2023-12-17 10:58:19 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

इन्द्रायुधः ]
 
पूर्वभागः ।
 
4
 
एष खलु देवस्य पारसीकाधिपतिना त्रिभुवनाश्चर्यमिति कृत्वा [^१]'जलधिजलादुत्थितमेयोनिज-
मिदमश्वरत्नमासादितं मया महा- राजाधिरोहणयोग्यम्' इति संदिश्य प्रे[^२]प्रहितः । दृष्ट्वा [^३]च निवे-
दितं लक्षणविद्भिः– 'देव, यान्युच्चैःश्रवसः श्रूयन्ते लक्षणानि तैर- यमुपेतः । नैवंविधो भूतो
भावी वा तुरङ्गमः' इति । तदयमनुगृह्यता-
मधिरोहणेन । इदं च [^४]मूर्धाभिषिक्तपार्थिव कुलप्रसू-
तानां विन- योपपन्नानां शूराणामभिरूपाणां कै[^५]कलावतां च कुलक्रमागतानां राजपुत्राणां सहस्रं
[^६]परिचारार्थमनुप्रेषितं तुरङ्ग [^७]मारूढं द्वारि प्रणामलालसं प्रतिपालयति" । [^८]इत्यभिधाय विरतव-
चसि बलाहके चन्द्रापीड: पितुराज्ञां शिरसि कृत्वा नवजलधरध्वानगम्भी- रया गिरा 'प्रवे
श्यतामिन्द्रायुधः' इति निर्जिगमिषुरादिदेश ।
 

 

 

 
अथ वे[^९]वचनानन्तरमेव प्रवेशितम्, उभयतः खै[^१०]खलीनक-
कटकावलग्नाभ्यां पदे पदे कृता-
कुञ्चनप्रयत्नाभ्यां पुरुषाभ्यामव- कृष्यमाणम्, अतिप्रमाणम्, ऊर्ध्वकरपुरुषप्राप्य पृष्ठभागम्,
 
प्रो

 
[ टि ]-- प्रतो
ल्यां तिष्ठति । खलु निश्चयेन । एष इन्द्रायुधः पारसी-
काधिपतिना यवनाधीशेन देवस्य खास्वामिन-
स्त्रिभुवनाश्चर्यमिति कृत्वे- ति संदिश्येति कथयित्वा च प्रहितः प्रेषितः । इतिवाच्यमाह - इद- मश्वरत्नं मयासादितं
प्राप्तं महाराजस्य स्वामिनस्तारापीडस्याधिरो- हण आरोहणे योग्यं समुचितम् । अस्मिन्नर्थे हेतुमाह - जल-
धीति। जलधिजलात्समुद्रोदका दुत्थितमत एवायोनिजं पुंस्त्रीसंबन्धादनुत्प- न्नम् । दृष्ट्वा चेति । लक्षणविद्भिः
शालिहोत्रशास्त्रज्ञैर्दृष्ट्वा निरीक्ष्य । तमिति शेषः । निवेदितं कथितम् । राज्ञ इति शेषः । देव हे स्वामिन्,
यान्युच्चैःश्रवस इन्द्रतुरङ्गमस्य लक्षणानि चिह्नानि श्रूयन्त आकर्ण्यन्ते तैर्लक्षणैरयमिन्द्रायुध उपेतः सहितः ।
एवंविध एतादृ- शस्तुरङ्गमो न भूतः पूर्वं नासीन्न भावी भविष्यति नाग्रे । तदिति हेत्वर्थे । अयमश्वोऽधिरोहणे-
नानुगृह्यतामनुग्रहविषयीक्रियताम् । इदं राजपुत्राणां सहस्रं परिचारार्थं सेवार्थमनुप्रेषितम् । तुरङ्गमप्रेषणा- नन्तरं
पश्चात्प्रेषितमिति भावः । एतदेव विशिष्टि - मूर्धाभिषि [^1]क्ता ये पार्थिवा राजानस्तेषां कुलं वंशस्तत्र प्रसृताना-
मुत्पन्नानां, विनयेन मर्यादयोपपन्नानां सहितानाम्, शूराणां साहसगुणोपेतानाम्, अभि- रूपाणां मण्डितानाम्,
कलावतां विज्ञानवताम्, कुलक्रमा- गतानां परम्परयागतानाम्, तुरङ्गमारूढमश्वाधिरूढं द्वारि प्रतोल्यां प्रणामला-
लसं प्रणामो नमस्कारस्तत्र लालसं कृतस्पृहं प्रतिपालयति कालक्षेपं करोति । इत्यभिधायेत्युक्त्वा बलाहके
विरतवचसि सति चन्द्रापीडः पितुराज्ञां जनकनिदेशं शिरसि मस्तके कृत्वारोप्य । नवेति । नवो यो जल-
धरो मेघस्तस्य यो ध्वानः शब्दस्तद्वद्गम्भीरया मन्द्रया गिरा वाचा ततो निर्जिगमिषुर्निर्गन्तुमिच्छुरिन्द्रायुधः
प्रवेश्य- तामानीयतामित्यादिदेशाज्ञां दत्तवान् ।
 

 
अथ एतद्वचनानन्तरमेव प्रवेशितं प्रवेशं कारितमिन्द्रायुधनामान-
मश्वमद्राक्षीदिति दूरेणान्वयः । तत्राश्वस्य
यथासंभवं द्रव्यजातिभिः स्वभावं वर्णयितुं तद्विशेषणान्याह-खलीनेति । खलीनकं मुखयन्त्रणं

तस्या कटके वलये तत्रावलग्नाभ्यामासक्ताभ्यां पदे पदे प्रतिपदं कृतं विहितमाकुञ्चन आकर्षणे प्रयत्नो याभ्या-
मेवंविधाभ्यां पुरुषा-
भ्यामुभयतोऽवकृष्यमाणमितस्ततो विक्षिप्यमाणम् । अतिप्रमाण- मतिमहान्तम् । ऊर्ध्वमुच्चैः
करो यस्यैवंभूतेन पुरुषेण प्राप्यः स्प्रष्टुं योग्यः पृष्ठभागो यस्य स तम् । अस्य व्यादानस्वभावमाह-
टिप्प० –

 
[^
1]F. ब्राह्मणेभ्यः क्षत्रियासु जाता मूर्धाभिषिक्ताः । यथाविधि राज्यासनेऽभिषिक्ता वा मूर्धा-
भिषिक्ता इत्यपि संप्रदायः ।
 
पाठा० -

 
[^
]G. जलनिधि.
[^२]G.
प्रहितम् .
[^
]G. निवेदितं च .
[^
]G. मूर्षाधाभिषिक्तानाम् .
[^
]G. कुलवताम् .
[^
]G. परिवारार्धम्.

[^
]G. अधिरूम्.
[^
]G. अभिधाय विरराम.
[^
]G. वचनान्तम्.
[^
१०]G. खलीनकथनक.