण घट्टनं संश्लेषस्तेनारणिताः शब्दितास्तारैतरा आकारशुद्धोद्भवा अतिमनोहरा हारमणयो यासामेवं-
विधानां रमणीनां स्त्रीणां श्रोत्रहारी कर्णमनोहरः । हर्म्यकुक्षिषु गृहकोणेषु प्रतिरवनिर्ह्रादः प्रतिच्छन्दध्वनिर्विद्यते ।
य॑स्य स तथा । ततो भूषणध्वनिरुदपादीत्यन्वयस्तु प्रागेवोक्तः ।
 
टिप्प० - 1 अज्ञानं टीकाकारस्य । नूपुरमणिभ्यः समुत्थितानि उद्गतानि इन्द्रायुधानि इन्द्रधनु:-
वड य , र चू य त इ।
थ নनवण पक्षल तथा नणप वव
वङशलतयैव अनुगतर
षकण यभ इथ उचत: । वष
 
RT
 
। मण
 
ध: । 2 अधपन प
 
थमयेপ্ত क्षण । 3 अन :ि मor (
खण्ड) स्थानीयाः, तन्मुखानि च विकचकमलपुष्पस्थानीयानीत्याशयः । 4 हन्त पदे पदे टीकाकारस्व
प्रमादः । स्खलित चरणतलताडनेनैव सोपानश्रेण्या त्रेधगम्भीरो ध्वनिः तेनैव मयूराणां हंसानां व
र । 5 tबहु अ व ।
 

 
पाठ० ---१ परिचर्या. २ विराजयन्त्य: ६ दीर्घ ४ पुदाम्बर ५. साधारण
८ चरणताडित १ मणिसोपान. १० प्रहृष्टतान. ११ हंसकुल, १९ तारदार.
 
O
 
६ कोलाहल: ७ गृहसारस.