कादम्बरी /211
This page has not been fully proofread.
[ कथायामु-
राज्यलक्ष्मीर्यदेवंविधान्यपि सकलत्रिभुवनदुर्लभानि रत्नान्युपकरणतामागच्छन्ति । अतितेज-
स्वितया महाप्राणतया च सदैवतेवेयमस्याकृतिर्यत्सत्यमारोहणे शङ्कामिव मे जनयति । न हि
सामाग्यवाजिनाममानुषलोकोचिताः सकलत्रिभुवन विस्मयजनन्य ईदृश्यो भवन्त्याकृतयः ।
दैवतान्यपि हि मुनिशापवशादुज्झित निर्जशरीराणि शापवचनोपनीतान्येतानि शरीरान्तराण्य-
ध्यासत एव । श्रयते हि पुरा किल स्थूलशिरा नाम महातपा मुनिरखिलत्रिभुवनललाम-
भूतामप्सरसं रम्भाभिधानां शशाप । सा सुरलोकमपहायाश्वहृदये निवेश्यात्मानमश्वहृदयेति
विख्याता बैंडवा मृत्तिकावत्यां शतधन्वानं नाम राजानमुपसेवमाना मर्त्यलोके महान्तं
कालमुवास । अन्ये च महात्मानो मुनिजनशापपरिपीतप्रभावा नानाकारा भूत्वा बभ्रमुरिमं
लोकम् । असंशयमनेनापि महात्मना केनापि शापभाजा भवितव्यम् । आवेदयतीव मद-
१७८
कादम्बरी ।
तातिक्रान्ता त्रिदशराज्यसमृद्धिर्देवाधिपत्यश्रीर्ययैवंविधा वर्तते । अस्मिन्नर्थे हेतुं प्रदर्शयन्नाह - यदिति ।
एवंविधान्यपि पूर्वोक्तस्वरूपाण्यपि सकलत्रिभुवनदुर्लभानि त्रिजगद्दुःप्राप्याणि रत्नान्युपकरणतां परिभोग्यता-
मागच्छन्ति प्राप्नुवन्ति । अतीति । अतितेजस्वितया महाप्राणतया महासाहसपराक्रमतया । चकारः
समुच्चयार्थः । अस्य अश्वस्येयमाकृतिराकारः सदैवता स्वर्वासिना सहवर्तमाना । अधिष्ठितेति यावत् सत्य-
मेतद्यस्मादारोहणेधिरोहणे मे मम शङ्कामिव जनयति । नहि सामान्यवाजिनां दैवतानधिष्ठिततुरङ्गमाणा-
ममानुषलोकोचिताः सुरलोकयोग्याः सकलं समग्रं यत्रिभुवनं त्रिविष्टपं तस्य विस्मयजनन्य आश्चर्योत्पादिन्य
ईदृश्य एतादृशा आकृतय आकारा भवन्ति । देवानामपि रूपान्तरग्रहणं संभवतीत्याशयेनाह- दैव
तेति । हीति निश्चितार्थे । दैवतान्यपि नाकिनोऽपि मुनयो योगिनस्तेषां शापवशादननुग्रहबलादुज्झितानि
व्यक्तानि निजशरीराणि यैरेवंभूतानि शापवचनोपनीतानि शापवाक्यप्रापितानि शरीरान्तराणि स्वशरीरा-
द्भिन्नेन्द्रियायतनान्यध्यासत एवाश्रयन्त्येव । श्रूयते हीति । किलेति सत्ये । हि निश्चये । श्रूयते आकर्ण्यते ।
पुरा पूर्व स्थूलशिरा नाम महातपा मुनिरखिलं समग्रं यत्रिभुवनं त्रिविष्टपं तत्र ललामभूतामाभरणभूताम
प्सरसं स्वर्वधूम् । क्वचिदेकवचनान्तोऽप्ययम् । तदुक्तम् — स्त्रियां बहुष्वप्सरसः स्यादेकत्वेऽप्सरा इति'
इति । रम्भाभिधानां रम्भानाम्नीं शशाप शापं दत्तवान् । सा सुरलोकं देवलोकमपहाय विहायाश्वहृदये
तुरङ्गमोरस्यात्मानं निवेश्य संस्थाप्य । अश्वशरीरं परिगृह्येत्यर्थः । अत एवाश्वहृदयेति विख्याता वडवा मृत्ति -
कावत्यां मृत्तिकावती नगरी तस्यां भवं शतधन्वानं नाम राजानमुपसेवमाना भजमाना मर्त्यलोके नृलोके
महान्तं भूयांसं कालं समयमुवासोषितवती । अत्र कथा – 'स्थूलशिरा नाम महर्षिः कुशसमिदर्थं पर्य-
टन् महति श्वभ्रान्तरे पताम: 'परित्रायस्व परित्रायस्व' इत्युच्चतरं ध्वनिमशृणोत् । गत्वा च तत्र क्षामशरी-
रान्पुरुषांस्तत्र लग्नान्प्रलम्बमानानपश्यत् । पृष्टाश्च 'के यूयम्' इति । ते च पितर इत्यवोचन्-
'त्वया चापत्योत्पत्तिर्न कृता । तद्विरहात्त्वदुपरमे पुंनाम्नि नरके पतिष्यामः' इति । तच्छ्रुत्वा महर्षीं
रम्भाभिधानामेव योषितमिदमुक्तवान् – 'त्वां कामयामः' इति । तया चोक्तम्-'यथाज्ञापयसि । किंतु
देवकार्यं कृत्वागच्छामि । क्षम्यतां तावत्' इति । गतायां संकेतभङ्गो जात इति महर्षिणा क्रुद्धेन 'वडवा
भव' इति सा शप्ता 'नरनारायण विग्रहावधिश्च शापो भविष्यति' इति x x
अन्ये चेति । अन्ये महात्मानोऽपरे गरीयांसो जना मुनिजनानां तपस्विनां शापेनानुग्रहेण परिपीत
टिप्प० - 1 सदैवता कयाचिद्देवतयेव अधिष्ठिता।
पाठा० - १ सर्वदैवतेयम्. २ शरीरकाणि. ३ शापवचनबलोपनीतानि. ४ शरीराणि ५ पुरा स्थूलशिराः,
६ भुवन. ७ वडवा भूत्वा० ८ मूर्तिकावत्याम.