2023-12-18 10:43:15 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

[ कथायामु-
राज्यलक्ष्मीर्यदेवंविधान्यपि सकलत्रिभुवनदुर्लभानि रत्नान्युपकरण- तामागच्छन्ति । अतितेज-
स्वितया महाप्राणतया च [^१]सदैवतेवेय- मस्याकृतिर्यत्सत्यमारोहणे शङ्कामिव मे जनयति । न हि
सामाग्यन्य- वाजिनाममानुषलोकोचिताः सकलत्रिभुवन विस्मयजनन्य ईदृश्यो भवन्त्याकृतयः ।
दैवतान्यपि हि मुनिशापवशादुज्झित [^२]निर्- शरीराणि [^३]शापवचनोपनीतान्येतानि शरीरान्तराण्य-
ध्यासत एव । श्रयते हि [^५]पुरा किल स्थूलशिरा नाम महातपा मुनिरखिल- [^६]त्रिभुवनललाम-
भूतामप्सरसं रम्भाभिधानां शशाप । सा सुर- लोकमपहायाश्वहृदये निवेश्यात्मानमश्वहृदयेति
विख्याता बैं[^७]व- डवा [^८]मृत्तिकावत्यां शतधन्वानं नाम राजानमुपसेवमाना मर्त्य- लोके महान्तं
कालमुवास । अन्ये च महात्मानो मुनिजनशापपरि- पीतप्रभावा नानाकारा भूत्वा बभ्रमुरिमं
लोकम् । असंशयमनेनापि महात्मना केनापि शापभाजा भवितव्यम् । आवेदयतीव मद-
१७८
 
कादम्बरी ।
 

 
[ टि ]--
तातिक्रान्ता त्रिदशराज्यसमृद्धिर्देवाधिपत्यश्रीर्ययैवंविधा वर्तते । अस्मिन्नर्थे हेतुं प्रदर्शयन्नाह - यदिति ।
एवंविधान्यपि पूर्वो- क्तस्वरूपाण्यपि सकलत्रिभुवनदुर्लभानि त्रिजगद्दुःप्राप्याणि रत्नान्युपकरणतां परिभोग्यता-
मागच्छन्ति प्राप्नुवन्ति । अतीति । अतितेजस्वितया महाप्राणतया महासाहसपराक्रमतया । चकारः

समुच्चयार्थः । अस्य अश्वस्येयमाकृतिराकारः सदैवता स्वर्वा [^1]र्वा- सिना सहवर्तमाना । अधिष्ठितेति यावत् सत्य-
मेतद्यस्मादारोहणे- धिरोहणे मे मम शङ्कामिव जनयति । नहि सामान्यवाजिनां दैवता- नधिष्ठिततुरङ्गमाणा-
ममानुषलोकोचिताः सुरलोकयोग्याः सकलं समग्रं यत्त्रिभुवनं त्रिविष्टपं तस्य विस्मयजनन्य आश्चर्योत्पादिन्य

ईदृश्य एतादृशा आकृतय आकारा भवन्ति । देवानामपि रूपा- न्तरग्रहणं संभवतीत्याशयेनाह- दैव
तेति । हीति निश्चितार्थे । दैव- तान्यपि नाकिनोऽपि मुनयो योगिनस्तेषां शापवशादननुग्रहबला- दुज्झितानि
व्यक्तानि निजशरीराणि यैरेवंभूतानि शापवचनोपनी- तानि शापवाक्यप्रापितानि शरीरान्तराणि स्वशरीरा-
द्भिन्नेन्द्रियायत- नान्यध्यासत एवाश्रयन्त्येव । श्रूयते हीति । किलेति सत्ये । हि निश्चये । श्रूयते आकर्ण्यते
पुरा पूर्वं स्थूलशिरा नाम महातपा मुनि- रखिलं समग्रं यत्त्रिभुवनं त्रिविष्टपं तत्र ललामभूतामाभरणभूताम
-
प्सरसं स्वर्वधूम् । क्वचिदेकवचनान्तोऽप्ययम् । तदुक्तम् — स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा इति'
इति । रम्भाभिधानां रम्भा- नाम्नीं शशाप शापं दत्तवान् । सा सुरलोकं देवलोकमपहाय विहा- याश्वहृदये
तुरङ्गमोरस्यात्मानं निवेश्य संस्थाप्य । अश्वशरीरं परि- गृह्येत्यर्थः । अत एवाश्वहृदयेति विख्याता वडवा मृत्ति -
कावत्यां मृत्तिकावती नगरी तस्यां भवं शतधन्वानं नाम राजानमुपसेवमाना भजमाना मर्त्यलोके नृलोके
महान्तं भूयांसं कालं समयमुवासो- षितवती । अत्र कथा – 'स्थूलशिरा नाम महर्षिः कुशसमिदर्थं पर्य-

टन् महति श्वभ्रान्तरे पताम: 'परित्रायस्व परित्रायस्व' इत्युच्चतरं ध्वनिमशृणोत् । गत्वा च तत्र क्षामशरी-
रान्पुरुषांस्तत्र लग्नान्प्रलम्ब-
मानानपश्यत् । पृष्टाश्च 'के यूयम्' इति । ते च पितर इत्यवोचन्-

'त्वया चापत्योत्पत्तिर्न कृता । तद्विरहात्त्वदुपरमे पुंनाम्नि नरके पतिष्यामः' इति । तच्छ्रुत्वा महर्षीं
रम्भाभिधानामेव योषितमिद- मुक्तवान् – 'त्वां कामयामः' इति । तया चोक्तम्-'यथाज्ञापयसि । किंतु
देवकार्यं कृत्वागच्छामि । क्षम्यतां तावत्' इति । गतायां संकेतभङ्गो जात इति महर्षिणा क्रुद्धेन 'वडवा
भव' इति सा शप्ता 'नरनारायण विग्रहावधिश्च शापो भविष्यति' इति x x
 

 
अन्ये चेति । अन्ये महात्मानोऽपरे गरीयांसो जना मुनिजनानां तप- स्विनां शापेनानुग्रहेण परिपीत
 
टिप्प० -

 
[^
1]F. सदैवता कयाचिद्देवतयेव अधिष्ठिता।
 
पाठा० -

 
[^
]G. सर्वदैवतेयम्.
[^
]G. शरीरकाणि.
[^
]G. शापवचनबलोपनीतानि.
[^
]G. शरीराणि .
[^
]G. पुरा स्थूलशिराः,
.
[^
]G. भुवन.
[^
]G. वडवा भूत्वा.
[^
]G. मूर्तिकावत्याम्.