कादम्बरी /206
This page has not been fully proofread.
इन्द्रायुधः ]
पूर्वभागः ।
4
एष खलु देवस्य पारसीकाधिपतिना त्रिभुवनाश्चर्यमिति कृत्वा 'जलधिजलादुत्थितमेयोनिज-
मिदमश्वरत्नमासादितं मया महाराजाधिरोहणयोग्यम्' इति संदिश्य प्रेहितः । दृष्ट्वा च निवे-
दितं लक्षणविद्भिः– 'देव, यान्युचैःश्रवसः श्रूयन्ते लक्षणानि तैरयमुपेतः । नैवंविधो भूतो
भावी वा तुरङ्गमः' इति । तदयमनुगृह्यतामधिरोहणेन । इदं च मूर्धाभिषिक्तपार्थिव कुलप्रसू-
तानां विनयोपपन्नानां शूराणामभिरूपाणां कैलावतां च कुलक्रमागतानां राजपुत्राणां सहस्रं
परिचारार्थमनुप्रेषितं तुरङ्गमारूढं द्वार प्रणामलालसं प्रतिपालयति" । इत्यभिधाय विरतव-
चसि बलाहके चन्द्रापीड: पितुराज्ञां शिरसि कृत्वा नवजलधरध्वानगम्भीरया गिरा 'प्रवे
इयतामिन्द्रायुधः' इति निर्जिगमिषुरादिदेश ।
।
❤
अथ वेचनानन्तरमेव प्रवेशितम्, उभयतः खैलीनककटकावलग्नाभ्यां पदे पदे कृता-
कुञ्चनप्रयत्नाभ्यां पुरुषाभ्यामवकृष्यमाणम्, अतिप्रमाणम्, ऊर्ध्वकरपुरुषप्राप्य पृष्ठभागम्,
प्रोल्यां तिष्ठति । खलु निश्चयेन । एष इन्द्रायुधः पारसीकाधिपतिना यवनाधीशेन देवस्य खामिन-
स्त्रिभुवनाश्चर्यमिति कृत्वेति संदिश्येति कथयित्वा च प्रहितः प्रेषितः । इतिवाच्यमाह - इदमश्वरत्नं मयासादितं
प्राप्तं महाराजस्य स्वामिनस्तारापीडस्याधिरोहण आरोहणे योग्यं समुचितम् । अस्मिन्नर्थे हेतुमाह - जल-
धीति। जलधिजलात्समुद्रोदका दुत्थितमत एवायोनिजं पुंस्त्रीसंबन्धादनुत्पन्नम् । दृष्ट्वा चेति । लक्षणविद्भिः
शालिहोत्रशास्त्रज्ञैर्दृष्ट्वा निरीक्ष्य । तमिति शेषः । निवेदितं कथितम् । राज्ञ इति शेषः । देव हे स्वामिन,
यान्युच्चैःश्रवस इन्द्रतुरङ्गमस्य लक्षणानि चिह्नानि श्रूयन्त आकर्ण्यन्ते तैर्लक्षणैरयमिन्द्रायुध उपेतः सहितः ।
एवंविध एतादृशस्तुरङ्गमो न भूतः पूर्व नासीन्न भावी भविष्यति नाग्रे । तदिति हेत्वर्थे । अयमश्वोऽधिरोहणे-
नानुगृह्यतामनुग्रहविषयीक्रियताम् । इदं राजपुत्राणां सहस्रं परिचारार्थं सेवार्थमनुप्रेषितम् । तुरङ्गमप्रेषणानन्तरं
पश्चात्प्रेषितमिति भावः । एतदेव विशिष्टि - मूर्धाभिषिक्ता ये पार्थिवा राजानस्तेषां कुलं वंशस्तत्र प्रसृताना-
मुत्पन्नानां, विनयेन मर्यादयोपपन्नानां सहितानाम्, शूराणां साहसगुणोपेतानाम्, अभिरूपाणां मण्डितानाम्,
कलावतां विज्ञानवताम्, कुलक्रमागतानां परम्परयागतानाम्, तुरङ्गमारूढमश्वाधिरूढं द्वारि प्रतोल्यां प्रणामला-
लसं प्रणामो नमस्कारस्तत्र लालसं कृतस्पृहं प्रतिपालयति कालक्षेपं करोति । इत्यभिधायेत्युक्त्वा महके
विरतवचसि सति चन्द्रापीडः पितुराज्ञां जनकनिदेशं शिरसि मस्तके कृत्वारोप्य । नवेति । नवो यो जल-
धरो मेघस्तस्य यो ध्वानः शब्दस्तद्वद्गम्भीरया मन्द्रया गिरा वाचा ततो निर्जिगमिषुर्निर्गन्तुमिच्छुरिन्द्रायुधः
प्रवेश्यतामानीयतामित्यादिदेशाज्ञां दत्तवान् ।
अथ एतद्वचनानन्तरमेव प्रवेशितं प्रवेशं कारितमिन्द्रायुधनामा नमश्वमद्राक्षीदिति दूरेणान्वयः । तत्राश्वस्य
यथासंभवं द्रव्यजातिभिः स्वभावं वर्णयितुं तद्विशेषणान्याह-खलीनेति । खलीनकं मुखयन्त्रणं
तस्या कटके वलये तत्रावलग्नाभ्यामासक्ताभ्यां पदे पदे प्रतिपदं कृतं विहितमाकुञ्चन आकर्षणे प्रयत्नो याभ्या-
मेवंविधाभ्यां पुरुषाभ्यामुभयतोऽवकृष्यमाणमितस्ततो विक्षिप्यमाणम् । अतिप्रमाणमतिमहान्तम् । ऊर्ध्वमुच्चैः
करो यस्यैवंभूतेन पुरुषेण प्राप्यः स्प्रष्टुं योग्यः पृष्ठभागो यस्य स तम् । अस्य व्यादानस्वभावमाह-
टिप्प० – 1 ब्राह्मणेभ्यः क्षत्रियासु जाता मूर्धाभिषिक्ताः । यथाविधि राज्यासनेऽभिषिक्ता वा मूर्धा-
भिषिक्ता इत्यपि संप्रदायः ।
पाठा० -१ जलनिधि. १ प्रहितम् ३ निवेदितं च ४ मूर्षाभिषिक्तानाम् ५ कुलवताम् ६ परिवारार्धम्.
७ अधिरूडम्. ८ अभिधाय विरराम. ९ वचनान्तम्. १० खलीनकथनक.