This page has not been fully proofread.

नगरं प्रति प्रस्थानम् ]
 
पूर्वभागः ।
 
शिरसः परस्परोत्पीडनकुपिततुरङ्गमनिवारणायस्ता राजपुत्रास्तं पर्यवारयन्त । एकैकशा
प्रतिनामग्राहमावेद्यमाना बलाहकेन विचलितमुकुट पद्मरागकिरणोद्गमच्छले नानुरागमिवोध-
मद्भिः संघटित सेवाञ्जलिमुकुलतया यौवराज्याभिषेक
कलशा वर्जित सलिललग्नक मलैरिव दूरा
वनतैः शिरोभिः प्रणेमुः । चन्द्रापीडस्तु तान्सर्वान्मानयित्वा यथोचितमनन्तरं तुरङ्गमाधि.
रूढेनानुगम्यमानो वैशम्पायनेन राज्यलक्ष्मीनिवासपुण्डरीकाकृतिना सकलराजन्यकुलकुमु..
दुखण्ड चन्द्रमण्डलेव तुरङ्गमसेनासवन्तीपुलिनायमानेन क्षीरोदफेनधवलितवासुकिफणा-
मण्डलच्छविना स्थूलमुक्ताकलापजालकावृतेनोपरि चिह्नीकृतं केसरिणमुद्रह
तातिमहता कार्य.
खरदण्डेन प्रियमाणेनातपत्रेण निवारितातपः, उभयतः समुद्भूयमानचामरकलापपवननर्तितः
 

 
तानि दूरीकृतानि यान्यातपत्राणि छत्राणि तैः शून्यानि रिक्तानि शिरांसि येषां ते तथा । परस्परेति
परस्परमन्योन्यं यत्पीडनं तेन कुपिताः कोपं प्राप्ता ये तुरङ्गमा अश्वास्तेषां निवारणं निषेधनं तत्रायस्त
उद्यताः । अथ च बलाहकेन नामनिवेदन नियुक्त पुरुषेण प्रतिनामग्राहं यथा स्यात्तथैकश आवेद्यमाना निवे
द्यमानाः नामग्रहणे नामग्रहणनियुक्ते वा । 'बलाहकोऽम्बुदे गिरौ' इत्यनेकार्थः । शिरोभिः प्रणेमुर्नमस्का
चक्रुः । तमिति शेषः । शिरांसि विशेषयन्नाह — विचलितेति । विशेषेण चलिताः कम्पिता मुकुटाः कोटी
राणि तेषां पद्मरागा लोहितमणयस्तेषां किरणानां प्रभाणामुद्गमो बहिः प्रचारस्तस्य छलेन मिषेणानुरागं रक्ति
मानमुद्रमद्भिरिवोद्भिरद्भिरिव । संघटीति । संघटितः संगतो यः सेवाया अञ्जलिः स एव मुकुलः कुडमलस्तस
भावस्तत्ता तया । शिरसां वर्तुलसम्यादालिमुकुलस्य कमेलमुकुल साम्याच्छिरः स्थिताञ्जलिमुकुलोत्प्रेक्षामाह-
यौवराज्येति । यौवराज्यस्य योऽभिषेकस्तदर्थं ये कलशाः कुम्भास्तैरावर्जित गृहीतं यत्सलिलं तत्र लनानि
यानि कमलानि तैरिव दूरावनतैर्दूर तो ऽवनतैर्नम्रीभूतैश्चंन्द्रापीडं पर्यवारयन्तेत्यन्वयस्तु प्रागेवोकः । चन्द्रापीडस्
नगराभिमुख प्रतस्थ इत्यन्वयः । तान्सर्वान्राजपुत्रान्यथोचितं यथायोग्यं मानयित्वा संमानं दत्त्वानन्तरं पश्चा
द्भागेनैव तुरङ्गमाधिरूढेनानुगम्यमानः समनुयायमानः । पुनः कीदृशः । आतपत्रेण छत्रेण निवारितो दूरीकृत
आतपो दिनकरप्रकाशो यस्य सः । छत्रं विशेषयन्नाह - राज्येति । राज्यस्याधिपत्यस्य या लक्ष्मीः श्रीस्तस्य
यनिवासार्थ पुण्डरीकं कमलं तद्वदाकृतिराकारो यस्य स तेन । सकलानि समग्राणि यानि राजन्यकुलानि नृप
कुलानि तान्येव कुमुदानि कैरवाणि तेषां खण्डं वनं तत्र चन्द्रमण्डलेनेव शशिबिम्बेनेव । छत्रेण राजचिन
राजन्या विकसितमुखा भवन्तीति भावः । तुरङ्गमसेनाश्ववाहिनी सैव स्रवन्ती तहिनी तस्याः पुलिंना मानेन
सैकताय मानेन । अत्र विततगहनगाम्भीर्यादिगुणवत्त्वादश्वसेनाया नद्युपमानम् । क्षीरोदस्य दुग्धसमुद्रस्य ग
फेनोsब्धिकफरतेन धवलितो यो वासुकिर्नागराजः । वासुकेन त्वैप्रसिद्ध्या एतद्विशेषणम् । तस्य यत्फणाम
ण्डलं तद्वच्छविर्या स तथा तेन । स्थूलमुक्तानां कलापैर्निर्मितजालकैर्गुच्छेरावृते नाच्छादितेन । उपरीति ।
उपरि ऊर्ध्वंतं लाञ्छनीकृतं केसरिण सिंहमुद्वैहता धारयतातिमहतातिमहीयसा कार्तस्वरदण्डेन
सुवर्णदण्डेन कृत्वा ध्रियमाणेन धार्यमाणेन उभयत इति । उभयत उभयपार्श्वयोः समुद्धूयमानो वीज्यमानो
यश्चामरकलापो वालव्यजनसमूहखस्य यः पवनः समीरणस्तेन नर्तिता लास्य कारिताः कर्णपल्लवा यस्य स तथा ।
 
टिप्प० -1 सेनाध्यक्षेणेत्युचितम् । 2 अयमपि प्रमादः । दूरावनतैः शिरोभिः प्रणेमुरित्येवान्चयः ।
3 शेषस्य वेतत्वं सुप्रसिद्धम् । अत एव श्वेतच्छन्त्रस्य वासुकि (शेष) फणामण्डलेन साम्यम् । शीशे
दफेनैस्खस सतोप्यतिशयित अत्वमित्यर्थः । 4 छन्ने सिंहमूर्तिः राजचिह्नत्वेनाङ्कितेत्यर्थः ।
 
पाठा
 
-१ निवारणायस्ता; निवारणयासितहस्ताः, निवारणयायासि: २ ग्रहणम् ३ संघट्टित. ४ अभिषेकतया.
५ संमानचित्या. ६ मिक्सयोग्य ७ मुद्धाफलककलाप. ८ परिदुसेन. ९ कार्तस्वरेण दण्डेन.