कादम्बरी /204
This page has not been fully proofread.
तारापीडस्य गृहागमनादेश: ]
पूर्वभागः ।
रथैः सहापूर्यतोरुदण्डद्वयम् । अरिजनेन सह तनिमानमभजत मध्यभागः । त्यागेन सह
प्रथिमानमाततान नितम्बभागः । प्रतापेन सहारुरोह रोमराजिः । अहितकलनालकलताभिः
सह प्रलम्बतामुपययौ भुजयुगलम् । चरितेन सह धवलतामभजत लोचनयुगलम् । आज्ञया
सह गुरुर्बभूव भुजशिखरदेशः । स्वरेण सह गम्भीरतामाजगाम हृदयम् ।
एवं च क्रमेण समारूढ यौवनारम्भं परिसमाप्तस मैग्र कलाविज्ञानमधीताशेषविद्यं चावगम्या-
नुमोदितमा चार्यैश्चन्द्रापीडमानेतुं राजा बलाधिकृतं बलाहकनामानमाहूय बहुतुरगबलपदाति-
परिवृतमतिप्रशस्तेऽहनि प्राहिणोत् । स गत्वा विद्यागृहं द्वाः स्थैः समावेदितः प्रविश्य क्षितितला-
वॅलम्बितचूडामणिना शिरसा प्रणम्य स्खभूमिसमुचिते राजसमीप इव सविनयमासने राजपु-
त्रानुमतो न्यषीदत् । स्थित्वा च मुहूर्तमात्रं बलाहकश्चन्द्रापीडमुपसृत्य दर्शितविनयो व्यजि-
ज्ञपत् – "कुमार, महाराज: समाज्ञापयति- 'पूर्णा नो मनोरथाः । अधीतानि शाखाणि ।
'
S
a
महत्त्वमाततान विस्तारमवाप । 'तनु विस्तारे' लिटि रूपम् । प्रतापेन कोशदण्डप्रसवतेजसा सह रोमराजि -
स्तनूरुहश्रेणिरारुरोहारूढा बभूव । 'रुह जन्मनि' इत्यस्य लिटि रूपम् । अहितेति । अहितकलत्राणां शत्रु-
स्त्रीणामलकलताभिः केशलताभिः सह भुजयुगलं बाहुयुग्मं प्रलम्बतां दीर्घतामुपययौ प्राप । चरितेना-
चारेण सह लोचनयुगलं नेत्रयुग्मं धवलतां शुंभ्रतामभजत प्रापत् । आज्ञया निर्देशेन सह भुजशिखरदेशः
स्कन्धप्रदेशः । 'अंसो भुजशिरः स्कन्धे' इति कोशः । गुरुर्महान्बभूवाभूत् । खरेण शब्देन सह गम्भीरतां
गाम्भीर्यतां हृदयं खान्तमाजगामागमत् यद्यपि लक्ष्म्या विस्तारस्य मनोरथेषु पूर्णत्वस्यैवमरिजने कृशत्वादेः
स्वस्ववाक्यादेव लाभेऽपि सातिशयत्वं व्यङ्ग्यम् ।
एवमिति । एवं पूर्वोक्त प्रकारेण समारूढः प्राप्तो यौवनारम्भो येन स तम् । परिसमाप्तं समग्रकलाविज्ञानं
यस्य स तम् । अधीता अशेषविद्या येनैवंभूतं चन्द्रापीडमवगम्य ज्ञात्वाचार्यैरध्यापकैरनुमोदितं श्लाधितम् ।
अथ राजा चन्द्रापीडमानेतुं बलेन धाम्नाधिकृतं सहितं बलाहकनामानं पुरुषभृत्यमाहूयाह्वानं कृत्वा बहवो ये
तुरगा अश्वास्तेषां बलं साधनं पदातिः ( तयः ) पत्ति (त्तय स्ताभ्यां परिवृतं सहितमतिप्रशस्तेऽतिशोभनेऽहनि
दिने प्राहिणोत्प्रेषयामास । सेति । स बलाहको विद्यागृहं गत्वा द्वाः स्थैर्द्वारपालकैः समावेदितो निवे-
दितः प्रविश्य प्रवेशं कृत्वा क्षितितले वसुधापीठेऽवलम्बित आश्रितः चूडामणिः शिरोमणिर्यस्यैवंविधेन .
शिरसोत्तमाङ्गेन प्रणम्य नमस्कृत्य स्वभूमिसमुचिते स्वस्य भूमौ यत्समुचितं योग्यं तस्मिन्नासने विष्टरे राजपुत्रेण
नृपपुत्रेणानुमतोऽनुज्ञातो राजसमीप इव नृपसंनिधाविव सविनयं यथा स्यात्तथा न्यषीदत्तस्थौ । स्थित्वा
चेति । मुहूर्तमात्रं स्थित्वावस्थानं कृत्वा बलाहकश्चन्द्रापीडमुपसृत्य समीपे गत्वा दर्शितः प्रकटीकृतो विनयः
सेवकार्थो येनैवंभूतो व्यजिज्ञपद्विज्ञापनां चकार । हे कुमार, महाराजस्तारापीड: समाज्ञापयत्याज्ञां ददाति ।
तदेवाह - पूर्णेति । नोऽस्माकं मनोरथाश्चिन्तितानि पूर्णाः संपूर्णाः जाता इति शेषः । अधीतानि पठितानि
टिप्प० - 1 बाहुयुग्मं प्रलम्बतां दीर्घताम्, शत्रुस्त्रीणाम् अलकलता लतावल्लम्बमानाः केशाश्च प्रल-
म्बतां लम्बितताम् ( भाविभर्तृविरहेण असंयमनातू ) उपययौ , इत्यर्थः । 2 नेत्रयुग्मं धवलताम्, भा.
चारश्च बाल्यचापल्यदोषराहित्यरूपं स्वच्छत्वमभजत । 3 अंसदेशो विशालः, श्राज्ञा च गुरुः गौरववाहिनी
सर्वेषां शिरोधार्येत्यर्थः । 4 बलाधिकृतं सेनाध्यक्षमित्यर्थः । अहो टीकाकारस्य बुद्धिः ! । 5 स्वोचिंता
या भूमि: ( स्थानम्, राजपुत्रस्य वामपार्श्वम्) तत्र समुचिते इत्यर्थः ।
• पाठा० - १ शिखरदेशे २ एवं क्रमेण ३ सकलं. ४ बृहत्तरग ५ द्वारपैः ६ प्रवेशितः ७ विलम्बित;
चुम्बित ८ व्यजिज्ञापयत्.