2023-12-18 15:00:01 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१८०
 
कादम्बरी ।
 
[ कथायाम् -
 
यतेव रसातलमतिनिष्ठुरेण खुरपुटानां रवेण रे[^१]रजोनिरुद्धघ्राण- घोरघोषेण च हेषितेने [^२]न बधिरी-
कृतसकलत्रिभुवन [^३]विवँरम्, अँ[^४]अशिशिरदीधितिसंस्पर्शरफुरित विमल फल के नोर् [^५]र्ध्वीकृ- तेन कुन्तल -
तावनेनोन्नालनीलोत्पल कलिकावनगहनं सर इव गगन- तलमलंकुर्वाणम्, उद्दण्डमायूरातपत्र-
[^६]सहस्रान्धकारिताष्ट दि- ङ्मुखतया स्फुरितशतमन्युचापकलापकै [^७]पकल्माषमिव जलघरधर- वृन्दम्, उद्व-
मत्फेनपुञ्जधवलितमुखतयानवरतवल्गनचटुलतया च प्रलयसागरजलकल्लोलसंघातमिव
समुद्रतम् गतम्, [^८]अदृष्टपर्यन्त- [^९]मश्वंसैन्यमपश्यत् । तच्च सागरजलमिव चं[^१०]चन्द्रोदयेन चन्द्रापीड निर्गमेन
सकलमेव संचचालाश्वीयम् । अहमहमिकया च प्रणामलालसाः सरभसापनीतातपत्रशून्य-
."
 

 

 
[ टि ]--
रसातलं पृथ्वीतलं जर्जरयतेव प्रशिथिलावयवं कुर्वतेवाति- निष्ठुरेणातिकठिनेन खुरपुटानां शफपुटानां रवेण
ध्वनिना । पुनः केन । रजसा निरुद्धमावृतं यद्घ्राणं घोणा तस्य यो घोरघोषो घोर- ध्वनिस्तेन हेषितेन शब्दि-
तेन । चकारः समुच्चयार्थः । पुनः प्रका- रान्तरेण विशेषयन्नाह – अशिशिरेति । अशिशिरदीधितिः सूर्यस्

यः संस्पर्शः संश्लेषस्तेन स्फुरितं देदीप्यमानं विमलफलकं निर्म- लावरणं यस्मिंस्तनोर्ध्वीकृतेनोर्ध्वं स्थापितेन । कुन्त-
लताः । कुन्तः प्रासः । सरलत्वाल्लतोपमानम् । तासां वनं तेनोर्ध्वं नालानि मृणा- लानि यास्वेवंविधा या नीलोत्पल-
कलिका इन्दीवरकोरकास्तासां वनं तेन गहनं सर इव [^1]तटाक इव गगनतलमाकाशतलमलंकुर्वाणं शोभां विदधा-
नम् । अत्र लोहफलकस्य नीलत्वसाम्यान्नीलोत्पलोप- मानं कुन्तानां च सरलत्वसाम्यान्मृणालोपमानम् नीलत्व-
साम्याद्गग- नतलस्य सरस उपमानम् । उर्ध्वं दण्डा येष्वेवंविधानि यानि मायू- रातपत्राणि मयूरपिच्छनिर्मितानि
छत्राणि तेषां सहस्रं तेनान्धकारि- ता अन्धकारं प्रापिता अष्टौ [^2]दिसुङ्मुखास्तेषां भावस्तत्ता तया स्फुरितो दीप्य-
मानः शतमन्युरिन्द्रस्तस्य यश्चापकलापो धनुःसमुदा-
यस्तेन कल्मषं कर्बुरं जलधरवृन्दमिव मेघसमूह-
मिव । उद्वमद्हि- र्निःसरद्यः फेनोऽश्वमुखकफस्तस्य पुञ्जस्तेन धवलितानि शुश्भ्रीकृता- नि यानि मुखानि
तेषां भावस्तत्ता तयाऽनवरतं निरन्तरं यद्वल्गन- मन्योन्यसंघट्टस्तेन या चटुलता चञ्चलता तया च प्रलय-
कालीनो यः सागरः समुद्रस्तस्य जलं पानीयं तस्य कल्लोलास्तरङ्गास्तेषां संघा- तमिव समूहमित्र समुद्तं
प्रादुर्भूतम् । फेनचटुलत्वसाम्येन सागरो- पमानमिति । अदृष्टोऽनवलोकितः पर्यन्तः प्रान्तो यस्य तत्
सोऽश्व- सैन्यमपश्यदित्यन्वयस्तु प्रागेवोक्तः । तश्चेति । तच्च सकलमेव समग्रमेवाश्वीयं सैन्यं चन्द्रापीडनिर्गमेन
संचचालाचालीत् । केन किमित्र । चन्द्रोदयेन सागरजलगिमिव समुद्रपानीयमिव । अहंपूर्व- महंपूर्वमित्यहम-
हमिका । स्पर्धेत्यर्थः । तया प्रणामलालसाः प्रणामे नमस्कृतौ लालसा लोलुपा राजपुत्रा नृपसुतास्तं
चन्द्रापीडं पर्यवार- यन्त परिवेष्टनमकुर्वत । राजसुतान्विशेषयन्नाह –सरभसेति । सर- भसं सवेगमपनी-
टिप्प० -

 
[^
1]F. इदमपि सर्वं भ्रामकम् । अशिशिरदीधितेः सूर्यस्य संस्पर्शेन स्फुरितं देदीप्यमानम्
( चमत्कुर्त् ) विमलं फलकम् अग्रदेशः
( तीक्ष्णाग्रलोहमुखम् ) यस्य तेन, ऊर्ध्वोवीकृतेन ऊर्ध्वमुखं स्थापि
-
तेन, कुम्ताःन्ता: भल्लाः एव लताः ( लतावल्लम्बाकारत्वात् ) तासां वनेन समूहेन ( करणभूतेन ), उच्चा-
लानां नीलोत्पलकलिकानां नेन काननेन गहनं नीरन्धंध्रं सरः सरोवरमिव गगनतलम् अलंकु- र्वाणं शोभ-
यत् । नीलोत्पलवनेन यथा सरोवर मलंक्रियते तथा कुन्त- समूहेन गगनमलंकृतमित्याशयः ।
[^
2]F. छत्रसहस्रेण
अन्धकारितानि ( अन्धकारयुक्तानि कृतानि ) अष्टदिङ्मुखानि येन स मायूरातपत्र सहसान्धकारिताष्ट-
दिङ्मुख- स्तत्तया इन्द्रधनुश्चित्रितं मेघवृन्दमिव स्थितमित्यर्थो बोध्यः
[^
3]F. शुश्भ्रीकृतानि वदनानि यस्मिन्
तना
तद्भावः तत्ता तया । इत्यर्थ उचितः ।
 
पाठा- -

 
[^
]G. खुररजो; प्रचुररजो.
[^
]G. हेषितेन.
[^
]G. भुवनं.
[^
]G. अशिशिरकिरणंदीधितिपरामर्श .
[^
]G. ऊर्ध्वंवीकृत.

[^
]G. अन्धकारित.
[^
]G. कल्माषितम्.
[^
]G. पूर्वं तम्.
[^
]G. अश्वीयं सैन्यम्; अप्रमेयम श्वसैन्यम्.
[^
१०]G. चन्द्रोदयेने.