कादम्बरी /209
This page has been fully proofread once and needs a second look.
नितविषम [^१]खरमुखरवैः पृथुभिः खुरपुटैर्जर्ज रितवसुंधरैर्मुरज- वाद्यमिवाभ्यस्यन्तम्, उत्कीर्णमिव जङ्घासु, विस्तारितमिवोरसि, श्लक्ष्णीकृतमिव मुखे, प्रसारितमिव कंधरायाम्, उल्लिखितमिव
पार्श्वयोः, द्विगुणीकृतमिव जघनभागे, [^२]जवप्रतिपक्षमिव गरु- त्मतः, त्रैलोक्यसंचरणसहायमिव मारुतस्य, अंशावतारमिवोच्चैः- श्रवसः, [^३]वेगसब्रह्मचारिणमिव मनसः, हरिचरणमिव सकल-
वसुंधरोल्लङ्घनक्षमम्, वरुणहंसमिव मानसप्रचारम्, मधुमासदि- वसमिव [^४]विकसिताशोकपाटलम्, व्रतिनमिव भस्मसितपुण्डड्र- काङ्कितमुखम्, कमलवनमिव मधुपऋषिङ्कपिङ्गकेसरम्,
भीष्मदिवस- मिव महायाम [^५]मुग्रतेजसं च, भुजङ्गमिव सदागत्यभिमुखम्, उदधिपुलिनमित्रव
,
[ टि ]-- गमनं तस्माजनितः समुत्पन्नो यो विषमोऽसदृशः खरः कठिनो [^1]मुखैखरवो येषां तैः । पृथुभिर्विस्तीर्णैर्जर्जरिता जर्ज-
रीकृता वसुंधरा पृथ्वी यैरेवंविधैः खुरपुटैः शफपुटैर्मुरजवाद्यमिव मृदङ्गवाद्यमिवाभ्यस्यन्तमभ्यासं कुर्वन्तम् ।
पुनरप्यस्य शालिहोत्र- प्रोक्तमवयवेषु गुणातिशयं वेगलाघवक्रियातिशयं च प्रतिपादयितु- मस्य विशेषणान्याह-
उत्कीर्णेति । उत्कीर्णमिव यन्त्रघर्षितमिव जङ्घासु प्रसिद्धासु । विस्तारितमिव प्रसारितमिवोरसि हृदये ।
ल। श्ल- क्ष्क्षणीकृतमिव सौन्दर्यविशेषमा पादितमिव मुखे वदने । प्रसारितमिव विस्तीर्णीकृतमिव कंधरायां ग्रीवायाम् ।
उल्लिखितमिवोत्कीर्णमिव पार्श्वयोः प्रसिद्धयोः । नानागुण व्यञ्ज करेखोप रेखावत्त्वादित्युपमानम् । द्विगुणीकृतमिव
द्विगुणतामापादितमिव जघनभागेऽग्रभागे । जय। जय- प्रतिपक्षमिव वेगर् [^2]दस्युमिव गरुत्मतो गरुडस्य । त्रैलोक्यसंच- रणस-
हायमिव त्रिविष्टपगमनसखायमिव मारुतस्य वायोः । उच्चैः- श्रवस इति । उच्चैःश्रवा अमृतमथनसमुत्पन्नोऽश्वो
देवराजस्येतस्यां- शावतारमिवांशेनावतरणमिव । मनसो वेगस्य सब्रह्मचारिणं सती- र्थ्यमिव । ऋद्धस्य राजमातङ्ग
इतिवन्मनसोऽभिन्नत्वेऽपि संबन्धः । सकलवसुंधरोल्लङ्घनक्षमं हरिचरणमित्रव जनार्दनपादमिव । वरु- णस्य प्रचे-
तसो यो हंसस्तमिव । इत उभयविशेषणानि - मानस- प्रचारं मानसं मनस्तद्वत्प्रचारो गमनं यस्य स तम् ।
पक्षे मानस- सरसि प्रचारो यस्येति विग्रहः । अत्र वरुणेतिपदमुत्कर्षातिशय- प्रतिपादनार्थम् । मध्विति । मधु-
मासो वसन्तमासस्तस्य यो दिवसो दिनं चैत्रमासदिनं तद्वदिव विकसितो योऽशोकः कङ्केतिद्वत्पाटलं श्वेत-
रक्तम् । पक्षे विकसितानि विनिद्राण्यशोकानि कङ्केलिपुष्पाणि पाटलानि पाटलवृक्षकुसुमानि यस्मिन् । अशोकैः
वा पाटल इति वा भालस्थश्वेतपट्टाभिप्रायेणाह- व्रतिनमिति । व्रतिनं संन्यासिनमिव भस्मवत्सितं शुक्लं
यत्पुण्ड्रकं तिलकं तेनाङ्कितं चिह्नितं मुखं यस्य स तम् । पक्षे भस्मनः सितं तिलकम् । शेषं पूर्ववत् । कमलस्य
नलिनस्य यद्वनं तदिनव । मधुयुक्तो यः पङ्को वचाकर्दमस्तेन पिङ्गानि बभ्रूणि रक्तपीतानीत्यर्थः । केसराणि
स्कन्धरोमाणि यस्मिन् । उक्तं हि वैद्यके
———'अश्वस्य वातादिदोषशान्तये मधुयुक्त- वचादि चूर्णस्य पङ्कस्तेन तनु-
लेपनम्' । पक्षे मधु पुष्परसस्तस्य पङ्कः कर्दमस्तेन पिङ्गानि केसराणि यस्मिन् । ग्रीष्मस्य निदाघस्य दिवसो
वासरस्तमिव महायामं महानायामो विस्तारो यस्य स तम् । पक्षे महान्यामः प्रहरो यस्मिन् । उग्रतेजसं च ।
। विशेषणमुभयत्र समानम् । भुजंगः सर्पस्तद्वदिव सदा निरन्तरं या गतिर्गमनं तस्या अभिमुखं संमुखम् ।
पक्षे सदागतिवायुस्तस्याभिमुखम् । वातपानकारित्वात् । उदधिः समुद्रस्तस्य पुलिननं सैकतं तद्वदिव शङ्खाः
कम्बवरस्तेषां मालिका पङ्क्तिः सैवाभरणं भूषणं यस्येत्यभङ्गश्लेषः । अश्वानां गले शङ्खमालिकाबन्धनस्य सर्वत्र
प्रसिद्धत्वात्समुद्रपुलिनोपमा- नम् । भीतं भयाकुलं तद्वदिव स्तब्धौ निश्चलौ कर्णौ श्रोत्रे यस्येत्य- भङ्गश्लेषः ।
विद्याभधरा व्योमचारिणस्तेषां राज्यमाधिपत्यं तदिव चक्रवर्ती यो नरस्तस्य वाहन उद्वहनं उचितं योग्यम् ।
टिप्प -[^1]F. अग्रभागध्वनिः ।
[^2]F. वेगे प्रतिस्पर्धिनमित्यर्थः ।
पाठा -[^१]G. विषमस्वरमुख, विषममुख, .
[^२ जय]G. जय.
[^३]G. वेगरथ.
[^४]G.४ विकासित .
[^५]G. उम्ग्रतेजसा भुजगम्.
Ke
पार्श्वयोः, द्विगुणीकृतमिव जघनभागे, [^२]जवप्रतिपक्षमिव गरु- त्मतः, त्रैलोक्यसंचरणसहायमिव मारुतस्य, अंशावतारमिवोच्चैः- श्रवसः, [^३]वेगसब्रह्मचारिणमिव मनसः, हरिचरणमिव सकल-
वसुंधरोल्लङ्घनक्षमम्, वरुणहंसमिव मानसप्रचारम्, मधुमासदि- वसमिव [^४]विकसिताशोकपाटलम्, व्रतिनमिव भस्मसितपुण्
रीकृता वसुंधरा पृथ्वी यैरेवंविधैः खुरपुटैः शफपुटैर्मुरजवाद्यमिव मृदङ्गवाद्यमिवाभ्यस्यन्तमभ्यासं कुर्वन्तम् ।
ल
वा
नलिनस्य यद्वनं तदि
वासरस्तमिव महायामं महानायामो विस्तारो यस्य स तम् । पक्षे महान्यामः प्रहरो यस्मिन् । उग्रतेजसं च
[^2]F. वेगे प्रतिस्पर्धिनमित्यर्थः ।
[^२
[^३]G. वेगरथ.
[^४]G.
[^५]G. उ