कादम्बरी /207
This page has not been fully proofread.
१७४
कादम्बरी ।
[ कथायाम्-
आपिबन्तमिव संमुखागतम खिलमाकाशम्, अतिनिष्टुरेण मुहुर्मुहुः प्रकम्पितोदररन्ध्रेण द्वेषा-
रवेण पूरितभुवनोदरविवरेण निर्भर्त्सयन्तमिवालीकवेगदुर्विदग्धं गरुत्मन्तम्, अतिदूरैमुन्न-
मता जवनिरोधस्फीत रोषघुरघुरायमाणघोरघोणेन शिरोभागेन निजदर्पवशादुल्लङ्घनार्थमाक-
लयन्तमिव त्रिभुवनम्, असितपीतहरितपाटलाभिराखण्डलंचापानुकारिणीभिर्लेखाभिः कैल्मा-
षितशरीरम्, आस्तीर्णविविर्धवर्ण कम्बलमिव कुञ्जरकलभम्, कैलासतटाघातधातुधूलि पाटल-
मिव हरवृषभम्, असुररुधिरपङ्कलेखालोहित सटमिव पार्वतीसिंहम्, रंहः संघातमिव मूर्ति-
मन्तम्, अनवरतपरिस्फुरत्प्रोथ पुँटोन्मुक्तसूत्कारेणा तिजवापीतमनिलमिव नासिकाविवरेणो-
द्वमन्तम् अन्तःस्खलितमुखरखली नखर शिखरक्षोभजन्मनो लालाजलभुवः फेर्नपल्लवानुदधि-
निवासपरिपीतामृतरसगण्डूषानिवोद्गिरन्तम्, अत्यायतमंतिनिर्मांसतया समुत्कीर्णमिव वदन-
मुद्रहन्तम्, आननैमण्डलनिहितारुणमणिसमुद्गतैरंशु कलापैरुपेते नाव सक्तरक्तचामरेणेव निश्च-
9
-
आपिबेति । संमुखागतमभिमुखागतमखिलं समग्रमाकाशं व्योमापिबन्तमिवास्वादयन्तमिव । निजजवेनेत्य-
ध्याहारः । अतीति । अतिनिष्टुरेणातिकठिनेन मुहुर्मुहुः प्रकम्पितमुदररन्ध्र जठरविवरं येनैवंभूतेन हेपारवेण
हेषाशब्देन । कीदृशेन । पूरितेति । पूरितं व्याप्तं भुवनोदरविवरं येन स तेन । अलीको वितथो यो वेगो
जयस्तेन दुर्विदग्धं मिथ्याभिमानिनं गरुत्मन्तं सौपर्णेयं निर्भर्त्सयन्तमिव तिरस्कारं कुर्वन्तमिव । क्रियास्वभा-
माह - अतीति । अतिदूर मतिशयेनोन्नमतोर्ध्वं कुर्वता शिरोभागेनोत्तमाङ्गप्रदेशेन । कीदृशेन । जस्
वेगस्य यो निरोधः स्खलना तेन स्फीतो बहुलो रोषः क्रोधस्तेन घुरघुरायमाणा घुरघुरेतिशब्दं कुर्वाणा घोरा
क्रूरा घोणा नासिका य(स्य ) स्मिन् स तेन । निजः स्वकीयो यो दर्पोऽहंकारः तद्वशात् उल्लङ्घनार्थमतिक्रम-
णार्थं त्रिभुवनं त्रिविष्टपमाकलयन्तमिव विचारयन्तमिव । पुनः प्रकारान्तरेण तमेव विशिनष्टि - असि
तेति । आखण्डलस्येन्द्रस्य यच्चापं धनुस्तदनुकारिणीभिरसितपीतहरितपाटलाभिर्लेखाभिः कल्माषितं कर्बु-
रितं शरीरं देहो यस्य स तम् । कर्बुरशरीरादेवोत्प्रेक्षामाह - आस्तीर्णेति । आस्तीर्ण आच्छादितो विवि-
धवर्णो विचित्ररागः कम्बलो रल्लको यस्मिन्नेतादृशं कुञ्जरकलभमिव । कैलासस्य रजताद्रेर्यस्तटाघातो वप्रप्र-
घातस्तस्य या धातुधूलिगैरिकक्षोदस्तया पाटलं श्वेतरक्तं हरवृषभमिवेश्वरधवलमिव । असुरस्य यो रुधिर-
पको रक्तकर्दमस्तस्य या लेखा ततिस्तया लोहिता रक्ताः सटाः केसरा यस्यैवंविधं पार्वतीसिंहमिव । हो
वेगस्तस्य संघात समूहमिव मूर्तिमन्तं देहधारिणम् । क्रियास्वभावमाह - अनवरतेति । अनवरतं निरन्तरं
परिस्फुरदितस्ततः प्रसरत्प्रोथो मुखाग्रं तस्य पुटादुन्मुक्तो यः सूत्कारोऽव्यक्तः शब्दस्तेनातिजवेन वेगेनापीतमा-
स्वादित मनिलमिव वायुमिव नासिकाविवरेण नासारन्ध्रेणोद्वमन्तं बहिर्निष्कासयन्तम् । द्रव्य स्वभावमाह-
अन्तरिति । अन्तर्मध्ये स्खलितं स्खलनां प्राप्तं मुखरं वाचालं यत्खलीनं कैवीयं तस्य खरं लोहकण्टकयुक्तं
यच्छिखरमग्रं तस्माद्यः क्षोभः परिश्रमस्तजैन्मोत्पत्तिर्येषां ताँल्लालाजलभूरुपादानं येषां तान्फेनपलवा-
न्फेनो मुखकफ उदधौ समुद्रे यो निवासोऽवस्थानं तत्र परिपीतो योऽमृतरसः पीयूषरसस्तस्य गण्डूषानिव
चुलुक/निवोद्गिरन्तं वमन्तम् । अत्यायतमतिविस्तीर्णम् । जातिस्वभावमाह - अतीति । अतिनिर्मेंसतया सर्वथा
-
टिप्प० – 1 उन्नमता ऊर्ध्वं गच्छता इत्येव व्याख्योचिता । सघुरघुरशब्दं शिरोभागस्योर्ध्वोनमनेन
गर्वात्रिभुवनमुल्लङ्घयितुं वितर्कयन्तमिवेत्युत्प्रेक्षा । 2 कविका, इत्यर्थः । 3 तस्मात् जन्म उत्पत्तिर्येषां
तानिति व्याख्योचिता । 4 लालाजलात् मुखस्रावजलात् भवन्ति ते लालाजलभुवः तानिति व्याख्या ।
पाठा० - १ उन्नमता च; अवनमता प्रतिक्षणमतिदूरमुन्नमता च; अवनमता प्रदक्षिणमतिदूरमुन्नमता च. २ माण-
घोणेन. ३ मुखेन. ४ निजजवदर्पवशात् ; निजजवदर्पावेशात् ५ कल्मिपित; कल्मपित. ६ आस्तीर्णविचित्र वर्णकम्बलम्;
आस्तीर्णकम्बलम्. ७ प्रोथोन्मुक्तफरकारेण पुढोन्मुक्तफूत्कारेण ८ फेनलवानुदधीनिवासय ९ निर्मासतमा २० गण्ड.
९