This page has not been fully proofread.

कादम्बरी ।
 
गोपितोपि दुःखप्रेरितोऽमर्षो बलात्प्रकटीभवत्येव । अत एव टिप्पण्यां लेखनीमुखाद्दुःशब्दा अपि विवशं
निःसृता इति क्षम्यासुः सहृदयमहोदया: । घोरदुःखमिदं यजानतापि मया हन्त कवितः पाठो निर-
स्यते । मूलटीकयोः संवादानुरोधेन ग्रन्थभ्रंशकरो दुष्पाठ एव च स्वकरेण निवेश्यते । परं क्वचित्तु तथा मे
ममो विवशमभूद् यथा भ्रष्टतमं तं पाठं लेखितुं लेखन्येव न प्रचचाल । अत एव मूलटीकयोः संवाद-
नियममुलद्धयापि समुचितं पाठं मूले बलाग्यवेशयम्, तं च घोरपाठं नीचैः पाठान्तरे । यथा - शबर-
सेनापतिवर्णने- 'रचिताभरणेन वक्षःस्थलेनोद्धा समानम् शबरसेनापतिमपश्यम्' इति । अत्र टीका-
कारमहाभागेन पाठो दत्तोऽस्ति – 'चक्षुःस्थलेनोद्भासमानम्' । अस्यैव साक्षात्संनिधौ यद्यपि विशेषण-
मस्ति 'विन्ध्यशिला विशालेन' इति । न हि चक्षुः शिलाविशालं भवति । किन्तु लोके शिलाविशालमी-
दृशं हृदयमनश्यमस्ति यद्धि वक्षःस्थलस्थाने चक्षुःस्थलं किनाति । नान्त्रापि लेखक - मुद्रकदोषशङ्का ।
स्पष्ष्मस्ति व्याख्यानम्–'चक्षुःस्थलेन नेत्रस्थानेनो प्राबल्येन भासमानम्' इति । नैतदेव, अग्रे पुन-
रस्ति - 'चक्षुस्थलं विशिष्टि' इति । यदि 'नेत्रस्थानेन' इति पर्यायकरणमपि लेखकमुद्रकदोष एव तर्हि
मन्ये न क्वचिन्नीलपीतादिष्वपि लोके मिथो भेदः (पृ. ६५ ) ।
 
टीकायाः स्थाने स्थाने- समास विग्रहादिषु भ्रामिका अशुद्धयोऽवलोक्यन्ते । तत्र तत्र कोष्ठके समुचि
ताक्षरनिर्माणेन शोधनस्य चेष्टा कृता । यथा - - 'स्वीकृता यतिजनानामुचिता यात्रा उपवरणम्' इत्यत्र
'उपव ( क )रणम्' इति । 'आबद्धं मण्डलं यस्याः' इत्यत्र ( यया ) इति कोष्टके दत्तम् । यत्र तु किञ्चि
दधिकं वर्तते तदपि कोष्ठके निबद्धम् । पाठका विवेकेन उभयोरुपयोगं जानीयुः ।
 
महाकविर्बाणः पुराण-महाभारतादिषु परिनिष्ठितः । स्थाने स्थानेऽयं रामायणमहाभारतादीनामुपा-
ख्यानानि स्वरचनायां सूचितवान् । किन्तु जैनष्टीकाकारमहोदय स्तेषामपरिचितः । अत एव बहुत्र विप
रीतं जल्पति । यथा - शुक-करिणामग्निशापवशाजिह्वा परिवर्तनस्य कथा टीकाकारेण महाभारततो वैपरी-
त्येन केवलं प्रवाद इति स्थूलैरक्षरैर्गदिता । अस्तु टिप्पण्यां स्थाने स्थाने तत्कथानां परिचयाय प्रयति-
तम् । एवम् - बाणस्य स्फुटं सनातनधर्मावलम्बित्वेऽपि टीकाकारो व्याख्यायां बहुत्र स्वसंप्रदायप्रणयं पिशु-
नयत्येव । यथा - 'न प्रणमन्ति देवताभ्यः' इत्यत्र 'हरिहरादिदेवेभ्यः' इति स्फुटेऽप्यर्थे 'अर्हद्भयः' इति
व्याख्याति (पृ. २३५ ) । एवं महाश्वेतावर्णने– 'यम्बकस्य अम्बिकायाः कार्तिकेयस्य विश्रवणस्य
कृष्णस्य • • • पुण्याः स्तुती: पठन्तीभिः' इत्यत्र 'कृष्णस्य जिनस्य' इति व्याख्यातवान् (पृ. ४२७ ) ।
 
किमधिकं परिवादेन, अनुपमकाव्यस्यास्य कादम्बर्या यादृशी व्याख्याऽपेक्षिता न तत्सीमस्पर्शिन्यपि
सेयम् । बहवो हि व्याख्याकारा मूलकारस्य कल्पनां तथा प्रगुणयन्ति यथा कवेश्चमत्कारातिशयेन सह
व्याख्याया अध्यलौकिकी काचिदभिख्या प्रस्फुरति । दूरे सा संकथा, इह तु ग्रन्थस्यार्थस्पर्शोपि दुर्लभो
बहुत्र । किन्तु यस्मिन्काले सेयमिदंतया प्रथमममुद्रयत तस्मिन्काले न प्रसृतासूत्काचिदन्या विस्तृता
व्याख्या । प्रतिपदव्याख्यैव च प्रारम्भतः पठतां विद्यार्थिनामुपयोगिनीति बहूनां दृष्टि: । सेयं च व्याख्या
स्वयमात्मानमपदिशति 'निरन्तरव्याख्या' 'प्रतिपदव्याख्या' इत्यादि । अत एवान्तेवासिनामविकोपकार-
मालक्ष्य सेयमारम्भतोऽद्यावधि सप्तभिः संस्करणैः प्राकाश्यत । प्रथमतष्ठीकाकारेणानेन मूलपाठ एव
विरूपोऽधिगतः, ततोपि स्वयमेतद्वयाख्या पुस्तकमप्यशुद्ध मेवासादितं प्रकाशकैः । अत एवाद्यावधिसंस्कर-
णेषु यथाजातैव सेयं टीका प्रकाशिताभूत् । अष्टमसंस्करणावसरे त्वस्मिन् नवीनटीकाप्रकाशनाय सूचिता
अपि मुद्रायन्त्राध्यक्षाः पूर्वतः प्रचलिताया अस्याष्टीकायाः प्रक्रमस्य प्रणयस्य व भङ्गं नान्वमन्यन्त । अत
एव हि मत्संमतिमग्रिमसंस्करणार्थमुपेक्ष्य, इमामेव टीकां संस्कर्तुमाज्ञापयन् ।
 
अस्तु मूलटीकयो: पाठसंवादनियमे जाग्रति किमप्यन्यत्कर्तुं परवशोहं टिप्पण्याऽनया स्थाने स्थाने
मूलस्य टीकायाश्च विषये आवश्यकं संशोधनं विवक्षितं च किञ्चिदभिव्यञ्जितवानस्मि । नैतस्योपयोगिता-
विषये सम वक्तव्यं शोभते । गुणगृह्याः स्वयमनुगृह्यासुः कृपाकटाक्षदानेन ।