कादम्बरी /21
This page has been fully proofread twice.
गोपितोपि दुःखप्रेरितोऽमर्षो बलात्प्रकटीभवत्येव । अत एव टिप्पण्यां लेखनीमुखाद्दुःशब्दा अपि विवशं निःसृता इति क्षम्यासुः सहृदयमहोदया: । घोरदुःखमिदं यज्जानतापि मया हन्त कविधृतः पाठो निरस्यते । मूलटीकयोः संवादानुरोधेन ग्रन्थभ्रंशकरो दुष्पाठ एव च स्वकरेण निवेश्यते । परं क्वचित्तु तथा मे मनो विवशमभूद् यथा भ्रष्टतमं तं पाठं लेखितुं लेखन्येव न प्रचचाल । अत एव मूलटीकयोः संवादनियममुल्लङ्घ्यापि समुचितं पाठं मूले बलान्न्य- वेशयम्, तं च घोरपाठं नीचैः पाठान्तरे । यथा-शबरसेनापतिवर्णने - 'रचिताभरणेन**** वक्षःस्थलेनोद्भासमानम्** *शबरसेनापति- मपश्यम्' इति । अत्र टीकाकारमहाभागेन पाठो दत्तोऽस्ति – 'चक्षुःस्थलेनोद्भासमानम्' । अस्यैव साक्षात्संनिधौ यद्यपि विशेषण-
मस्ति 'विन्ध्यशिलाविशालेन' इति । न हि चक्षुः शिलाविशालं भवति । किन्तु लोके शिलाविशालमीदृशं हृदयमवश्यमस्ति यद्धि वक्षःस्थलस्थाने चक्षुःस्थलं क्लिश्नाति । नात्रापि लेखक- मुद्रकदोषशङ्का । स्पष्टमस्ति व्याख्यानम्–'चक्षुःस्थलेन नेत्रस्थानेनोत्प्राबल्येन भासमानम्' इति । नैतदेव, अग्रे पुनरस्ति - 'चक्षुस्थलं विशिनष्टि' इति । यदि 'नेत्रस्थानेन' इति पर्यायकरणमपि लेखकमुद्रकदोष एव तर्हि मन्ये न क्वचिन्नीलपीतादिष्वपि लोके मिथो भेदः (पृ. ६५ ) ।
टीकायाः स्थाने स्थाने- समासविग्रहादिषु भ्रामिका अशुद्धयोऽवलोक्यन्ते । तत्र तत्र कोष्ठके समुचिताक्षरनिर्माणेन शोधनस्य चेष्टा कृता । यथा -'स्वीकृता यतिजनानामुचिता यात्रा उपवरणम्' इत्यत्र 'उपव ( क )रणम्' इति । 'आबद्धं मण्डलं यस्याः' इत्यत्र ( यया ) इति कोष्ठके दत्तम् । यत्र तु किञ्चिदधिकं वर्तते तदपि कोष्ठके निबद्धम् । पाठका विवेकेन उभयोरुपयोगं जानीयुः ।
महाकविर्बाणः पुराण-महाभारतादिषु परिनिष्ठितः । स्थाने स्थानेऽयं रामायणमहाभारतादीनामुपाख्यानानि स्वरचनायां सूचितवान् । किन्तु जैनष्टीकाकारमहोदयस्तेषामपरिचितः । अत एव बहुत्र विपरीतं जल्पति । यथा - शुक-करिणामग्निशा- पवशाजिह्वापरिवर्तनस्य कथा टीकाकारेण महाभारततो वैपरी-
त्येन केवलं प्रवाद इति स्थूलैरक्षरैर्गदिता । अस्तु टिप्पण्यां स्थाने स्थाने तत्कथानां परिचयाय प्रयतितम् । एवम् - बाणस्य स्फुटं सनातनधर्मावलम्बित्वेऽपि टीकाकारो व्याख्यायां बहुत्र स्वसंप्रदायप्रणयं पिशुनयत्येव । यथा - 'न प्रणमन्ति देवताभ्यः' इत्यत्र 'हरिहरादिदेवेभ्यः' इति स्फुटेऽप्यर्थे 'अर्हद्भयः' इति
व्याख्याति (पृ. २३५ ) । एवं महाश्वेतावर्णने– 'त्र्यम्बकस्य अम्बिकायाः कार्तिकेयस्य विश्रवणस्य कृष्णस्य • • • पुण्याः स्तुती: पठन्तीभिः' इत्यत्र 'कृष्णस्य जिनस्य' इति व्याख्यातवान्(पृ. ४२७)।
किमधिकं परिवादेन, अनुपमकाव्यस्यास्य कादम्बर्या यादृशी व्याख्याऽपेक्षिता न तत्सीमस्पर्शिन्यपि सेयम् । बहवो हि व्याख्याकारा मूलकारस्य कल्पनां तथा प्रगुणयन्ति यथा कवेश्चमत्कारातिशयेन सह व्याख्याया अप्यलौकिकी काचिदभिख्या प्रस्फुरति । दूरे सा संकथा, इह तु ग्रन्थस्यार्थस्पर्शोपि दुर्लभो बहुत्र । किन्तु यस्मिन्काले सेयमिदंतया प्रथमममुद्र्यत तस्मिन्काले न प्रसृताभूत्काचिदन्या विस्तृता
व्याख्या । प्रतिपदव्याख्यैव च प्रारम्भतः पठतां विद्यार्थिनामुपयोगिनीति बहूनां दृष्टि: । सेयं च व्याख्या
स्वयमात्मानमपदिशति 'निरन्तरव्याख्या' 'प्रतिपदव्याख्या' इत्यादि । अत एवान्तेवासिनामधिकोपकारमालक्ष्य सेयमारम्भतोऽद्यावधि सप्तभिः संस्करणैः प्राकाश्यत । प्रथमतष्टीकाकारेणानेन मूलपाठ एव विरूपोऽधिगतः, ततोपि स्वयमेतद्वयाख्यापुस्तकमप्यशुद्ध- मेवासादितं प्रकाशकैः । अत एवाद्यावधिसंस्करणेषु यथाजातैव सेयं टीका प्रकाशिताभूत् । अष्टमसंस्करणावसरे त्वस्मिन् नवीनटीकाप्रकाशनाय सूचिता अपि मुद्रायन्त्राध्यक्षाः पूर्वतः प्रचलिताया अस्याष्टीकायाः प्रक्रमस्य प्रणयस्य च भङ्गं नान्वमन्यन्त । अत एव हि मत्संमतिमग्रिमसंस्करणार्थमुपेक्ष्य, इमामेव टीकां संस्कर्तुमाज्ञापयन् ।
अस्तु मूलटीकयो: पाठसंवादनियमे जाग्रति किमप्यन्यत्कर्तुं परवशोहं टिप्पण्याऽनया स्थाने स्थाने मूलस्य टीकायाश्च विषये आवश्यकं संशोधनं विवक्षितं च किञ्चिदभिव्यञ्जितवानस्मि । नैतस्योपयोगिताविषये मम वक्तव्यं शोभते । गुणगृह्याः स्वयमनुगृह्यासुः कृपाकटाक्षदानेन ।