कादम्बरी /213
This page has not been fully proofread.
१८०
कादम्बरी ।
[ कथायाम् -
यतेव रसातलमतिनिष्ठुरेण खुरपुटानां रवेण रेजोनिरुद्धघ्राणघोरघोषेण च हेषितेने बधिरी-
कृतसकलत्रिभुवन विवँरम्, अँशिशिरदीधितिसंस्पर्शरफुरित विमल फल के नोर्वीकृतेन कुन्तल -
तावनेनोन्नालनीलोत्पल कलिकावनगहनं सर इव गगनतलमलंकुर्वाणम्, उद्दण्डमायूरातपत्र-
सहस्रान्धकारिताष्ट दिखतया स्फुरितशतमन्युचापकलापकैल्माषमिव जलघरवृन्दम्, उद्व-
मत्फेनपुञ्जधवलितमुखतयानवरतवल्गनचटुलतया च प्रलयसागरजलकल्लोलसंघातमिव
समुद्रतम् अदृष्टपर्यन्तमश्वंसैन्यमपश्यत् । तच सागरजलमिव चंन्द्रोदयेन चन्द्रापीड निर्गमेन
सकलमेव संचचालावीयम् । अहमहमिकया च प्रणामलालसाः सरभसापनीतातपत्रशून्य-
."
१
रसातलं पृथ्वीतलं जर्जरयतेव प्रशिथिलावयवं कुर्वतेवातिनिष्ठुरेणातिकठिनेन खुरपुटानां शफपुटानां रवेण
ध्वनिना । पुनः केन । रजसा निरुद्धमावृतं यघ्राणं घोणा तस्य यो घोरघोषो घोरध्वनिस्तेन हेषितेन शब्दि-
तेन । चकारः समुच्चयार्थः । पुनः प्रकारान्तरेण विशेषयन्नाह – अशिशिरेति । अशिशिरदीधितिः सूर्यस्न
यः संस्पर्शः संश्लेषस्तेन स्फुरितं देदीप्यमानं विमलफलकं निर्मलावरणं यस्मिंस्तनोव कृतेनोर्ध्वं स्थापितेन । कुन्त-
लताः । कुन्तः प्रासः । सरलत्वाल्लतोपमानम् । तासां वनं तेनोर्ध्वं नालानि मृणालानि यास्वविधा या नीलोत्पल-
कलिका इन्दीवरकोरकास्तासां वनं तेन गहनं सर इव तटाक इव गगनतलमाकाशतलमलंकुर्वाणं शोभां विदधा-
नम् । अत्र लोहफलकस्य नीलत्वसाम्यान्नीलोत्पलोपमानं कुन्तानां च सरलत्वसाम्यान्मृणालोपमानम् नीलत्व-
साम्याद्गगनतलस्य सरस उपमानम् । उर्ध्व दण्डा येष्वेवंविधानि यानि मायूरातपत्राणि मयूरपिच्छनिर्मितानि
छत्राणि तेषां सहस्रं तेनान्धकारिता अन्धकार प्रापिता अष्टौ दिसुखास्तेषां भावस्तत्ता तया स्फुरितो दीप्य-
मानः शतमन्युरिन्द्रस्तस्य यश्चापकलापो धनुःसमुदायस्तेन कल्मषं कर्बुरं जलधरवृन्दमिव मेघसमूह-
मिव । उद्वमद्वहिर्निःसरद्यः फेनोऽश्वमुखकफस्तस्य पुञ्जस्तेन धवलितानि शुश्रीकृतानि यानि मुखानि
तेषां भावस्तत्ता तयाऽनवरतं निरन्तरं यद्वल्गनमन्योन्यसंघट्टस्तेन या चटुलता चञ्चलता तया च प्रलय-
कालीनो यः सागरः समुद्रस्तस्य जलं पानीयं तस्य कल्लोलास्तरङ्गास्तेषां संघातमिव समूहमित्र समुद्रतं
प्रादुर्भूतम् । फेनचटुलत्वसाम्येन सागरोपमानमिति । अदृष्टोऽनवलोकितः पर्यन्तः प्रान्तो यस्य तत् ।
सोऽश्वसैन्यमपश्यदित्यन्वयस्तु प्रागेवोक्तः । तश्चेति । तच्च सकलमेव समग्रमेवाश्वीयं सैन्यं चन्द्रापीडनिर्गमेन
संचचालाचालीत् । केन किमित्र । चद्रोदयेन सागरजलगिव समुद्रपानीयमिव । अहंपूर्वमहंपूर्वमित्यहम-
हमिका । स्पर्धेत्यर्थः । तया प्रणामलालसाः प्रणामे नमस्कृतौ लालसा लोलुपा राजपुत्रा नृपसुतास्तं
चन्द्रापीडं पर्यवारयन्त परिवेष्टनमकुर्वत । राजसुतान्विशेषयन्नाह –सरभसेति । सरभसं सवेगमपनी-
टिप्प० - 1 इदमपि सर्व भ्रामकम् । अशिशिरदीधितेः सूर्यस्य संस्पर्शेन स्फुरितं देदीप्यमानम्
( चमत्कुर्बत् ) विमलं फलकम् अग्रदेशः ( तीक्ष्णाग्रलोहमुखम् ) यस्य तेन, ऊर्ध्वोकृतेन ऊर्ध्वमुख स्थापि
तेन, कुम्ताः भल्लाः एव लताः ( लतावल्लम्बाकारत्वात् ) तासां वनेन समूहेन ( करणभूतेन ), उच्चा-
लानां नीलोत्पलकलिकानां चनेन काननेन गहनं नीरन्धं सरः सरोवरमिव गगनतलम् अलंकुर्वाणं शोभ-
यत् । नीलोत्पलवनेन यथा सरोवर मलंक्रियते तथा कुन्तसमूहेन गगनमलंकृतमित्याशयः । 2 छत्रसहस्रेण
अन्धकारितानि ( अन्धकारयुक्तानि कृतानि ) अष्टदिङ्मुखानि येन स मायूरातपत्र सहसान्धकारिताष्ट-
दिङ्मुखस्तत्तया इन्द्रधनुश्चित्रितं मेघवृन्दमिव स्थितमित्यर्थो बोध्यः । 3 शुश्रीकृतानि वदनानि यस्मिन्
तनावः तत्ता तया । इत्यर्थ उचितः ।
पाठा- -१ खुररजो; प्रचुररजो. २ हेषितेन. ३ भुवनं. ४ अशिशिरकिरणंदीधितिपरामर्श ५ ऊर्ध्वंकृत.
६ अन्धकारित. ७ कल्माषितम्. ८ पूर्व तम्. ९ अश्वीयं सैन्यम्; अप्रमेयम श्वसैन्यम्. १० चन्द्रोदयेनेन.