This page has not been fully proofread.

चन्द्रापांडप्रवेशे पुरनारीणां मावा: ]
 
पूर्वभागः ।
 
१८३
 
अनन्तरं च 'समाप्तसकलविद्यो विद्यागृहान्निर्गतोऽयं चन्द्रापीड : - इति समाकर्ण्यालो-
कनकुतूहलिन्यः सर्वस्मिन्नेव नगरे ससंभ्रममुत्सृष्टार्धपरिसमाप्तप्रसाधनव्यापाराः, काश्चिद्वा-
मकरतलगतदर्पणाः स्फुरितसकलरजनिकर मण्डला इव पौर्णमासीरजन्यः काश्चिदार्द्रालिक्तक-
रसपाटलितचरणपुटा: कमलपरिपीतंबालातपा इव नलिन्यः काश्चित्ससंभ्रमगतिविगलित-
मेखलाकलापाकुलितचरण किसलयाः शृङ्खलासंदानमन्दसंचारिण्य इव करिण्यः, काश्चि-
जलघरसमयदिवसश्रिय इवेन्द्रायुधरागरुचिराम्बरधारिण्यः, काश्चिदुल्लसितधवलनखमयूख-
पल्लवान्नूपुररवाकृष्टगृह कलहंसकानिव चरणपुदानुहन्त्यः काश्रितलस्थितस्थूल हारयष्टयो
रतिमिव मदनविनाशशोकगृहीतरफटिकाक्षवलयां विडम्बयन्त्यः, काश्चित्पयोधरान्तरालगलि-
तमुक्तार्लेवास्तनु विमलस्रोतोजलान्तरितचक्रवाकमिथुना इव प्रदोषश्रियः, काश्चिन्नूपुरमणिस-
अनन्तरमिति । अनन्तरम् । चन्द्रापीडदर्शनोत्कण्ठया गवाक्षकपाटोद्घाटनानन्तरमित्यर्थः । समाप्ता पारं
प्राप्ता सकला समग्रा विद्या यस्य स तथा । विद्यागृहादयं चन्द्रापीडो निर्गत इति समाकर्ण्य श्रुत्वालोकने
विलोकने कुतूहलं यासां ता आलोकनकुतूहलिन्यो ललनाः स्त्रियो हर्म्यतलानि समारुरुहुरारोहणं चक्रुः ।
सर्वस्मिन्नेव नगरे ससंभ्रममुत्सृष्टस्त्यक्तोऽर्धपरिसमाप्तः प्रसाधनं प्रतिकर्म तस्य व्यापारो याभिस्ताः । काश्चिद्वाम-
करत सव्यपाणित गतः प्राप्तो दर्पणो मुकुरो याभिस्ताः पौर्णमासीरजन्यः राकान्त्रियामा इव । कीदृश्यः ।
स्फुरितं स्फुटितं सकलं समग्र रजनिकरमण्डलं शशाङ्कबिम्बं यासु ताः । निर्मलत्ववर्तुलत्वसाम्या दर्पणस्य चन्द्रो-
पमानम् । काश्चिदिति । काश्चना योऽलक्तकरसो यावकरसस्तेन पाटलितं श्वेतरक्तीकृतं चरणपुटं यास
ताः । का इव । नलिन्य इव पद्मिन्य इव । कीदृश्यः । कमलेन परिपीतो बालातपो याभिस्ताः । अत्रालक्तकस्य
बालातपसाम्यं चरणपुटानां च कमलेन साभ्यं सूचितम् । काश्चिदिति । काश्चन स्त्रियः संभ्रमेण या मति-
र्गमनं तया विगलितः स्रस्तो यो मेखलाकलापो रसनाकलापस्तेनाकुलिता व्याकुलीभूताश्चरणकिसलयाः पादपलवा
यासां ताः । काइव । करिण्य इव हस्तिन्य इव । कीदृश्यः । शृङ्खला प्रसिद्धा तस्याः संदानं बन्धनं तेन
मन्दमन्दसंचारिण्यो मन्दमन्दगामिन्यः । अत्र गतिप्रतिबन्धसाम्यान्मेखलायाः शृङ्खलोपमानम् । काश्चि
दिति । काश्चनेन्द्रायुधमिन्द्रधनुस्तस्य राग रागो येष्वेवंविधानि रुचिराण्यम्बराणि धारयन्तीत्येवंशीलास्ता
स्तथा । का इव । जलधरसमयस्य यो दिवसो दिनं तस्य श्रियस्ता इव । इन्द्रायुधं तस्य रागो रक्तिमा तेन
रुचिरं यदम्बरमाकाशं तद्धारिण्यः । काश्चिदिति । काश्चन किं कुर्वत्यः । उद्वहन्त्य उद्वहनं कुर्वत्यः । कान् ।
चरणपुटान् । तानेव विशिनष्टि उल्लसिता उल्लासं प्राप्ता धवला नखमयूखा एव पल्लवा येषु तान्नूपुरवेण
पादकटकध्वनिनाकृष्टानाकर्षितान्गृहकलहंसकान्सद्महंसानिव । काश्चिदिति । काश्चन करतले स्थिता स्थूल-
हारयटियसां ताः किं कुर्वत्यः । रतिं मदनस्त्रियं विडम्बयन्त्यो निराकुर्वत्यः । तामेव विशिनष्टि – मद-
नेति । मदनस्य कन्दर्पस्य यो विनाशोऽभावस्तस्माद्यः शोकस्तेन गृहीतं स्फटिकाक्षवलयं यया सा ताम् ।
अतिखच्छत्वात्स्फटिकाक्षवलयेन समं मुक्ताफलसाम्यं दर्शितम् । काश्चिदिति । काश्चन स्त्रियः पयोधराणाम-
न्तरालं मध्यभागस्तत्र गलिता स्रस्ता मुक्तालता यासां ताः । तनु स्तोकं विमलं निर्मलं यत्स्रोतोजलं प्रवाह
पानीयं तेनान्तरितं व्यवधानं प्रापितं चक्रवाकमिथुनं रथाङ्गाह्रमिथुनं यास्खेवंविधाः । प्रदोषो रजनीमुखं तस्य
श्रिय इव शोभा इव । काश्चिदिति । काश्चन योषितो नूपुरमणिभ्यः समुत्थितं प्रकटीभूतं यदिन्द्रायुधं शक
धनुस्तस्य भावस्तत्ता तया । परिचयेन संबन्धेन वात्सल्येन वा । अनुगताः पश्चादागता गृहमयूरिका इव सदन-
पाटा
 
-१ आगच्छति चन्द्रापीड : २ सर्वमिन्नगरे ३ मुक्ताहार. ४ कता निमल.