2023-12-17 10:42:26 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शिक्षिताः सकला: कलाः । [^१]गतः सर्वा [^२]स्वायुधविद्यासु परां प्रतिष्ठाम् अनुमतोऽसि [^३]विनिर्गमाय विद्यागृहात्सर्वाचार्यैः । उप- गृहीतशिक्षं गन्धगजकुमारकमिव [^४]वारिविनिर्गतमवगतसकल-
कला [^५]कलापं पौर्णमासीशशिनमिव [^६]नवोद्गतं पश्यतु त्वां जनः । व्रजन्तु सफलतामतिचिरदर्शनोत्कण्ठितानि लोकलोचनानि । दर्शनं प्रति ते समुत्सुकान्यतीव सर्वाण्यन्तःपुराणि । अय [^७]म- त्र भवतो दशमः [^८]संवत्सरो विद्यागृहमधिवसतः । प्रविष्टोऽसि षष्ठमनुभवन्वर्षम् । एवं संपि [^९]ण्डिते [^१०]नामुना षोडशेन प्रवर्धसे । तदद्यप्रभृति निर्गत्य दर्शनोत्सुकाभ्यो दत्त्वा [^११]दर्शन-
म [^१२]खिलमातृभ्योSभिवाद्य च [^१३]गुरूणामपगतनियन्त्रणो यथासुखमनुभव राज्यसुखानि नवयौवनललितानि च । संमानय राजलोकम् । [^१४]पूजय द्विजातीन् । परिपालय प्रजाः । आनन्द-य बन्धुवर्गम् । अयं [^१४]च त्रिभुवनैकरत्नमनिलगरुडसमजव इन्द्रायुधनामा तुरङ्गमः प्रेषितो महाराजेन द्वारि तिष्ठति ।
 
[ टि ]-- शास्त्राणि कामन्दकीप्रभृतीनि । सकलाः समग्राः कलाः शिक्षिता अभ्यस्ताः । सर्वास्वायुधविद्यासु धनुरादिविद्यासु पराम- निर्वचनीयस्वरूपां प्रतिष्ठां महत्त्वं गतः प्राप्तः । विद्यागृहात्कलाभ्य- सनमन्दिराद्विनिर्गमाय निःसरणाया-
नुमतोऽनुज्ञातः । न केवलं महा- राजस्यानुज्ञामात्रं किंतु गृहीतसकलकलाकलापोऽयमित्याचार्यैरप्य- नुमतोऽसि
उपगृहीत शिक्षमुपगृहीता गुरोः सकाशाच्छिक्षा शास्त्रा- भ्यासादिरूपा येनैवंभूतं त्वां जनो लोकः पश्यतु विलोक-
यतु क- स्मात्कमिव । वारी गजबन्धनी तस्माद्विनिर्गतं बहिरागतं गन्धग-
जकुमारकमिव । अत्र गन्धशब्दोपा-
दाने हस्तिनो मुख्यत्वं सूचि- तम् । पुनरुपमानान्तरं प्रदर्शयन्नाह - सकलेति । [^1]अवगता ज्ञाताः प्राप्ताश्च
सकलाः समग्रा याः कलाः षोडश द्वासप्ततिर्वा तासां कलापः समूहो येन स तम् । नवोद्गतं नूतनोदितं
पौर्णमासी- शशिनमिव राकाचन्द्रमिव । अतिचिरेण कालेन यद्दर्शनमीक्षणं तत्रोत्कण्ठितानि सोत्कलिकानि
लोकलोचनानि जननेत्राणि सफ- लतां साफल्यं व्रजन्तु । गच्छन्तु । ते तव दर्शनं विलोकनं प्रति सर्वाण्यन्तः-
पुराण्यतीव समुत्सुकान्यतिसोत्कण्ठितानि । अत्रेति । अत्र विद्यागृहेऽयं दशमः । संवत्सरो वर्षो भवत-
स्तव बिविद्यागृहमधि- वसतोऽधितिष्ठतः । अत्र 'अधिशीङ्स्था साम्—' इत्याधारे द्वितीया । अथ च षष्ठं
वर्षमनुभवंस्त्वं प्रविष्टोऽसि । विद्यागृहमिति शेषः । एव- मनेन प्रकारेण संपिण्डितेन संकलितेनामुना षोड-
दो
शेन वर्षेण त्वं प्रवर्धसे वृद्धिं गच्छसि । तदिति हेत्वर्थे । कृतकृत्यत्वादिति भावः । अद्यप्रभृतीतो निर्ग
त्य दर्शनोत्सुकाभ्योऽखिलमातृभ्यो दर्शनं दत्वा- भिवाद्य च पादग्रहणं कृत्वा गुरूणामपगतं नियन्त्रणं निरोधो यस्यै-
वंभूतो यथासुखं राज्यसुखानि नवयौवनललितानि च विलसितान्य-
नुभव साक्षात्कुरु । संमानय राजलोकम् ।
यथायोग्यं संमानदानेन राजलोकं वशीकुर्वित्यर्थः । द्विजातीन्ब्राह्मणान्पूजय । वस्त्रादिप्रदा- नेनाराधयेत्यर्थः ।
प्रजाः प्रकृतीन् (तीः) परिपालय रक्षां कुरु । बन्धुवर्गं स्वजनवर्गमानन्दय प्रमोदय । अयं चेति । अयं प्रत्य
क्षोप- लभ्यमानस्त्रिभुवने त्रिविष्टप एकमद्वितीयं रत्नम् । स्वजातिषु सर्वो- त्कृष्टमित्यर्थः । आविष्टलिङ्गत्वान्नपुंसक-
त्वम् 'वेदाः प्रमाणम्' इतिवत् । अनिलो वायुः गरुडो गरुत्मान्, तयोः समः सदृशो जवो वेगो यस्य स
तथा । इन्द्रायुध इति नाम यस्यैवंविधस्तुरङ्गमोऽश्वो महाराजेन स्वामिना प्रेषितः प्रहितो द्वारि विद्यागृह -
 
टिप्प: -[^1]F. 'अधिगतसकलकलाकलापम्' इत्येव पाठः । अधिगतः सकलानां ( षोडशानाम् )
कलानां कलापो येन तादृशः पूर्णमासी- चन्द्रः । अधिगतः सकलानां चतुःषष्टिकलानां कलापो येन तादृश-
चन्द्रापीड इति च व्याख्या । अवगत इति ज्ञातार्थपाठस्तु चन्द्रापीड- पक्ष एव समन्वयेत् ।
 
1
 
पाठा० -
[^]G. गतोसि.
[^
]G. सर्वायुध.
[^
]G. निर्गमाय.
[^
]G.वारिबन्दाद्विनिर्गतसकल; वारिबन्धाद्विनिर्गतमधिगतसकल.
[^]G. कलापकम्.
[^
]G.द्गतं.
[^
]G. अत्रभवतः .
[^
]G. वत्सर: .
[^
]G. आपीडितेन.
[^
१०]G. अधुना.
[^
११]G. अखिलाम्भ्यो भातुमातृभ्यः
.
[^
२]G. मानुतृकाभ्य:.
[^
३]G. गुरुनपगत.
[^
१४]G. परिपूजय.
[^
१५]G. च ते.
 
0
 
a