कादम्बरी /201
This page has not been fully proofread.
कादम्बरी ।
[ कथायाम्-
चन्द्रापीडोऽध्यनन्यहृदयतया तथा यन्त्रितो रौज्ञाऽचिरेणैव यैथास्वमात्मकौशलं प्रकट-
यद्भिः पात्रवशादुपजातोत्सा हैराचार्यैरुपदिश्यमानाः सेर्वा विद्या जग्राह । मणिदर्पण इवा-
तिनिर्मले तस्मिन्संचक्राम सकल: कलाकलापः । तथा हि । पदे, वाक्ये, प्रमाणे, धर्मशाख़े,
राजनीतिषु, व्यायाम विद्यासु, चापचक्रचर्मकृपाणशक्तितोमर परशुगदाप्रभृतिषु सर्वेष्वायुधवि-
शेषेषु, रथचर्यासु, गँजपृष्ठेषु, वीणावेणुमुरजकांस्यतालदर्दुरपुटप्रभृतिषु वाद्येषु, भरतादिप्रणी-
तेषु नृत्तशास्त्रेषु, नारदीय प्रभृतिषु गान्धर्ववेद विशेषेषु, हस्तिशिक्षायाम्, तुंरङ्गवयोज्ञाने, पुरु-
घलक्षणे, चित्रकर्मणि, पैंत्रच्छेद्ये, पुस्तकव्यापारे, लेख्यकर्मणि, सर्वासु द्यूतकलासु, शकुनि-
रुतज्ञाने, ग्रहगणिते, रत्नपरीक्षासु, दारुकर्मणि, दन्तव्यापारे, वास्तुविद्यासु, आयुर्वेदे, यंत्र-
१६८
-
'चन्द्रापीडोsपि राज्ञा तारापीडेन तथेति तेन प्रकारेण यन्त्रितो नियमितो यथाऽचिरेणैव स्वल्पकालेनैवानन्य-
हृदयतयैकाग्रचित्ततयाचार्यैर्गुरुभिरुपदिश्यमाना अध्याप्यमानाः सर्वाः समग्रा विद्या द्वासप्ततिकला जग्राह गृही-
तवान् । आचार्यैः किं कुर्वद्भिः । स्वं स्वकीयमात्मकौशलं निजचातुर्य प्रकटयद्भिराविष्कुर्वद्भिः, पात्रवशादत्यु -
त्कृष्टविद्याग्राहकवश।दुपजातः समुत्पन्न उत्साहः प्रगल्भता येषां तैः । आचार्यविशेषणम् । मणिदर्पणे रत्नादर्श
इवातिनिर्मलेऽतिस्वच्छे तस्मिन्सकलः कलाकलापः संचक्राम संक्रमं कृतवान् । तमेव दर्शयन्नाह - तथा
हीति । पदेति । पदं व्याकरणशास्त्रं तस्मिन् । वाक्येति । वाक्यं मीमांसे पूर्वोत्तरे तस्मिन् । प्रमाणं न्याय-
वैशेषिकसांख्यपातञ्जलरूपं तस्मिन् । धर्मशास्त्रं मन्वादिप्रणीतो ग्रन्थस्तस्मिन् । इतः परं चतुःषष्टिकला आह-
राजेति । राजनीतयः कामन्दकी प्रभृतिशास्त्राणि तेषु । व्यायामः श्रमस्तदर्थ या विद्या मल्लयुद्धादिकास्तासु ।
चापेति । चापं धनुः, चक्रं प्रसिद्धम्, चर्म संनाहः, कृपाण: खड्गम्, शक्तिः शस्त्रविशेषः, तोमरः प्रहरण-
विशेषः, परशुः कुठारः, गदा प्रसिद्धा, एतत्प्रभृतिषु सर्वेष्वायुधविशेषेषु । रथचर्यासु रथपरिवर्तनेषु । गजपु-
ष्ठेषु हस्तिशिरोदेशेषु । वीणा वल्लकी, वेणुर्वंशः, मुरजो मृदङ्गः, कांस्यतालं वायविशेषः, दर्दुरपुटं दर्दुरशब्दा-
कारशब्द वाद्यम्, एतत्प्रभृतिषु वाद्येष्वातोद्येषु । भरतादयो विद्वांसस्तैः प्रणीतानि विहितानि नृत्तशास्त्राणि
ताण्डवविधानप्रतिपादकग्रन्थास्तेषु । नारदीयप्रभृतिषु गान्धर्ववेद विशेषेषु । हस्तिशिक्षायां गजशिक्षायाम् । तुर -
गस्याश्वस्य वयोज्ञाने वयोऽवस्था तस्य ज्ञाने । पुरुषाणां नराणां लक्षणेषु सामुद्रिकप्रतिपादितेषु माषतिलकादि-
लक्षणेषु । चित्रकर्मण्य।लेख्यविद्यायाम् । पत्रच्छेद्ये केतकादिपत्रच्छेदने । पुस्तकानां शास्त्राणां व्यापारे प्रयोगे ।
लेख्यकर्मणि लेखनविद्यायाम् । सर्वासु समग्रासु द्यूतकलासु । शकुनिरुतज्ञाने पतत्रिशब्दज्ञाने । ग्रहगणिते
ज्योतिः शास्त्रे । रत्नपरीक्षासु रत्नानां मण्यादीनां शुद्धाशुद्धज्ञाने । दारुकर्मणि । काष्टकर्मणि दन्ता गजानां
रदनास्तेषां व्यापारो व्या(व्यव) हतिस्तस्मिन् । वास्तुविद्यासु गृहनिर्मितिविद्यासु । आयुर्वेदे वैद्यकशास्त्रे । यन्त्राणां
सूर्यप्रतापादीनां प्रयोगो व्यापारणं तस्मिन् । विषाणां स्थावरजंगमप्रभृतीनामपहरणं दूरीकरणं तस्मिन् । सुर
जाऽसंधिशिला तस्या उपभेदो भेदनं तस्मिन् । तरणे नद्यादितरणे । लङ्घने कूपकालने । लुतो व्याघ्रादिवत्
1
टिप्प० - 1 पुनः पपात टीकाकारः । तथा तेन प्रकारेण नियन्त्रितः नियमितश्चन्द्रापीडः यथास्वम्
यथार्थम् 'यथास्वं तु यथायथम्' इत्यमरः । आत्मकौशलं प्रकटयद्भिः आचार्यै: उपदिश्यमानाः सर्वा
विद्या अचिरेणैव जग्राह, इति योजना । 2 रथचालनेषु, आरोहणेषु वा, इत्यर्थ उचितः । 3 यन्त्रच्छेद्ये
इति पाठे तु यत्रेण दूरवीक्षणादियन्त्रेण परिच्छेत्तुं शक्ये ग्रह-नक्षत्रादिनिर्णये इत्यर्थः । 4 'सुरङ्ग' इति
ख्यातो गुप्तदीर्घपथस्तस्य खमने निर्माणे चेत्यर्थः ।
५ सर्वविद्याः• ६ वर्म.
पाठा० - १ नियन्त्रितः. १ अचिरेणैव कालेन. ३ यथास्वम्. ४ उपदिश्यमानः.
७ गजपृष्ठेषु तुरंगमेषु; गजपृष्ठेषु तुरंगेषु. ८ नृत्य. ९ तुरगवयोशानेषु. १० यत्रच्छेद्ये. ११ चूतकलासु गन्धर्वशास्त्रेषु;
द्यूतकलासु गान्धर्वशास्त्रेषु १२ मत्रप्रयोगे.