This page has not been fully proofread.

इन्द्रायुषः ]
 
पूर्वभागः ।
 
लशिखरेण कर्णयुगलेन विराजमानम्, उज्वलकनकशङ्खलारचितरश्मिकला पकलितया लाक्षा,
लोहितलम्बलोलसटासंतानया जलनिधिसंचरणलग्नविद्रुमपल्लवयेव शिरोधरयोपशोभितम्,
अतिकुटिलकनकपत्रलताप्रतानभङ्गुरेण पदे पदे रणितरत्नमालेन स्थूलमुक्ताफलप्रायेण तारा
गणेनेवे संध्यारागमरुणेना वालंकारेणा लंकृतम्, अश्वालंकारनिहितमरकत रत्नप्रभाश्यामाय-
मानदेहतया गगनतलनिपतितदिवसकररथ तुरङ्गमशामिवोपजनयन्तम् अतितेजस्वितया
जवनिरोधरोषवशात्प्रतिरोमकूपमुद्रतानि सागरपरिचयलग्नानि मुक्ताफलानीव स्वेदलवजाल
कानि वर्षन्तम्, इन्द्रनीलमणिपादपीठानुकारिभिरञ्जनशिलाघटितैरिवांनवरतपतनोत्पतनज-
विगतमांसतया समुत्कीर्णमिव यन्त्रकर्षितमिव वदनमाननमुद्वहन्तं धारयन्तम् । आननमण्डल मुखमण्डल
तत्र निहिताः स्थापिता येऽरुणमणयः पद्मरागरत्नानि तेभ्यः समुद्गतैर्निःसृतैरंशुकलापैर्दीप्ति समूहैरुपेतेन सहि-
तेनावसक्तानि लग्नानि रक्तचामराणि लोहितवालव्यजनानि यस्मिन्नेवंभूतेनेव निश्चलं स्थिरं शिखरमग्रं यस्
तेन कुर्णयुगलेन श्रवणद्वितयेन विराजमानं शोभमानम् । तस्य शृंङ्गारवर्णनद्वारा विशेषयन्नाह - उजव
लेति । उज्ज्वला निर्मला या कनक श्रृङ्खला सुवर्णशृङ्खला तया रचिता निर्मिता ये रश्मयोऽश्वानां संयमनाधों
रज्जवस्तेषां कलापस्तेन कलितया सहितया । लाक्षेति । लाक्षा जतु तल्लोहिता रक्ता लम्बा विस्तीर्णा
लोलाश्चपला या सटाः स्कन्धकेसरास्तस्याः संतानं यस्याः सा तया । जलनिधौ समुद्रे यत्संचरणं भ्रमणं तत्र
लग्ना आसक्ता विद्रुमपल्लवा: प्रवालकिसलया यस्यामेवंविधयेव शिरोधरया ग्रीवयोपशोभितं विराजितम् । अलं-
कारद्वारा विशेषयन्नाह - अतीति । अतिकुटिलातिवका या कनकपत्रलता सुवर्णपत्र भङ्गिस्तस्याः प्रतानं
समूहस्तेन भङ्गुरेण वॠण, पदे पदे रणिता शब्दिता रत्नमाला यस्मिन्स तेन । स्थूलमुक्ताफलानि प्रायो बाहु-
ल्येन सन्ति यस्मिन्नेवंभूतेनारुणेन रक्तेनाश्वालंकारेणालंकृतं भूषितम् । अलंकारस्यारुणत्वान्मुक्ताफलानां च
श्वेतत्वादुत्प्रेक्षामाह - तारेति । तारागणेन विभूषितं संध्यारागमिव । संध्यारागपक्षेऽरुणो गरुडाग्रजः प्रकृते
रक्तिमा । पुनरुपमानान्तरमाह - अश्वेति । अश्वालंकारे निहितानि स्थापितानि यानि मरकतरत्नान्यश्म
गर्भानि तेषां प्रभा कान्तिस्तया श्यामायमानः कृष्णतां समाचरमाणो देहो यस्य तस्य भावस्तत्ता तया गगन-
तलादाकाशतलान्निपतितो यो दिवसकरस्य सूर्यस्य रथतुरङ्गमः स्यन्दन हयस्तस्य शङ्कामारेकामुपजनयन्तमिवो-
स्पादयन्तमिव । सूर्यरथाश्वानां हरितत्वादिति भावः । अतितेजस्विनो भावोऽतितेजस्विता तया जवस्य वेगय
यो निरोधोऽन्तरान्तरा रुन्धैनं तस्माद्यो रोषः क्रोधस्तद्वशाच्चेति हेतुद्वयम् । प्रतिरोमकूपं प्रतिरोमरन्ध्रमुद्र-
तानि प्रादुर्भूतानि स्वेदलवजालकानि प्रस्खेदबिन्दुसमूहानि वर्षन्तं वृष्टिं कुर्वन्तम् । श्वेतत्वसाम्यादुपमानान्तर
माह - सांगरेति । सागरपरिचयात्समुद्रोत्पन्नत्वाल्लमानि मुक्ताफलानीव रसोद्भवानीव । शालिहोत्रोताः खुर-
पुषु गुणाः । तद्वारा विशेषयन्नाह - इन्द्रेति । इन्द्रनीलमणिनिर्मितं यत्पादपीठं पदासनं तदनुकारिभिस्तत्सा-
दृश्यधारिभिः । अतोऽञ्जनशिलाघटितैरिव श्यामशिलानिर्मितैरिवानवरतं निरन्तरं यत्पतनोत्पतनमुत्युत्यो त्य
 
-
 
टिप्प0 - 1 लाक्षावत लोहितः लम्बो लोलश्च सटासंतान: ( केसरसमूहः ) यस्या इति व्याख्योः
चिता । 2 अश्वाभरणे अतिकुटिलानां स्वर्णनिर्मितपत्राकाराणां लतानां समूहो लग्नः, अत एव वाणां
लतानां समूहवशात्तदाभरणमपि भङ्गुरं वक्रमस्तीत्याशयः । 3 रोधनमित्यर्थः । 4 अयमपि प्रमादः । अति-
तेजस्विता स्लेदोद्गमे न हेतुः । किन्त्वयमर्थः - अतितेजस्वितावशात् यो जवनिरोधे रोषः ( तेजस्विनों
वेगरोधे कृते रोष: स्वाभाविक एव ) तस्मात्प्रतिरोमकूपम् ( प्रतिरोमकूपात) उद्गतानि । 5 अन्नोपमैव
मस्ति, उपमानान्तरं कीदृक् ? । स्वेदलवजालकानि मुक्ताफलानीव वर्षन्तमित्युत्प्रेक्षा ।
 
पाठा० -१ रुचिर. २ इव च. ३ रागानुरागेण ४ तुरग ५ शङ्काम् ६ कूपात्समुद्रता; कूपात्समुद्गतानिः
७ परिचयालग्नानि. ८ स्वेदजललव ९ इन्द्रनीलपाद.