2023-12-18 11:02:48 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

चन्द्रापीडस्य विद्यागृहात् प्रत्यावर्तनम् ] पूर्वभागः ।
 
१७९
 
न्तःकरणमस्य दिव्यताम्' इति विचिन्तयन्नेवारुरुक्षुरासनादुदति-
ष्ठत् । मनसा च तं तुरङ्ग-
म [^१]मनुपसृत्य 'महात्मन्नर्वन्, योऽसि सोऽसि । नमोस्तु ते । [^२]सर्वथा मर्पणीयोऽयमारोहणा-
तिक्र
तिक्र- मोऽस्माकम् । अपरिगतानि दैवतान्यप्यनुचितपरिभवभाञ्जि भव-
न्ति इत्यामन्त्रयांबभूव ।
विदिताभिप्राय इव स तमिन्द्रायुधञ्श् टुल- शिरः केसरसटाहतिकूँ [^३]कूणिता के करतारकेण तिर्यक्च-
क्षुषा विलोक्य मुहुर्मुहुस्तांताडयता क्षितितलमुत्खात धूलिधूसरितक्रोडरोम- राजिना दक्षिण-
खुरेणारो [^४]हणायाह्वयन्निव स्फुरितघ्राणविवर घर्घरध्वनिमिश्रं मधुरमपॅ [^५]परुष हुंकारपरम्परानुबद्ध-
मतिमनोहरं हेषारवमकरोत् ।
 
*
 

 
अथानेन मधुरहेषिते [^६]न दत्तारोहणाभ्यनुज्ञ इवेन्द्रायुधमारोह चन्द्रापीड:। समारुह्य
तं प्रादेशमात्रमिव [^७]त्रैलोक्यमखिलं मन्यमानो निर्गत्य [^८]जलरविमुक्तोपै [^९]पलासारपरुषेण जर्जर-

 
[ टि ]--
आस्वादितः प्रभावो माहात्म्यं येषां ते तथा नानाकारा भूत्वा विविधप्रकाराणि शरीराण्युपगृत्ह्येमं लोकं
बभ्रुमुर्भ्रमितवन्तः । असं- शयं निःसंशयमनेनापि केनापि महात्मना महापुषेण शापभाजा भवितव्यम् ।
मदन्तःकरणं मन्मानसमस्य तुरङ्गस्य दिव्यतां देवत्व- मावेदयतीव ज्ञापयतीव । इति विचिन्तयन्नेवेति ध्याय -
न्नेव आरुरुक्षुरारोदु- रारोढुमिच्छुरासनात्सिंहासनादुदतिष्ठदुत्थितो बभूव । तं तुरङ्गमम- नुपसृत्य तत्समीपेऽनागत्य
मनसैव महात्मन् हे अर्वन् हे अश्व, योऽसि सोऽसि यत्तद्भवसि । अतोऽलक्ष्यस्वरूपायानाकलनीयात्मने

ते तुभ्यं नमो नमस्कारोऽस्तु । सर्वथा सर्वप्रकारेणास्माकमारोहणेन योऽतिक्रमोऽवज्ञा स मर्षणीयः
सहनीयः । अपरिगतान्यज्ञातानि दैवतान्यनुचितोऽयोग्यो यः परिभवः क्लेशस्तद्भाञ्जि भवन्तीति हेतोरामन्त्र-
यांबभूवामन्त्रणं चकार । स इन्द्रायुधोऽश्वस्तं चन्द्रापीडं स्वस्मिन्नारोहणेऽनुमतिरेव नापराध इति स्वाभिप्रायं
खान
स्वाङ्गक्रियाभिः स्पष्टयन्विदितो ज्ञातोऽभिप्राय आरोहणानुमतिलक्षणो येनैतादृश इव हेषावं हेपाशब्दमक-
रोदित्यन्वयः । अथ हेषारवं विशेषयन्नाह – स्फुरितेति । स्फुरितो धूतो यो घ्राणविवरो नासिकारन्धंध्रं तस्य यो

घर्रध्वनिरव्यक्तः शब्दस्तेन मिश्रं संयुक्तं मधुरं कर्णसुखदमत एवापरुषमकठोरं हुंकारस्य हुंकृतेर्या परम्परा संतानं
तयानुबद्धं सहितमत एवातिमनोहरमतिरमणीयम् । चटुलं चञ्चलं यच्छिर उत्तमानंङ्गं तस्य या केसरलक्षणा सटा
जटा तस्या आहतिराघात- स्तया कूणिता किंचिन्निम्ना आकेकरा किंचिद्वकाक्रा तारका कनीनिका यस्मिन्नेवंभूतेन
चक्षुषा नेत्रेण तिर्यक्तिरश्चीनं विलोक्य निरीक्ष्य मुहु- र्मुहुर्वारंवार क्षितितलं पृथ्वीतलं ताडयतास्फालयतोत्खातो-
त्खनिता या धूलि: पांसुस्तया धूसरिता धूम्रा क्रोडरोमराजिर्भुजान्तरालकपर्यि सन्दे- पङ्क्तिर्यस्मिन्नेवंविधेन दक्षिण सुखुरेणा-
पसव्यशफेनारोहणायाधि- रोहणायाह्वयन्निवाह्वानं कुर्वन्निव । अथेत्यानन्तर्ये । अनेन मधुर- हेषितेन दत्तारोहणा-
भ्यनुज्ञ इव दत्तारोहणेऽभ्यनुज्ञा यस्यैवविध इव चन्द्रापीड इन्द्रायुधमारुरोहाधिरूढः । तमिति । तमिन्द्रायुधं

समारुह्यारोहणं कृत्वाखिलं समग्रं त्रैलोक्यं त्रिविष्टपं प्रादेशमात्र- मिति तर्जन्यङ्गुष्ठे वितते सति यन्मानं तत्प्रा-
देशः कथ्यते । यदाह -- 'प्रदेशिन्यादिभिः सार्धमङ्गुष्ठे वितते सति । प्रादेशतालगोकर्ण- वितस्तयो यथाक्रमम्'
इत्यभिधानचिन्तामणिः । तद्वदिव मन्यमानो ज्ञाय [^1]मानः ( ? ) । निर्गत्येति । निर्गत्य ततो बहिरागत्य सं

चन्द्रापीडोऽश्वसैम्न्यमपश्यदित्यन्वयः । अश्वसैन्यं निविशिनष्टि- इन्द्रा- युधं वा । बधिरीकृतमकर्णतां प्रापितं
सकलत्रिभुवनविवरं येन तत् । केन । जलेति । जलधरविमुक्तो य उपलासारः करकासारस्तद्व- त्परुषेण रूक्षेण
 
टिप्प० -

 
[^
1]F. जानन्नित्यर्थः ।
 
पाठा -

 
[^
]G. उपसृत्य समुपसृत्य.
[^
]G. सर्वथा स्थितेन.
[^
]G. कूणित .
[^
]G. रोहणाय.
[^
]G. अपरुम्.

[^६]G. हेषितेन.
[^
]G. त्रैलोक्यं मन्यमानः .
[^
]G. प्रलयजलधर.
[^
]G. उपलसारपातपरुषेण.
 
६ हेषितेन.