2023-12-17 07:55:24 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१७२
 
कादम्बरी ।
 
[ कथायाम्-
शिक्षिताः सकला: कलाः । [^१]गतः सर्वा [^२]स्वायुध विद्यासु परां प्रतिष्ठाम् अनुमतोऽसि विनिर्ग-
[^३]विनिर्गमाय विद्यागृहात्सर्वाचार्यैः । उप- गृहीतशिक्षं गन्धगजकुमारकमिव [^४]वारिवि निर्गतमवगतसकल-

कलाकै [^५]कलापं पौर्णमासीशशिनमिव [^६]नवोद्गतं पश्यतु त्वां जनः । व्रजन्तु सफलतामतिचिरदर्श-
नोत्कण्ठितानि लोकलोचनानि । दर्शनं प्रति ते समुत्सुकान्यतीव सर्वाण्यन्तःपुराणि । अयमन्त्र [^७]म-
त्र भवतो दशमः [^८]संवत्सरो विद्यागृहमधिवसतः । प्रविष्टोऽसि षष्ठमनुभवन्वर्षम् । एवं संपि [^९]ण्डिते-
नी
[^१०]नामुना षोडशेन प्रवर्धसे । तदद्यप्रभृति निर्गत्य दर्शनोत्सुकाभ्यो दत्त्वा [^११]दर्शनमर्-
म [^१२]
खिलमातृभ्यो-
Sभिवाद्य च [^१३]गुरूणामपगतनियन्त्रणो यथासुखमनुभव राज्यसुखानि नवयौवनललितानि च ।
संमानय राजलोकम् । [^१४]पूजय द्विजातीन् । परिपालय प्रजाः । आनन्द-य बन्धुवर्गम् । अयं [^१४]
त्रिभुवनैकरत्नमनिलगरुडसमजव इन्द्रायुधनामा तुरङ्गमः प्रेषितो महाराजेन द्वारि तिष्ठति ।
 

 
[ टि ]--
शास्त्राणि कामन्दकीप्रभृतीनि । सकलाः समग्राः कलाः शिक्षिता अभ्यस्ताः । सर्वास्वायुधविद्यासु धनुरादिविद्यासु
पराम- निर्वचनीयस्वरूपां प्रतिष्ठां महत्त्वं गतः प्राप्तः । विद्यागृहात्कलाभ्य- सनमन्दिराद्विनिर्गमाय निःसरणाया-

नुमतोऽनुज्ञातः । न केवलं महाराजस्यानुज्ञामात्रं किंतु गृहीतसकलकलाकलापोऽयमित्याचार्यैरप्यनुमतोऽसि ।

उपगृहीत शिक्षमुपगृहीता गुरोः सकाशाच्छिक्षा शास्त्राभ्यासादिरूपा येनैवंभूतं त्वां जनो लोकः पश्यतु विलोक-

यतु कस्मात्कमिव । वारी गजबन्धनी तस्माद्विनिर्गतं बहिरागतं गन्धगजकुमारकमिव । अत्र गन्धशब्दोपा-

ने हस्तिनो मुख्यत्वं सूचितम् । पुनरुपमानान्तरं प्रदर्शयन्नाह - सकलेति । अवगता ज्ञाताः प्राप्ताश्च

सकलाः समग्रा याः कलाः षोडश द्वासप्ततिर्वा तासां कलापः समूहो येन स तम् । नवोद्गतं नूतनोदितं

पौर्णमासीशशिनमिव राकाचन्द्रमिव । अतिचिरेण कालेन यद्दर्शनमीक्षणं तत्रोत्कण्ठितानि सोत्कलिकानि

लोकलोचनानि जननेत्राणि सफलतां साफल्यं व्रजन्तु । गच्छन्तु । ते तव दर्शनं विलोकनं प्रति सर्वाण्यन्तः-

पुराण्यतीव समुत्सुकान्यतिसोत्कण्ठितानि । अत्रेति । अत्र विद्यागृहेऽयं दशमः । संवत्सरो वर्षो भवत-

स्तव बिद्यागृहमधिवसतोऽधितिष्ठतः । अत्र 'अधिशीस्था साम्—' इत्याधारे द्वितीया । अथ च षष्ठं

वर्षमनुभवंस्त्वं प्रविष्टोऽसि । विद्यागृहमिति शेषः । एवमनेन प्रकारेण संपिण्डितेन संकलितेनामुना षोड-

दोन वर्षेण त्वं प्रवर्धसे वृद्धिं गच्छसि । तदिति हेत्वर्थे । कृतकृत्यत्वादिति भावः । अद्यप्रभृतीतो निर्गय

दर्शनोत्सुकाभ्योऽखिलमातृभ्यो दर्शनं दत्वाभिवाद्य च पादग्रहणं कृत्वा गुरूणामपगतं नियन्त्रणं निरोधो यस्यै-

वंभूतो यथासुखं राज्यसुखानि नवयौवनललितानि च विलसितान्यनुभव साक्षात्कुरु । संमानय राजलोकम् ।

यथायोग्यं संमानदानेन राजलोकं वशीकुर्वित्यर्थः । द्विजातीन्ब्राह्मणान्पूजय । वस्त्रादिप्रदानेनाराधयेत्यर्थः ।

प्रजाः प्रकृतीन् (तीः) परिपालय रक्षां कुरु । बन्धुवर्ग स्वजनवर्गमानन्दय प्रमोदय । अयं चेति । अयं प्रत्य

क्षोपलभ्यमानस्त्रिभुवने त्रिविष्टप एकमद्वितीयं रत्नम् । स्वजातिषु सर्वोत्कृष्टमित्यर्थः । आविष्टलिङ्गत्वान्नपुंसक-

त्वम् 'वेदाः प्रमाणम्' इतिवत् । अनिलो वायुः गरुडो गरुत्मान्, तयोः समः सदृशो जवो वेगो यस्य स

तथा । इन्द्रायुध इति नाम यस्यैवंविधस्तुरङ्गमोऽश्वो महाराजेन स्वामिना प्रेषितः प्रहितो द्वारि विद्यागृह -
 

 
टिप्प: -1 'अधिगतसकलकलाकलापम्' इत्येव पाठः । अधिगतः सकलानां ( षोडशानाम् )

कलानां कलापो येन तादृशः पूर्णमासीचन्द्रः । अधिगतः सकलानां चतुःषष्टिकलानां कलापो येन तादृश-

चन्द्रापीड इति च व्याख्या । अवगत इति ज्ञातार्थपाठस्तु चन्द्रापीडपक्ष एव समन्वयेत् ।
 

 
1
 

 
पाठा० - १ गतोसि. २ सर्वायुध. ३ निर्गमाय. ४ वारिबन्दाद्विनिर्गतसकल; वारिबन्धाद्विनिर्गतमधिगतसकल.

५ कलापकम्. ६ उगतं. ७ अत्रभवतः ८ वत्सर: ९ आपीडितेन. १० अधुना. ११ अखिलाम्यो भातुभ्यः•

११ मानुकाभ्य:० ११ गुरुनपगत. १४ परिपूजय. १५ च ते.
 

 
0
 

 
a