2023-12-17 16:35:18 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
नितविषम [ कथायाम-
उत्कीर्णमिद
 
नितविषम
^१]खरमुखरवैः पृथुभिः खुरपुटैर्जर्ज रितवसुंधरैर्मुरज- वाद्यमिवाभ्यस्यन्तम्,
जहां
उत्कीर्णमिव जङ्घासु, विस्तारितमिवोरसि, श्लक्ष्णीकृतमिव मुखे, प्रसारितमिव कंधरायाम्, उल्लिखितमिव
 
J
 
श्र
 

पार्श्वयोः, द्विगुणीकृतमिव जघनभागे, जै[^२]जवप्रतिपक्षमिव गरु- त्मतः, त्रैलोक्यसंचरणसहायमिव
मारुतस्य, अंशावतारमिवोच्चैः- श्रवसः, [^३]वेगैसब्रह्मचारिणमिव मनसः, हरिचरणमिव सकल-

वसुंधरोल्द्दङ्घनक्षमम्, वरुणहंसमिव मानसप्रचारम्, मधुमासदिवसमिव विकॅ- वसमिव [^४]विकसिताशोक-
पाटलम् प्, व्रतिनमिव भस्मसितपुण्डकाङ्कितमुखम् कमलवनमिव मधुपऋषिङ्गकेसरम्,

भीष्मदिवसमिव महायाममुग्रतेजसं च, भुजङ्गमिव सदागत्यभिमुखम्, उदधिपुलिनमित्र
 

 
,
 

 
गमनं तस्माजनितः समुत्पन्नो यो विषमोऽसदृशः खरः कठिनो मुखैरवो येषां तैः । पृथुभिर्विस्तीर्णैर्जर्जरिता जर्ज

रीकृता वसुंधरा पृथ्वी यैरेवंविधैः खुरपुटैः शफपुटैर्मुरजवाद्यमिव मृदङ्गवाद्यमिवाभ्यस्यन्तमभ्यासं कुर्वन्तम् ।

पुनरप्यस्य शालिहोत्रप्रोक्तमवयवेषु गुणातिशयं वेगलाघवक्रियातिशयं च प्रतिपादयितुमस्य विशेषणान्याह-

उत्कीर्णेति । उत्कीर्णमिव यन्त्रघर्षितमिव जङ्घासु प्रसिद्धासु । विस्तारितमिव प्रसारितमिवोरसि हृदये ।

लक्ष्क्षणीकृतमिव सौन्दर्यविशेषमा पादितमिव मुखे वदने । प्रसारितमिव विस्तीर्णीकृतमिव कंधरायां ग्रीवायाम् ।

उल्लिखितमिवोत्कीर्णमिव पार्श्वयोः प्रसिद्धयोः । नानागुण व्यञ्ज करेखोप रेखावत्त्वादित्युपमानम् । द्विगुणीकृतमिव

द्विगुणतामापादितमिव जघनभागेऽग्रभागे । जयप्रतिपक्षमिव वेगर्दस्युमिव गरुत्मतो गरुडस्य । त्रैलोक्यसंचरणस-

हायमिव त्रिविष्टपगमनसखायमिव मारुतस्य वायोः । उच्चैःश्रवस इति । उच्चैःश्रवा अमृतमथनसमुत्पन्नोऽश्वो

देवराजस्येतस्यांशावतारमिवांशेनावतरणमिव । मनसो वेगस्य सब्रह्मचारिणं सतीर्थ्यमिव । ऋद्धस्य राजमातङ्ग

इतिवन्मनसोऽभिन्नत्वेऽपि संबन्धः । सकलवसुंधरोल्लङ्घनक्षमं हरिचरणमित्र जनार्दनपादमिव । वरुणस्य प्रचे-

तसो यो हंसस्तमिव । इत उभयविशेषणानि - मानसप्रचारं मानसं मनस्तद्वत्प्रचारो गमनं यस्य स तम् ।

पक्षे मानससरसि प्रचारो यस्येति विग्रहः । अत्र वरुणेतिपदमुत्कर्षातिशयप्रतिपादनार्थम् । मध्विति । मधु-

मासो वसन्तमासस्तस्य यो दिवसो दिनं चैत्रमासदिनं तद्वदिव विकसितो योऽशोकः कङ्केतिद्वत्पाटलं श्वेत-

रक्तम् । पक्षे विकसितानि विनिद्राण्यशोकानि कङ्केलिपुष्पाणि पाटलानि पाटलवृक्षकुसुमानि यस्मिन् । अशोकैः

वाटल इति वा भालस्थश्वेतपट्टाभिप्रायेणाह- व्रतिनमिति । व्रतिनं संन्यासिनमिव भस्मवत्सितं शुक्लं

यत्पुण्ड्रकं तिलकं तेनाङ्कितं चिह्नितं मुखं यस्य स तम् । पक्षे भस्मनः सितं तिलकम् । शेषं पूर्ववत् । कमलस्य

नलिनस्य यद्वनं तदिन । मधुयुक्तो यः पङ्को वचाकर्दमस्तेन पिङ्गानि बभ्रूणि रक्तपीतानीत्यर्थः । केसराणि

कधरोमाणि यस्मिन् । उक्तं हि वैद्यके

———'अश्वस्य वातादिदोषशान्तये मधुयुक्तवचादि चूर्णस्य पङ्कस्तेन तनु-

लेपनम्' । पक्षे मधु पुष्परसस्तस्य पङ्कः कर्दमस्तेन पिङ्गानि केसराणि यस्मिन् । ग्रीष्मस्य निदाघस्य दिवसो

वासरस्तमिव महायामं महानायामो विस्तारो यस्य स तम् । पक्षे महान्यामः प्रहरो यस्मिन् । उग्रतेजसं च ।

विशेषणमुभयत्र समानम् । भुजंगः सर्पस्तद्वदिव सदा निरन्तरं या गतिर्गमनं तस्या अभिमुखं संमुखम् ।

पक्षे सदागतियुस्तस्याभिमुखम् । वातपानकारित्वात् । उदधिः समुद्रस्तस्य पुलिन सैकतं तद्वदिव शङ्खाः

कम्बवरतेषां मालिका पङ्क्तिः सैवाभरणं भूषणं यस्येत्यभङ्गश्लेषः । अश्वानां गले शङ्खमालिकाबन्धनस्य सर्वत्र

प्रसिद्धत्वात्समुद्रपुलिनोपमानम् । भीतं भयाकुलं तद्वदिव स्तब्धौ निश्चलौ कर्णौ श्रोत्रे यस्येत्यभङ्गश्लेषः ।

विद्याभरा व्योमचारिणस्तेषां राज्यमाधिपत्यं तदिव चक्रवर्ती यो नरस्तस्य वाहन उद्वहनं उचितं योग्यम् ।
 

 
टिप्प -1 अग्रभागध्वनिः । 2 वेगे प्रतिस्पर्धिनमित्यर्थः ।
 

 
पाठा -१ विषमस्वरमुख, विषममुख, २ जय. ३ वेगरथ. .४ विकासित ५ उम्रतेजसा भुजगम्.
 

 
Ke