This page has not been fully proofread.

चन्द्रापीडस्य शिक्षा ]
 
पूर्वभागः ।
 
१६७
 
क्रमेण कृतचूडाकरणादिक्रियाकलापस्य शैशवमतिचक्राम चन्द्रापीडस्य । तारापीडो व्या-
सङ्गविघातार्थ बहिर्नगरादनुसि प्रमर्धक्रोशमात्रायामम् अतिमहता तुहिन गिरिशिखरमालानु-
कारिणा सुधाधैवलितेन प्राकारमण्डलेन परिवृतम्, अनुप्राकारमाहितेन महता परिखावलयेन
परिवेष्टितम् अतिदृढकपाटसंपुटम् उद्घाटितैकद्वारप्रवेशम्, एकान्तोपरचिततुङ्गवाह्याली-
विभागम्, अधःकल्पितव्यायामशालम्, अमरांगाराकारं विद्यामन्दिर मकारयत् । सर्वविद्या-
चार्याणां च संग्रहे यत्नमति
महान्तमन्वतिष्ठत् । तत्रस्थं च तं केसरिकिशोरकमिव पञ्जरगतं
कृत्वा प्रतिषिद्धनिर्गमम्, आचार्यकुलपुत्रप्रायपरिजनपरिवारम्, अपनीता शेष शिशु जनक्रीडा-
व्यासङ्गम्, अनन्यमनसम्, अखिलविद्योपादानार्थमाचार्येभ्यश्चन्द्रापीडं शोभने दिवसे वैश-
म्पायन द्वितीय मर्पयांबभूव । प्रतिदिनं चोत्थायोत्थाय सह विलासवत्या विरलपरिजनस्तत्रैव
गत्वैनमालोकयामास राजा ।
 
-9
 
9
 
9
 
क्रमेणेति । क्रमेण परिपाट्या कृतो निष्पादितः चूडाकरणं चौलकर्म तदादिकाः क्रियास्तासां कलापो यस्य
स तथा तस्य चन्द्रापीडस्य शैशवं बाल्यमतिचक्राम । कौमारं प्राप्तवानित्यर्थः । तारापीडस्तस्य पिता व्या-
सङ्गश्चित्तस्यान्यत्र गमनं तस्य विघातार्थं दूरीकरणार्थ नगराद्वहिर्विद्यामन्दिरमकारयदित्यन्वयः । अनुसिप्रं
सिप्रासमीपवर्ति । कीदृशम् । अर्धक्रोशमात्रमायामो विस्तारो यस्य तत् । अतिमहतात्युच्चेन तुहिनगिरिहिमगि -
रिस्तस्य या शिखरमाला सानुश्रेणिस्तदनुकारिणा तत्सादृश्यधारिणा, सुधा पूर्वोक्ता तथा धवलितेन शुश्रीकृतेन
प्राकार मण्डलेन वप्रवलयेन परितं वेष्टितम् अनुप्राकारमाहितेन स्थापितेन महता परिखावलयेन परिवेष्टितम् ।
अतिदृढं कपाटसंपुटं यस्य तत् । उद्घाटितं यदेकद्वारं तत्र ( तेन ) प्रवेशो यस्मिंस्तत् । एकान्तेति । एकान्ते
निर्जनस्थल उपरचितस्तुरङ्गाणामश्वानां वाह्यालीनां शिबिकादीनां व्यवस्थापनविभागो यस्मिंस्तत् । अध
इति । अधोभागे कल्पिता व्यायामशाला बाहुयुद्धाभ्यासादियोग्यं स्थलं यस्मिंस्तत् । अमरेति । अमरा-
गारं देवगृहं तद्वदाकारो यस्य तत् । सर्वेति । सर्वविद्याचार्याणां समग्र विद्याध्यापकानां संग्रहे स्वीकारेऽतिम-
हान्तमत्युत्कृष्टं यत्नमन्वतिष्ठदकरोत् । तत्रेति । तत्रस्थं तन्निवासिनं तं चन्द्रापीडं पञ्जरगतं केसरिकिशोरकमिव
कृत्वा विधाय प्रतिषिद्धो निर्गमो बहिर्गमनं यस्य स तम् । आचार्येति । आचार्यस्य कुलं वैशम्पायनकुलं
तस्य पुत्रप्रायो यः परिजनः स एव परिवारो यस्य स तम् । अपेति । अपनीतो दूरीकृतोऽशेषायाः समप्रायाः
शिशुजनक्रीडाया बालजनलीलायाः व्यासङ्गो विद्या प्रतिबन्धकं यस्य स तम् । न विद्यतेऽन्यस्मिन्मनो यस्य स
तम् । एकाग्रचित्तमित्यर्थः । अखिलेति । अखिलाः समग्रा या विद्यास्तासां यदुपादानं ग्रहणं तदर्थमाचा-
र्येभ्यः पाठकेभ्यः शोभने प्रशस्ते दिवसे दिने वैशम्पायनो मन्त्रिसुतः स एव द्वितीयो विद्याभ्यसने सहायो
यस्यैवंभूतं चन्द्रापीडमाचार्येभ्योऽर्पयांबभूवार्पितवान् । अथ च राजा प्रतिदिनं प्रत्यहमुत्थायोत्थायोत्थानं
कृत्वा । स्वगृहादिति शेषः । वीप्सायां द्वित्वम् । सह विलासवत्या विरलपरिजनः स्वल्पपरिच्छदस्तत्रैव गत्वैनं
चन्द्रापीडमालोकयामास व्यलोकयत् ।
 
टिप्प० - 1 अतिढाभ्यां कपाटाभ्यां संपुटम् पिधानं यस्य तत् । 2 अहो प्रलापष्टीकाकारस्य ।
भाचार्याः अध्यापकाः, कुलपुत्राः सर्वंशजाताः समानवयसः कुमाराः एतत्प्रायः ( एतबहुल: ) परि-
जनो यस्य तम्, इत्यर्थः ।
 
पाठा० -१ बालक्रिया. २ क्रीडाव्यासङ्ग ३ अनुक्षिप्रम् ४ शिखरानुकारिणा ५ धवलेन; प्राकारभवलेन चन्द्र-
शालावलयेन विलसितं प्राकार. ६ तुरग विद्यागृहम्. ८ शिशुकडन; शिशुजनक्रीडन ९ चोत्थाय सह.
 
2