2023-12-17 04:32:42 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

चन्द्रापीडस्य यौवनोदमः ]
 
पूर्वभागः ।
 
,
 
प्रयोगे, विषापहरणे, सुरंङ्गोभेदे, तरणे, लङ्घने, पु[^१]प्लुतिषु इन्द्र- जाले, कथासु, नाटकेषु,
आख्यायिकासु, काव्येषु, महाभारतपुराणे- तिहासरामायणेषु, सर्वलिपिषु सर्वदेशभाषासु,
सर्वसंज्ञासु, [^२]स- र्वशिल्पेषु, छन्दःसु, अन्येष्वपि कलाविशेषेषु परं कौशलमवाएँ ।
 
- [^३]प ।
 
सहजा [^४]चाजत्स्रमभ्य [^५]स्यतो वृकोदरस्येव [^६]शैशव एवाविर्बभूव [^७]लोकॅविस्मयजननी महाप्राणता ।
यदृच्छया क्रीडताप्यनेन करतला [^८]वलम्बितकर्णपल्लवावनताङ्गाः सिंह- [^९]किशोर कक्रमाक्रान्ता इव
गजकलभकाश् लितुमपि न शेकुः । एकैकेन कृपाणप्रहारेण [^१०]तालतरून्मृणालदण्डानिव लुलाव ।

सकलराजन्यवंशवनदावानलस्य परशुरामस्येवास्य नाराचाः शिख- रिशिलातलभिदो बभूवुः ।
दशपुरुषसंवाहनयोग्येन चायोदण्डेन श्रममकरोत् । ऋते च महाप्राणतायाः [^११]सर्वाभिरन्याभिः
कला- भिरनुचकार तं वैशम्पायनः । चन्द्रापीडस्य तु सकलकलाकलाप- परिचयबहुमानेन शुरु -
 
*
 
क -
 
[ टि ]--
सङ्क्रामादिषु व्युत्करे [^1]रणादिरूपास्तासु । इन्द्रजालं मायाकूटनिर्मितं तस्मिन् । कथासु बृहत्कथाप्रभृतिषु । नाटक-
के-
ष्
वभिनयात्मकेषु । आख्यायिकासु वासवदत्ताप्रभृतिषु । काव्यं कविकर्म तेषु । महाभारतं प्रसिद्धम् । तदु-
क्तम् --- 'भाति सर्वेषु वेदेषु रतिः सर्वेषु जन्तुषु । तरणं सर्वतीर्थानां तेन भारतमुच्यते' । पुराणं पञ्चलक्षणम्,
इतिहासः पुरावृत्तम्, रामायणं रामचरित्रम्, एतेषु । सर्वलिपिष्वष्टादशविधाक्षरविन्यासेषु । सर्वेषां देशानां

भाषासु वचनव्यापारेषु । सर्वा याः संज्ञाः परिभाषास्तासु । सर्वेषु शिल्पेषु विज्ञानेषु । छन्दः खा[^2]स्वाम्नायेषु । अन्ये-
ध्
ष्वप्येतव्यतिरि- क्तेषु कलाविशेषेषु परमधिकं कौशलं चातुर्यमवाप प्राप्तवान् । अस्य कुमारस्याजस्रं निरन्तरमभ्य-
स्यतो विद्यापरिश्रमं कुर्वतो वृकोदरस्येव भीमस्येव शैशव एव बाल्य एवं सहजा नौपाधिकी लोकानां नानां
विस्मयजनन्याश्चर्यकारिणी महाप्राणता महासाह-
सशक्तिराविर्बभूव प्रकटीबभूव । एतदेव विवृणोति - यदृच्छ-
येति । यदृच्छया खेस्वेच्छया क्रीडतापि फेकेलिं कुर्वताप्यनेन कुमारेण गजा- नानेकपानां कलभा एवं कलभकाः ।
खा
स्वार्थे कः । 'कलभलिस्त्रि- शदब्दकः' इति कोशः । सिंहस्य हर्यक्षस्य किशोरको बालस्तस्य मी[^3]क्रमौ पादौ ताभ्यामा-
का
क्रान्ताः पीडिता इव चलितुमपीतस्ततो गन्तुमपि न शेकुर्न शक्ता बभूवुः । कीदृशाः । अनेन करतलेनावल-

म्बिता गृहीता ये कर्णपल्लनास्तैरवनतान्यङ्गानि येषां ते तथा । कर्णे धृत्वैव नम्रीकृता इति भावः । अन्यद-
प्याह - एकैकेति । एकैकेन कृपाणप्रहारेण तालतरून्मृणालदण्डानिव नलिनदण्डानिव लुलाव चिच्छेद । सक
लेति । अस्य नाराचा बाणाः शिखरिशिलातलभिदो बभूवुः । अस्य किंविशिष्टस्य । सकलाः समग्रा राजन्या
राजान- स्तेषां वंशा अन्वयास्त एव वनानि काननानि तेषु दावानलस्य । वनवहिह्निसदृशस्येत्यर्थः । कस्येव । परशुरामो
जामदम्ग्न्यस्तस्येव । यथा तस्य बाणाः शिलातलभिदस्तथास्यापीति भावः । दशेति । दशपुरुषैः संवाहनयों-
योग्येनोत्थापनोचितेन । अतिप्रमाणेनेत्यर्थः । अयोदण्डेन लोहदण्डेन श्रममकरोत्परिश्रममकार्षीत् । ऋते चेति ।

'ऋतेयोगे द्वितीया' इति केषांचिन्मतम् । तेनान्यशब्दार्थयुक्तायाः पञ्चम्या न विरोधः । महाप्राणताया ऋते-
ऽन्याभिः सर्वाभिः कलाभि- र्वैशम्पायनस्तं कुमारमनुचकार सादृश्यमकरोत् । वैशम्पायनस्य ब्राह्मणपुत्रत्वात्तस्मिन्ना-
पेक्षिता साहसशक्तिरिति भावः । चन्द्वेरेति । चन्द्रापीडस्य वैशम्पायनः परं मित्रमासीदित्यन्वयः । तत्र
हेतुमाह - सकलेति । सकलाः समग्रा याः कला विज्ञानैकदेशारेस्तासां कलापः समूहस्तदर्थ यः परिचयः
 
/ ण

 
[^1]F. व्याघ्रदुल्लम्फनम् ।
[^2]F. पिङ्गलादिप्रणीतछन्द
:ष । 3 : कण
 
टिप्प०
इत्येवार्थः ।
 
fo-1 ब्यgलफन । 2
 
शास्त्रेषु च ।
 
 
 
पार्टी -१ श्रुतिषु आरोहणे, रतितन्त्रे; प्रुतिषु आरोहणावरोहणे, रतितत्रेषु. २ शिल्पेषु सर्वसिरिफ्षु. ३ सर्वकौश-

.
 

 
-लम्. ४ श्रमम्; अस्व श्रमम् ; चाजसश्रमम् • ५ अभ्यत्यतो वृकोदरस्य व शैशनमेन. ७ सर्वलोक. ८ आवम्वितः

आकुचित. ९ / किशोर. १० बाल एव तालतरून् ११ सर्वविधाभिः .
 

 
0
 

 
२२ का०