कादम्बरी /202
This page has been fully proofread once and needs a second look.
प्रयोगे, विषापहरणे, सुरङ्गोपभेदे, तरणे, लङ्घने, [^१]प्लुतिषु इन्द्र- जाले, कथासु, नाटकेषु,आख्यायिकासु, काव्येषु, महाभारतपुराणे- तिहासरामायणेषु, सर्वलिपिषु सर्वदेशभाषासु,सर्वसंज्ञासु, [^२]स- र्वशिल्पेषु, छन्दःसु, अन्येष्वपि कलाविशेषेषु परंकौशलमवा- [^३]प ।
सहजा [^४]चाजस्रमभ्य [^५]स्यतो वृकोदरस्येव [^६]शैशव एवाविर्बभूव [^७]लोकविस्मयजननी महाप्राणता । यदृच्छया क्रीडताप्यनेन करतला [^८]वलम्बितकर्णपल्लवावनताङ्गाः सिंह- [^९]किशोरकक्रमाक्रान्ता इव गजकलभकाश्चलितुमपि न शेकुः । एकैकेन कृपाणप्रहारेण [^१०]तालतरून्मृणालदण्डानिव लुलाव ।
सकलराजन्यवंशवनदावानलस्य परशुरामस्येवास्य नाराचाःशिख- रिशिलातलभिदो बभूवुः । दशपुरुषसंवाहनयोग्येन चायोदण्डेन श्रममकरोत् । ऋते च महाप्राणतायाः [^११]सर्वाभिरन्याभिः कला- भिरनुचकार तं वैशम्पायनः । चन्द्रापीडस्य तु सकलकलाकलाप- परिचयबहुमानेन शुक -
[ टि ]-- सङ्क्रामादिषु व्युत्क [^1]रणादिरूपास्तासु । इन्द्रजालं मायाकूटनिर्मितं तस्मिन् । कथासु बृहत्कथाप्रभृतिषु । नाटके-
ष्वभिनयात्मकेषु । आख्यायिकासु वासवदत्ताप्रभृतिषु । काव्यं कविकर्म तेषु । महाभारतं प्रसिद्धम् । तदुक्तम् --- 'भाति सर्वेषु वेदेषु रतिः सर्वेषु जन्तुषु । तरणं सर्वतीर्थानां तेन भारतमुच्यते' । पुराणं पञ्चलक्षणम्, इतिहासः पुरावृत्तम्, रामायणं रामचरित्रम्, एतेषु । सर्वलिपिष्वष्टादशविधाक्षरविन्यासेषु । सर्वेषां देशानां
भाषासु वचनव्यापारेषु । सर्वा याः संज्ञाः परिभाषास्तासु । सर्वेषु शिल्पेषु विज्ञानेषु । छन्दः [^2]स्वाम्नायेषु । अन्येष्वप्येतव्यतिरि- क्तेषु कलाविशेषेषु परमधिकं कौशलं चातुर्यमवाप प्राप्तवान् । अस्य कुमारस्याजस्रं निरन्तरमभ्यस्यतो विद्यापरिश्रमं कुर्वतो वृकोदरस्येव भीमस्येव शैशव एव बाल्य एवं सहजा नौपाधिकी लोकानां जनानां विस्मयजनन्याश्चर्यकारिणी महाप्राणता महासाह-
सशक्तिराविर्बभूव प्रकटीबभूव । एतदेव विवृणोति - यदृच्छयेति । यदृच्छया स्वेच्छया क्रीडतापि केलिं कुर्वताप्यनेन कुमारेण गजा- नामनेकपानां कलभा एवं कलभकाः । स्वार्थे कः । 'कलभस्त्रि- शदब्दकः' इति कोशः । सिंहस्य हर्यक्षस्य किशोरको बालस्तस्य [^3]क्रमौ पादौ ताभ्यामाक्रान्ताः पीडिता इव चलितुमपीतस्ततो गन्तुमपि न शेकुर्न शक्ता बभूवुः। कीदृशाः । अनेन करतलेनावल-
म्बिता गृहीता ये कर्णपल्लनास्तैरवनतान्यङ्गानि येषां ते तथा । कर्णे धृत्वैव नम्रीकृता इति भावः । अन्यदप्याह - एकैकेति । एकैकेन कृपाणप्रहारेण तालतरून्मृणालदण्डानिव नलिनदण्डानिव लुलाव चिच्छेद । सकलेति । अस्य नाराचा बाणाः शिखरिशिलातलभिदो बभूवुः । अस्य किंविशिष्टस्य । सकलाः समग्रा राजन्या राजान- स्तेषां वंशा अन्वयास्त एव वनानि काननानि तेषु दावानलस्य । वनवह्निसदृशस्येत्यर्थः । कस्येव । परशुरामो जामदग्न्यस्तस्येव । यथा तस्य बाणाः शिलातलभिदस्तथास्यापीति भावः । दशेति । दशपुरुषैः संवाहनयोग्येनोत्थापनोचितेन । अतिप्रमाणेनेत्यर्थः । अयोदण्डेन लोहदण्डेन श्रममकरोत्परिश्रममकार्षीत् । ऋते चेति ।
'ऋतेयोगे द्वितीया' इति केषांचिन्मतम् । तेनान्यशब्दार्थयुक्तायाः पञ्चम्या न विरोधः । महाप्राणताया ऋतेऽन्याभिः सर्वाभिः कलाभि- र्वैशम्पायनस्तं कुमारमनुचकार सादृश्यमकरोत् । वैशम्पायनस्य ब्राह्मणपुत्रत्वात्तस्मिन्नापेक्षिता साहसशक्तिरिति भावः । चन्द्रेति । चन्द्रापीडस्य वैशम्पायनः परं मित्रमासीदित्यन्वयः । तत्र हेतुमाह - सकलेति । सकलाः समग्रा याः कला विज्ञानैकदेशास्तासां कलापः समूहस्तदर्थ यः परिचयः
[^1]F. व्याघ्रदुल्लम्फनम् ।
[^2]F. पिङ्गलादिप्रणीतछन्द:शास्त्रेषु च ।
पार्टी -१ श्रुतिषु आरोहणे, रतितन्त्रे; प्रुतिषु आरोहणावरोहणे, रतितत्रेषु. २ शिल्पेषु सर्वसिरिफ्षु. ३ सर्वकौश-
.
-लम्. ४ श्रमम्; अस्व श्रमम् ; चाजसश्रमम् • ५ अभ्यत्यतो वृकोदरस्य व शैशनमेन. ७ सर्वलोक. ८ आवम्वितः
आकुचित. ९ / किशोर. १० बाल एव तालतरून् ११ सर्वविधाभिः .
0
२२ का०