This page has not been fully proofread.

१७०
 
कादम्बरी ।
 
[ कथायाम्-
नासगौरवेण सहपांसुक्रीडनतया सहसंवृद्धतया च सर्वविश्रम्भस्थानं द्वितीयमिव हृदयं वैश-
स्पायनः परं मित्रमासीत् । निमेषमपि तेन विना स्थातुमेकाकी न शशाक । वैशम्पायनोऽपि
तमुष्णकरमिव वासरोऽनुगच्छन्न क्षणमपि विरहयांचकार ।
 
एवं तस्य सर्वविद्यापरिचय माचरतश्चन्द्रापीडस्य त्रिभुवन विलोभनीयोऽमृतरस इव सागर-
स्य, सकललोक है दयानन्दजननश्चन्द्रोदय इव प्रदोषस्य, बहुविधरागविकारभङ्गुरः सुरधनु:-
कलाप इव जलघरसमयस्य, मकरध्वजायुधभूतः कुसुमप्रसव इव कल्पपादपस्य, अभिनवा-
भिव्यज्यमानरागरमणीयः सूर्योदय इव कमलवनस्य, विविधलास्य विलासयोग्यः कलाप इव
शिखण्डिनो यौवनारम्भः प्रादुर्भवन्रमणीय स्थापि द्विगुणां रमणीयतां पुपोष । लब्धावसरः
सेवक इव निकटीबभूवास्य मन्मथः । लक्ष्म्या सह वितस्तार वक्षःस्थलम् । बन्धुजनमनो-
संस्तवस्तत्कृतबहुमानेन संमानेन, शुकनासस्य गौरवेण पूज्यत्वेन, सह सार्धं यत्पांसुना धूल्या क्रीडनं खेलनं तस्य
भावस्तत्ता तया, सह सार्धं संवृद्धः संवर्धितस्तस्य भावस्तत्ता तया । चकारो हेतुसमुच्चयार्थः । मित्रं विशेषय-
लाह- सर्वेति । सर्वो यो विम्भो विश्वासस्तस्य स्थानमाश्रयो द्वितीयं हृदयमिव । एतेन सर्वथाभेदो दर्शितः ।
निमेषमप्यभिचलनमात्रमप्येकाकी तेन वैशम्पायनेन बिना स्थातुं न शशाक न समर्थो बभूव । वैशम्पायनो-
•ऽप्युष्णकर सूर्य वासर इव दिवस इव तं चन्द्रापीडमनुगच्छन्पश्चाद्वजन्क्षणमप्यक्षिस्पन्दनमात्रमपि न विरहयां-
चकार न विरक्तो बभूव ।
 
एवमिति । एवं पूर्वोक्त प्रकारेण तस्य चन्द्रापीडस्य सर्वविद्यापरिचयं कलादिकाभ्यासमाचरतः कुर्वतः ।
त्रिभुवनेति । त्रयाणां भुवनानां समाहारस्त्रिभुवनं तस्य विलोभनीयो लोभजनको यौवनारम्भो यौवनं बाल्या -
त्परं वयस्तस्यारम्भः प्रादुर्भवप्रकटीभवन् रमणीयस्यापि मनोहरस्यापि द्विगुणां पूर्वतो द्विभागाधिकां रमणी-
यतां शोभातिरेकैतां पुपोष । कीदृशः सकललोकानां समग्रजनानां हृदयस्य स्वान्तस्यानन्दजननः प्रमोदोत्पा-
दकः । कस्येव । सागरस्य समुद्रस्यामृतरस इव पीयूषद्रव इव । प्रदोषस्य यामिनीमुखस्य चन्द्रोदय इव । जल-
'धरसमयस्य मेघकालस्य सुरधनुःकलाप इन्द्रचापसमूह इव, बहुविधा अनेकप्रकारा ये रागास्तेषां ये विकारा
बिकृतयस्तैङ्कुरो वकः । उभयोर्विशेषणम्, यौवनारम्भस्याप्येतादृशरूपत्वात् । कल्पपादपस्य पारिजातस्य कुसु-
'मप्रसव इव पुष्पोद्गम इव मकरध्वजस्य कंदर्पस्यायुधभूतः । शस्त्रभूतः । उभयोर्विशेषणम्, द्वयोरपिं कामोद्दी-
'पकत्वात् । अभीति । अभिनवो नूतनोऽभिव्यज्यमानः प्रकटी क्रियमाणो यो रागस्तेन रमणीयो मनोहरः
इदमपि द्वयोर्विशेषणम् । उभयत्र रागोदयसद्भावात् । कमलवनस्य सूर्योदय इव । विविधो यो लास्यविलासो
नृत्यविलासस्तस्य योग्य उचितः । उभयोर्विशेषणम् । शिखण्डिनो मयूरस्य कलाप इव प्रचलाक ईव । अस्य
· चन्द्रापीडस्य लब्धावसरः प्राप्त प्रस्तावः सेवक इव भृत्य इव मन्मथः कंदर्पो निकटीबभूव समीपवर्त्यभूत् ।
इत्यनेन चन्द्रापीडस्य मन्मथाधीनत्वं नास्तीति सूचितम् । एतदेव विवृणोति - लक्ष्म्येति । लक्ष्म्या सह
श्रिया सह वक्षःस्थलं भुजान्तरस्थलं वितस्तार विस्तीर्ण बभूव । बन्धुजनानां कुटुम्बजनानां मनोरथैर्वाञ्छितैः
सहोरुदण्डद्वयं सक्थियुगलमापूर्यत पूर्ण बभूव । सातिशयमजनिष्टेति भावः । अरिजनेन शत्रुजनेन सह मध्य-
भागोऽवलमप्रदेशस्तनिमानं कृशत्वमभजताश्रयत् । त्यागेन दानेन सह नितम्बभाग आरोहप्रदेशः प्रथिमानं
 
-
 
टिप्प० - 1 न तत्याज इत्यर्थः । 'न वियुक्तो बभूव' इति फलितार्थो वा उचितः । 2 शोभातिरेक
· मित्यर्थः । 3 रागा विषयाभिलाषाः, नीलपीतादिवर्णाश्च । 4 'रमणीयस्यापि रमणीयतां पुपोष', इत्यत्र
सर्वेषां वाक्यानामन्वयः ।
 
पाठा -१ गच्छन्क्षणमपि. २ हृदयनयनानन्द ३ नवसेवकः; अमुसेवकः •