This page has not been fully proofread.

१८२
 
कादम्बरी ।
 
[ कथायाम्-
कर्णपल्लवः, पुरः प्रधावता तरुणवीरपुरुषप्रायेणाने कसहस्र संख्येन पदातिपरिजनेन जय जीवेति
च मधुरवचसा मङ्कलेप्रायमनवरतमुचैः पठता बन्दिजनेन स्तूयमानः, नगराभिमुखं प्रतस्थे ।
 
क्रमेण च तं समासादितविग्रहमनङ्गमिवावतीर्ण नगरमार्गमनुप्राप्तमवलोक्य सर्व एव
परित्यक्तसकलव्यापारो रजनिकरोदयपरिबुध्यमानकुमुदवनानुकारी जनः समजनि। 'सैत्य-
स्मिँन्मुख कुमुद कदम्बक विकृताकृतिः कार्तिकेयो विडम्बयति कुमारशब्दम् । अहो, वयमति -
पुण्यभाजो यँदमानुषोमस्याकृतिमन्तः समारूढप्रीतिर सनिः स्यन्द विस्तारितेन कुतूहलोत्तानितेन
लोचनयुगलेनानिवारिताः पश्यामः । सफला नोऽद्य जाता जन्मवत्ता । सर्वथा नमोऽस्मै
रूपान्तरधारिणे भगवते चन्द्रापीडच्छझने पुण्डरीकेक्षणाय' इति वदन्नारचितप्रणामाञ्जलिर्न -
गरलोकः प्रणनाम । सर्वतश्च संमुपावृत्तकैपाटपुटप्रकटवातायनसहस्रतया चन्द्रापीडदर्शनकु-
तूहलानगरमपि समुन्मीलितलोचननिवहमिवाभवत् ।
 
पुरं इति । पुरोऽग्रे प्रधावता प्रचलता तरुणा युवानो ये वीरपुरुषाः सुभटनरास्तत्प्रायेण तत्तुल्येनानेकेषां सह-
त्राणां संख्या यस्मिन्स तेन पदातिपरिवारेण पत्तिपरिजनेन । पुनः कीदृशः बन्दिजनेन याचकजनेन
स्तूयमानो नूयमानः । अनवरतं निरन्तरं मधुरवचसा मिष्टवाक्येन जय जीवेति मङ्गलप्रायं मङ्गलात्मकमुच्चैः
पठता पाठं कुर्वता । अन्वयस्तु प्रागेवोक्तः ।
 
क्रमेणेति । क्रमेण परिपाट्या तं चन्द्रापीडं नगरमार्ग पुरीपद्धतिमनुप्राप्तमागतमवलोक्य निरीक्ष्य रज-
मींकरश्चन्द्रस्तस्योदयेनोद्गमेन परिबुध्यमानं विकास प्राप्यमाणं यत्कुमुदवनं तस्यानुकारी सादृश्यकरणशीलः
सर्व एव जनो लोकः समजनि बभूव । तमेव विशिष्टि – समेति । समासादितः प्राप्तो विग्रहः शरीरं येनैवं -
भूतमनङ्गं काममिवावतीर्णं गृहीतावतारम् । पूर्वमीश्वरेण शरीरस्य दग्धत्वात्समासांदितेत्युक्तम् । कीदृशो जनः ।
परित्यक्तो दूरीकृतः सकलव्यापारः समग्रव्यापृतिर्येन स तथा तेन । सतीति । अस्मिंश्चन्द्रापीडे सति कार्ति-
केयो गुहः कुमारशब्दं विडम्बयति । नाममात्रं धत्त इति भावः । तस्मिन्निति शेषः । अस्मिन्नर्थे हेतुगर्भितं
विशेषणमाह – मुखेति । मुखान्येव कुमुदानि । विकाससाम्यात्तदुपमानम् । तेषां कदम्बकं समूहस्तेन विकृता
बीभत्साकृतिराकारी यस्य स तथा । अहो इत्याश्चर्ये । वयमतिपुण्यभाजो गरिष्ठसुकृतभाजः । यदिति हेत्वर्थे ।
अस्य कुमारस्यामानुषीं देवसंबन्धिनीमाकृतिमाकारं लोचनयुगलेन नेत्रयुग्मेनानिवारिताः पश्यामो विलोकयाम
इत्यन्वयः । लोचनयुगलं विशिष्टि - अन्त इति । अन्तः वान्ते समारूढः समुत्पन्नो यः प्रीतिरसः स्नेहर-
सरतस्य निःस्यन्दः सारस्तेन विस्तारितेन विस्तीर्णीकृतेन । कुतूहलमाश्चर्यं तेनोत्तानितेनोर्ध्वमुखेन । नोऽस्माक-
मद्य जन्मवत्तोत्पत्तिमत्ता सफला फलवती जाता जज्ञे । सर्वथेति । सर्वथा सर्वप्रकारेणास्मै चन्द्रापीडच्छद्मने
पुण्डरीकेक्षणाय कृष्णाय भगवते रूपान्तरधारिणे नम इति वदन्निति ब्रुवन्नारचितो विहितः प्रणामार्थमञ्जलिर्ये-
नैवंभूतो नगरलोकः प्रणनाम प्रणामं चक्रे । समुपावृत्तेति । सर्वतः सर्वत्र समुपावृत्तं समुद्घाटितं कपा-
टपुटमररसंपुटं यस्मिन्नेवंभूतं प्रकटं स्पष्टं वातायनसहस्रं गवाक्षसहस्रं तस्य भावरतत्ता तया चन्द्रापीडस्य
यद्दर्शनकुतूहलं दर्शनाश्चर्यं तस्मान्नगरमपि द्रमणि समुन्मीलितं विकसितं लोचननिवहं यस्मिन्नेतादृशमिवाभव -
द्वभूव । अत्रावलोकननिमित्तत्वसाम्याद्वातायनसहस्रस्य विकसितनेत्रोपमानम् ।
 
टिप्प० - 1 तबहुलेनेत्यर्थः । 2 स्ववाचकत्वेन स्वीकृत्य कुमारशब्दं कदर्थयतीत्यर्थः । यतो हि
मुखानि षड् वदनानि कुसुदानीव तेषां कदम्बकं समूहः, तथा च अस्वाभाविकमुखबाहुल्यात् विकृताकारे
कार्तिकेये कुमारशब्दो विडम्बनायै । अस्मिंस्तु कुत्सितो मारो यस्मादिति कुमार इति व्युत्पत्या कामा-
छुप्यधिकदर्शनीयेऽसिन्कुमारशब्द उपयुज्यत इत्याशयः । 3 समपावृतम् इत्येव पाठः । 4 पुरमिति
प्रसिद्धा व्याख्योचिता ।
 
पाठा० -१ वीरप्रायेण. २ प्रायालापम् ३ नगराभिमुख ४ पुष्पककुमुद ५ सत्यस्मिन्संप्रति मुख. ६ मुख-
कलॉप बिडम्बन; मुखकमल ७ यदि माम् ; यत इमाभू. ८ प्रणामाञ्जलि ९ समपावृत; समुपावृत. १० कषाटप्रकट.