2023-12-16 01:36:05 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरी ।
 
[ कथायाम्-
चन्द्रापीडोऽध्प्यनन्यहृदयतया तथा [^१]यन्त्रितो रौ[^२]राज्ञाऽचिरेणैव यै[^३]यथास्वमात्मकौशलं प्रकट-
यद्भिः पात्रवशादुपजातोत्सा हैरा- चार्यै [^४]रुपदिश्यमानाः से[^५]सर्वा विद्या जग्राह । मणिदर्पण इवा-
तिनिर्मले तस्मिन्संचक्राम सकल: कलाकलापः । तथा हि । पदे, वाक्ये, प्रमाणे, धर्मशाख़े,
स्त्रे, राजनीतिषु, व्यायाम विद्यासु, चाप- चक्र [^६]चर्मकृपाणशक्तितोमर परशुगदाप्रभृतिषु सर्वेष्वायुध- वि-
शेषेषु, रथचर्यासु, गँ[^७]गजपृष्ठेषु, वीणावेणुमुरजकांस्यतालदर्दु- रपुटप्रभृतिषु वाद्येषु, भरतादिप्रणीतेषु [^८]नृत्तशास्त्रेषु, नारदीय-
तेषु नृत्तशास्त्रेषु, नारदीय
प्रभृतिषु गान्धर्ववेद विशेषेषु, हस्तिशिक्षायाम्, तुं[^९]तुरङ्गवयोज्ञाने, पुरु-
लक्षणे, चित्रकर्मणि, पैं[^१०]पत्रच्छेद्ये, पुस्तकव्यापारे, लेख्य- कर्मणि, सर्वासु [^११]द्यूतकलासु, शकुनि-
रुतज्ञाने, ग्रहगणिते, रत्नपरीक्षासु, दारुकर्मणि, दन्तव्यापारे, वास्तुविद्यासु, आयुर्वेदे, यं[^१२]यन्त्र-
१६८
 

 
[ टि ]
-
 
- 'चन्द्रापीडोsपि राज्ञा तारापीडेन तथेति तेन प्रकारेण यन्त्रितो नियमितो [^1]यथाऽचिरेणैव स्वल्पकालेनैवानन्य-
हृदय- तयैकाग्रचित्ततयाचार्यैर्गुरुभिरुपदिश्यमाना अध्याप्यमानाः सर्वाः समग्रा विद्या द्वासप्ततिकला जग्राह गृही-
तवान् । आचार्यैः किं कु- र्वद्भिः । स्वं स्वकीयमात्मकौशलं निजचातुर्यं प्रकटयद्भिराविष्कु- र्वद्भिः, पात्रवशादत्यु -
त्कृष्टविद्याग्राहकवश।शादुपजातः समुत्पन्न उत्सा- हः प्रगल्भता येषां तैः । आचार्यविशेषणम् । मणिदर्पणे रत्नादर्श
-
इवातिनिर्मलेऽतिस्वच्छे तस्मिन्सकलः कलाकलापः संचक्राम संक्रमं कृतवान् । तमेव दर्शयन्नाह - तथा
हीति । पदेति । पदं व्याकरणशास्त्रं तस्मिन् । वाक्येति । वाक्यं मीमांसे पूर्वोत्तरे तस्मिन् । प्रमाणं न्याय-
वैशेषिकसांख्यपातञ्जलरूपं तस्मिन् । धर्मशास्त्रं मन्वादिप्रणीतो ग्रन्थस्तस्मिन् । इतः परं चतुःषष्टिकला आह-

राजेति । राजनीतयः कामन्दकी प्रभृतिशास्त्राणि तेषु । व्यायामः श्रमस्तदर्थं या विद्या मल्लयुद्धादिकास्तासु ।
चापेति । चापं धनुः, चक्रं प्रसिद्धम्, चर्म संनाहः, कृपाण: खड्गम्, शक्तिः शस्त्रविशेषः, तोमरः प्रहरण-
विशेषः, परशुः कुठारः, गदा प्रसिद्धा, एतत्प्रभृतिषु सर्वेष्वायुधविशेषेषु । रथचर्यासु रथपरिवर्तने [^2]षु । गजपु-
पृष्ठेषु हस्तिशिरोदेशेषु । वीणा वल्लकी, वेणुर्वंशः, मुरजो मृदङ्गः, कांस्य- तालं वाद्यविशेषः, दर्दुरपुटं दर्दुरशब्दा-
कारशब्द वाद्यम्, एतत्प्रभृ- तिषु वाद्येष्वातोद्येषु । भरतादयो विद्वांसस्तैः प्रणीतानि विहितानि नृत्तशास्त्राणि
ताण्डवविधानप्रतिपादकग्रन्थास्तेषु । नारदीयप्रभृतिषु गान्धर्ववेद विशेषेषु । हस्तिशिक्षायां गजशिक्षायाम् । तुर -
गस्याश्वस्य वयोज्ञाने वयोऽवस्था तस्य ज्ञाने । पुरुषाणां नराणां लक्षणेषु सामु- द्रिकप्रतिपादितेषु माषतिलकादि-
लक्षणेषु । चित्रकर्मण्य।लेख्य- विद्यायाम् । पत्रच्छेद्ये केतकादिपत्र [^3]च्छेदने । पुस्तकानां शास्त्राणां व्यापारे प्रयोगे ।
लेख्यकर्मणि लेखनविद्यायाम् । सर्वासु समग्रासु द्यूतकलासु । शकुनिरुतज्ञाने पतत्रिशब्दज्ञाने । ग्रहग- णिते
ज्योतिः शास्त्रे । रत्नपरीक्षासु रत्नानां मण्यादीनां शुद्धाशुद्ध- ज्ञाने । दारुकर्मणि । काष्टकर्मणि दन्ता गजानां
रदनास्तेषां व्यापारो व्या(व्यव) हृतिस्तस्मिन् । वास्तुविद्यासु गृहनिर्मितिविद्यासु । आयु- र्वेदे वैद्यकशास्त्रे । यन्त्राणां
सूर्यप्रतापादीनां प्रयोगो व्यापारणं तस्मिन् । विषाणां स्थावरजंगमप्रभृतीनामपहरणं दूरीकरणं तस्मिन् । सुर
जा
[^4]ङ्गाऽसंधिशिला तस्या उपभेदो भेदनं तस्मिन् । तरणे नद्यादितरणे । लङ्घने कूपकाद्युमल्ङ्घने । प्लुतो व्याघ्रादिवत्
 

 
[^
1
 
टिप्प० - 1
]F. पुनः पपात टीकाकारः । तथा तेन प्रकारेण नियन्त्रितः नियमितश्चन्द्रापीडः यथास्वम्
यथार्थम् 'यथास्वं तु यथायथम्' इत्यमरः । आत्मकौशलं प्रकटयद्भिः आचार्यै: उपदिश्यमानाः सर्वा
विद्या अचिरेणैव जग्राह, इति योजना ।
[^
2]F. रथचालनेषु, आरोहणेषु वा, इत्यर्थ उचितः ।
[^
3]F. यन्त्रच्छेद्ये
इति पाठे तु यन्त्रेण दूरवीक्षणादियन्त्रेण परि- च्छेत्तुं शक्ये ग्रह-नक्षत्रादिनिर्णये इत्यर्थः ।
[^
4]F. 'सुरङ्ग' इति
ख्यातो गुप्तदीर्घपथस्तस्य खने निर्माणे चेत्यर्थः ।
 
५ सर्वविद्याः• ६ वर्म.
 
पाठा० -

 
[^
]G. नियन्त्रितः.
[^२]G.
अचिरेणैव कालेन.
[^
]G. यथास्वम्.
[^
]G. उपदिश्यमानः.

[^५]G. सर्वविद्याः.
[^६]G. वर्म.
[^
]G. गजपृष्ठेषु तुरंगमेषु; गजपृष्ठेषु तुरंगेषु.
[^
]G. नृत्य.
[^
]G. तुरगवयोशाज्ञानेषु.
[^
१०]G. यन्त्रच्छेद्ये.
[^
११ चू]G. द्यूतकलासु गन्धर्वशास्त्रेषु;
द्यूतकलासु गान्धर्वशास्त्रेषु .
[^
१२]G. मन्त्रप्रयोगे.