2023-12-19 15:22:34 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१८२
 
कादम्बरी ।
 
[ कथायाम्-
कर्णपल्लवः, पुरः प्रधावता [^१]तरुणवीरपुरुषप्रायेणाने कसहस्र- संख्येन पदातिपरिजनेन जय जीवेति
च मधुरवचसा [^२]मङ्कलेगल- प्रायमनवरतमुचैः पठता बन्दिजनेन स्तूयमानः, [^३]नगराभिमुखं प्रतस्थे ।
 

 
क्रमेण च तं समासादितविग्रहमनङ्गमिवावतीर्णं नगरमार्गमनुप्राप्त- मवलोक्य सर्व एव
परित्यक्तसकलव्यापारो रजनिकरोदयपरि- बुध्यमान [^४]कुमुदवनानुकारी जनः समजनि। [^५]'सैत्य-
स्मिँ

[^६]स्मि
न्मुख कुमुद कदम्बक विकृताकृतिः कार्तिकेयो विडम्बयति कुमारशब्दम् । अहो, वयमति -
पुण्यभाजो यँ[^७]यदमानुषोमस्या- कृतिमन्तः समारूढप्रीतिर सनिः स्यन्द विस्तारितेन कुतूहलोत्तानितेन

लोचनयुगलेनानिवारिताः पश्यामः । सफला नोऽद्य जाता जन्मवत्ता । सर्वथा नमोऽस्मै
रूपान्तरधारिणे भगवते चन्द्रापीडच्छद्मने पुण्ड- रीकेक्षणाय' इति वदन्नारचित [^८]प्रणामाञ्जलिर्न -
गरलोकः प्रणनाम । सर्वतश्च सं[^९]समुपावृत्तकै [^१०]कपाटपुटप्रकटवातायनसहस्रतया चन्द्रापीडदर्शनकु-
तूहलान्नगरमपि समुन्मीलितलोचननिवहमिवाभवत् ।
 
- वत् ।
 
[ टि ]--
पुरं इति । पुरोऽग्रे प्रधावता प्रचलता तरुणा युवानो ये वीरपुरुषाः सुभटनरास्तत्प्रायेण त [^1]त्तुल्येनानेकेषां सह-
त्रा
स्रणां संख्या यस्मिन्स तेन पदातिपरिवारेण पत्तिपरिजनेन । पुनः कीदृशः बन्दिजनेन याचकजनेन
स्तूयमानो नूयमानः । अनवरतं निरन्तरं मधुरवचसा मिष्टवाक्येन जय जीवेति मङ्गलप्रायं मङ्गलात्मकमुच्चैः

पठता पाठं कुर्वता । अन्वयस्तु प्रागेवोक्तः ।
 

 
क्रमेणेति । क्रमेण परिपाट्या तं चन्द्रापीडं नगरमार्गं पुरीपद्धति- मनुप्राप्तमागतमवलोक्य निरीक्ष्य रज-
मीं
नीकरश्चन्द्रस्तस्योदयेनोद्गमेन परिबुध्यमानं विकासं प्राप्यमाणं यत्कुमुदवनं तस्यानुकारी सादृ- श्यकरणशीलः
सर्व एव जनो लोकः समजनि बभूव । तमेव विशि- नष्टि – समेति । समासादितः प्राप्तो विग्रहः शरीरं येनैवं -
भूतमनङ्गं काममिवावतीर्णं गृहीतावतारम् । पूर्वमीश्वरेण शरीरस्य दग्धत्वा त्समासांदितेत्युक्तम् । कीदृशो जनः ।
परित्यक्तो दूरीकृतः सकल- व्यापारः समग्रव्यापृतिर्येन स तथा तेन । सतीति । अस्मिंश्चन्द्रापीडे सति कार्ति-
केयो गुहः कुमारशब्दं [^2]विडम्बयति । नाममात्रं धत्त इति भावः । तस्मिन्निति शेषः । अस्मिन्नर्थे हेतुगर्भितं
विशेषणमाह – मुखेति । मुखान्येव कुमुदानि । विकाससाम्यात्तदुपमानम् । तेषां कदम्बकं समूहस्तेन विकृता
बीभत्साकृतिराकारी यस्य स तथा । अहो इत्याश्चर्ये । वयमतिपुण्यभाजो गरिष्ठसुकृतभाजः । यदिति हेत्वर्थे ।
अस्य कुमारस्यामानुषीं देवसंबन्धिनीमाकृतिमाकारं लोच- नयुगलेन नेत्रयुग्मेनानिवारिताः पश्यामो विलोकयाम
इत्यन्वयः । लोचनयुगलं विशिष्टि - अन्त इति । अन्तः वान्ते समारूढः समुत्पन्नो यः प्रीतिरसः स्नेहरसरतस्य निःस्यन्दः सारस्तेन विस्ता-
सरतस्य निःस्यन्दः सारस्तेन विस्ता
रितेन विस्तीर्णीकृतेन । कुतूहलमाश्चर्यं तेनोत्तानितेनोर्ध्वमुखेन । नोऽस्माक-
मद्य जन्मवत्तोत्पत्तिमत्ता सफला फलवती जाता जज्ञे । सर्वथेति । सर्वथा सर्वप्रकारेणास्मै चन्द्रापीडच्छद्मने
पुण्डरीके- क्षणाय कृष्णाय भगवते रूपान्तरधारिणे नम इति वदन्निति ब्रुवन्ना- रचितो विहितः प्रणामार्थमञ्जलिर्ये-
नैवंभूतो नगरलोकः प्रणनाम प्रणामं चक्रे । समुपावृत्तेति । सर्वतः सर्वत्र समु [^3]पावृत्तं समुद्घाटितं कपा-
टपुटमररसंपुटं यस्मिन्नेवंभूतं प्रकटं स्पष्टं वातायनसहस्रं गवाक्षसहस्रं तस्य भावरतत्ता तया चन्द्रापीडस्य

यद्दर्शनकुतूहलं दर्शनाश्चर्यं तस्मान्नगरमपि [^4]द्रमणिङ्गमपि समुन्मी- लितं विकसितं लोचननिवहं यस्मिन्नेतादृशमिवाभव द्बभूव । अत्रा-
द्वभूव । अत्रा
वलोकननिमित्तत्वसाम्याद्वातायनसहस्रस्य विकसितनेत्रोपमानम् ।
 
टिप्प० -

 
[^
1]F. तद्बहुलेनेत्यर्थः ।
[^
2]F. स्ववाचकत्वेन स्वीकृत्य कुमारशब्दं कदर्थयतीत्यर्थः । यतो हि
मुखानि षड् वदनानि कुसुमुदानीव तेषां कदम्बकं समूहः, तथा च अस्वाभाविकमुखबाहुल्यात् विकृताकारे
कार्तिकेये कुमारशब्दो विडम्बनायै । अस्मिंस्तु कुत्सितो मारो यस्मादिति कुमार इति व्युत्पत्त्या कामा-
छु
प्यधिकदर्शनीयेऽसिन्कुमारशब्द उपयुज्यत इत्याशयः ।
[^
3]F. समपावृतम् इत्येव पाठः ।
[^
4]F. पुरमिति
प्रसिद्धा व्याख्योचिता ।
 
पाठा० -

 
[^
]G. वीरप्रायेण.
[^
]G. प्रायालापम् .
[^
]G. नगराभिमुख .
[^
]G. पुष्पककुमुद .
[^
]G. सत्यस्मिन्संप्रति मुख.
[^
]G. मुख-
कलॉप
कलपबिडम्बन; मुखकमल .
[^
]G. यदि माम् ; यत इमाभूम्.
[^
]G. प्रणामाञ्जलि .
[^
]G. समपावृत; समुपावृत.
[^
१०]G. कषाटप्रकट.