2023-12-17 15:13:07 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

इन्द्रायुषः ]
 
पूर्वभागः ।
 
लशिखरेण कर्णयुगलेन विराजमानम्, उज्वलकनक [^१]शृङ्खलाला- रचितरश्मिकला पकलितया लाक्षा,
लोहितलम्बलोलसटासंतानया जलनिधिसंचरणलग्नविद्रुमपल्लवयेव शिरोधरयोपशोभितम्,
अति- कुटिलकनकपत्रलताप्रतानभङ्गुरेण पदे पदे रणितरत्नमालेन स्थू- लमुक्ताफलप्रायेण तारा
गणे [^२]नेवे संध्या [^३]रागमरुणेना श्वा- लंकारेणा लंकृतम्, अश्वालंकारनिहितमरकत रत्नप्रभाश्यामाय-
मान- देहतया गगनतलनिपतितदिवसकररथ [^४]तुरङ्गमशा [^५]शङ्का- मिवोपजनयन्तम्, अतितेजस्वितया
जवनिरोधरोषवशात्प्रति [^६]रोमकूपमुद्रतानि सागर [^७]परिचयलग्नानि मुक्ताफलानीव [^८]स्वेदलवजाल
कानि वर्षन्तम्, [^९]इन्द्रनीलमणिपादपीठानु-
कारिभिरञ्जनशिलाघटितैरिवांवानवरतपतनोत्पतनज-

 
[ टि ]--
विगतमांसतया समुत्कीर्णमिव यन्त्रकर्षितमिव वदनमान- नमुद्वहन्तं धारयन्तम् । आननमण्डलं मुखमण्ड
लं तत्र निहिताः स्थापिता येऽरुणमणयः पद्मरागरत्नानि तेभ्यः समुद्गतैर्निःसृतैरंशु- कलापैर्दीप्ति समूहैरुपेतेन सहि-
तेनावसक्तानि लग्नानि रक्तचाम- राणि लोहितवालव्यजनानि यस्मिन्नेवंभूतेनेव निश्चलं स्थिरं शिखर- मग्रं यस्
तेन कुर्णयुगलेन श्रवणद्वितयेन विराजमानं शोभमानम् । तस्य शृंङ्गारवर्णनद्वारा विशेषयन्नाह - उजव
ज्ज्वलेति । उज्ज्वला निर्मला या कनक श्रृङ्खला सुवर्णशृङ्खला तया रचिता निर्मिता ये रश्म- योऽश्वानां संयमनाधों
धोरज्जवस्तेषां कलापस्तेन कलितया सहितया । लाक्षेति । लाक्षा जतु तल्लोहिता रक्ता लम्बा विस्तीर्णा
लोलाश्चपला या सटाः स्कन्धकेसरा [^1]स्तस्याः संतानं यस्याः सा तया । जल- निधौ समुद्रे यत्संचरणं भ्रमणं तत्र
लग्ना आसक्ता विद्रुमपल्लवा: प्रवालकिसलया यस्यामेवंविधयेव शिरोधरया ग्रीवयोपशोभितं विराजितम् । अलं-
कारद्वारा विशेषयन्नाह - अतीति । अतिकुटिलातिवका- तिवक्रा या कनकपत्रलता सुवर्णपत्र भङ्गिस्तस्याः प्रतानं
समूहस्तेन [^2]भङ्गुरेण वक्रेण, पदे पदे रणिता शब्दिता रत्नमाला यस्मिन्स तेन । स्थूलमुक्ताफलानि प्रायो बाहु-
ल्येन सन्ति यस्मिन्नेवंभूतेनारु- णेन रक्तेनाश्वालंकारेणालंकृतं भूषितम् । अलंकारस्यारुणत्वान्मु- क्ताफलानां च
श्वेतत्वादुत्प्रेक्षामाह - तारेति । तारागणेन विभूषितं संध्यारागमिव । संध्यारागपक्षेऽरुणो गरुडाग्रजः प्रकृते
रक्तिमा । पुनरुपमानान्तरमाह - अश्वेति । अश्वालंकारे निहितानि स्थापितानि यानि मरकतरत्नान्यश्म
गर्भानि तेषां प्रभा कान्तिस्तया श्यामायमा- नः कृष्णतां समाचरमाणो देहो यस्य तस्य भावस्तत्ता तया गगन-

तलादाकाशतलान्निपतितो यो दिवसकरस्य सूर्यस्य रथतुरङ्गमः स्यन्दनं हयस्तस्य शङ्कामारेकामुपजनयन्तमिवो-
स्
त्पादयन्तमिव । सूर्यरथाश्वानां हरितत्वादिति भावः । अतितेजस्विनो भावोऽतितेज- स्विता तया जवस्य वेग
स्य यो निरोधोऽन्तरान्तरा [^3]रुन्धैनं तस्माद्यो रोषः क्रोधस्तद्वशाच्चेति हेतु [^4]द्वयम् । प्रतिरोमकूपं प्रतिरोमरन्ध्रमुद्र-
तानि प्रादुर्भूतानि स्वेदलवजालकानि प्रस्खेवेदबिन्दु- समूहानि वर्षन्तं वृष्टिं कुर्वन्तम् । श्वेतत्वसाम्यादुपमा [^५]नान्तर
- माह - सांसागरेति । सागरपरिचयात्समुद्रोत्पन्नत्वाल्लमाग्नानि मुक्ता- फलानीव रसोद्भवानीव । शालिहोत्रोक्ताः खुर-
पुटेषु गुणाः । तद्वारा विशेषयन्नाह - इन्द्रेति । इन्द्रनीलमणिनिर्मितं यत्पादपीठं पदासनं तदनुकारिभिस्तत्सा-
दृश्यधारिभिः । अतोऽञ्जनशिलाघटितैरिव श्यामशिलानिर्मितैरिवानवरतं निरन्तरं यत्पतनोत्पतनमुत्युप्लुत्यो त्य
 
-
 
टि
- त्प्प0 - लुत्य
 
[^
1]F. लाक्षावत् लोहितः लम्बो लोलश्च सटासंतान: ( केसरसमूहः ) यस्या इति व्याख्योः
योचिता ।
[^
2]F. अश्वाभरणे अतिकुटिलानां स्वर्णनिर्मितपत्राकाराणां लतानां समूहो लग्नः, अत एव वावक्राणां
लतानां समूहवशात्तदाभरणमपि भङ्गुरं वक्रमस्तीत्याशयः ।
[^
3]F. रोधनमित्यर्थः ।
[^
4]F. अयमपि प्रमादः । अति-
तेजस्विता स्लेवेदोद्गमे न हेतुः । किन्त्वयमर्थः - अतितेजस्वितावशात् यो जवनिरोधे रोषः ( तेज- स्विनों
नो वेगरोधे कृते रोष: स्वाभाविक एव ) तस्मात्प्रतिरोमकूपम्
( प्रतिरोमकूपात्) उद्गतानि ।
[^
5]F. अन्नोपमैव
नास्ति, उपमानान्तरं कीदृक् ? । स्वेदलवजाल- कानि मुक्ताफलानीव वर्षन्तमित्युत्प्रेक्षा ।
 
पाठा० -

 
[^
]G. रुचिर.
[^
]G. इव च.
[^
]G. रागानुरागेण .
[^
]G. तुरग .
[^
]G. शङ्काम् .
[^
]G. कूपात्समुद्ता; कूपात्समुद्गतानिः
.
[^
]G. परिचयाल्लग्नानि.
[^
]G. स्वेदजललव .
[^
]G. इन्द्रनीलपाद.