This page has not been fully proofread.

चन्द्रापीडस्य विद्यागृहात् प्रत्यावर्तनम् ] पूर्वभागः ।
 
१७९
 
न्तःकरणमस्य दिव्यताम्' इति विचिन्तयन्नेवारुरुक्षुरासनादुदतिष्ठत् । मनसा च तं तुरङ्ग-
ममनुपसृत्य 'महात्मन्नर्वन्, योऽसि सोऽसि । नमोस्तु ते । सर्वथा मर्पणीयोऽयमारोहणा-
तिक्रमोऽस्माकम् । अपरिगतानि दैवतान्यप्यनुचितपरिभवभाञ्जि भवन्ति इत्यामन्त्रयांबभूव ।
विदिताभिप्राय इव स तमिन्द्रायुधञ्च टुलशिरः केसरसटाहतिकूँणिता के करतारकेण तिर्यक्च-
क्षुषा विलोक्य मुहुर्मुहुस्तांडयता क्षितितलमुत्खात धूलिधूसरितक्रोडरोमराजिना दक्षिण-
खुरेणारोहणायाह्वयन्निव स्फुरितघ्राणविवरघर्घरध्वनिमिश्रं मधुरमपॅरुष हुंकारपरम्परानुबद्ध-
मतिमनोहरं हेषारवमकरोत् ।
 
*
 
अथानेन मधुरहेषितेन दत्तारोहणाभ्यनुज्ञ इवेन्द्रायुधमारोह चन्द्रापीड समारुह्य
तं प्रादेशमात्रमिव त्रैलोक्यमखिलं मन्यमानो निर्गत्य जलघरविमुक्तोपैलासारपरुषेण जर्जर-
आस्वादितः प्रभावो माहात्म्यं येषां ते तथा नानाकारा भूत्वा विविधप्रकाराणि शरीराण्युपगृत्येमं लोकं
बभ्रुमुर्भ्रमितवन्तः । असंशयं निःसंशयमनेनापि केनापि महात्मना महापुषेण शापभाजा भवितव्यम् ।
मदन्तःकरणं मन्मानसमस्य तुरङ्गस्य दिव्यतां देवत्वमावेदयतीव ज्ञापयतीव । इति विचिन्तयन्नेवेति ध्याय -
नेव आरुरुक्षुरारोदुमिच्छुरासनात्सिंहासनादुदतिष्ठदुत्थितो बभूव । तं तुरङ्गममनुपसृत्य तत्समीपेऽनागत्य
मनसैव महात्मन् हे अर्वन् हे अश्व, योऽसि सोऽसि यत्तद्भवसि । अतोऽलक्ष्यस्वरूपायानाकलनीयात्मने
ते तुभ्यं नमो नमस्कारोऽस्तु । सर्वथा सर्वप्रकारेणास्माकमारोहणेन योऽतिक्रमोऽवज्ञा स मर्षणीयः
सहनीयः । अपरिगतान्यज्ञातानि दैवतान्यनुचितोऽयोग्यो यः परिभवः क्लेशस्तद्भाजि भवन्तीति हेतोरामन्त्र-
यांबभूवामन्त्रणं चकार । स इन्द्रायुधोऽश्वस्तं चन्द्रापीडं स्वस्मिन्नारोहणेऽनुमतिरेव नापराध इति स्वाभिप्रायं
खानक्रियाभिः स्पष्टयन्विदितो ज्ञातोऽभिप्राय आरोहणानुमतिलक्षणो येनैतादृश इव हेषावं हेपाशब्दमक-
रोदित्यन्वयः । अथ हेषारवं विशेषयन्नाह – स्फुरितेति । स्फुरितो धूतो यो घ्राणविवरो नासिकारन्धं तस्य यो
घर्धरध्वनिरव्यक्तः शब्दस्तेन मिश्रं संयुक्तं मधुरं कर्णसुखदमत एवापरुषमकठोरं हुंकारस्य हुंकृतेर्या परम्परा संतानं
तयानुबद्धं सहितमत एवातिमनोहरमतिरमणीयम् । चटुलं चञ्चलं यच्छिर उत्तमानं तस्य या केसरलक्षणा सटा
जटा तस्या आहतिराघातस्तया कूणिता किंचिन्निम्ना आकेकरा किंचिद्वका तारका कनीनिका यस्मिन्नेवभूतेन
चक्षुषा नेत्रेण तिर्यक्तिरश्चीनं विलोक्य निरीक्ष्य मुहुर्मुहुर्वारंवार क्षितितलं पृथ्वीतलं ताडयतास्फालयतोत्खातो-
त्खनिता या धूलि पांसुखया धूसरिता धूम्रा क्रोडरोमराजिर्भुजान्तरालकपर्यि सन्देवंविधेन दक्षिण सुरेणा-
पसव्यशफेनारोहणायाधिरोहणायाह्वयन्निवाह्वानं कुर्वन्निव । अथेत्यानन्तर्ये । अनेन मधुरहेषितेन दत्तारोहणा-
भ्यनुज्ञ इव दत्तारोहणेऽभ्यनुज्ञा यस्यैवविध इव चन्द्रापीड इन्द्रायुधमारुरोहाधिरूढः । तमिति । तमिन्द्रायुधं
समारुह्यारोहणं कृत्वाखिलं समग्रं त्रैलोक्यं त्रिविष्टपं प्रादेशमात्रमिति तर्जन्यङ्गुष्ठे वितते सति यन्मानं तत्प्रा-
देशः कथ्यते । यदाह -- 'प्रदेशिन्यादिभिः सार्धमङ्गुष्ठे वितते सति । प्रादेशतालगोकर्णवितस्तयो यथाक्रमम्'
इत्यभिधानचिन्तामणिः । तद्वदिव मन्यमानो ज्ञायमानः ( ? ) । निर्गत्येति । निर्गत्य ततो बहिरागत्य सं
चन्द्रापीडोऽश्वसैम्यमपश्यदित्यन्वयः । अश्वसैन्यं निशिनष्टि- इन्द्रायुधं वा । बधिरीकृतमकर्णतां प्रापितं
सकलत्रिभुवनविवरं येन तत् । केन । जलेति । जलधरविमुक्तो य उपलासारः करकासारस्तद्वत्परुषेण रूक्षेण
 
टिप्प० - 1 जानन्नित्यर्थः ।
 
पाठा -१ उपसृत्य समुपसृत्य. २ सर्वथा स्थितेन. ३ कूणित ४ रोहणाय. ५ अपरुपम्.
७ त्रैलोक्यं मन्यमानः ८ प्रलयजलधर. ९ उपलसारपातपरुषेण.
 
६ हेषितेन.