कादम्बरी /20
This page has been fully proofread twice.
पाठपरिवर्तनम्
सर्वमौलिभूतो दोषस्त्वयमस्याष्टीकाया यन्मूलपाठस्तथा धृतोस्ति येन कादम्बर्या: शोभायाः का कथा वराकी सा लज्जेत । अवश्यं ग्रन्थपाठः प्राग्लिखितपुस्तकाधीनः किन्तु यष्टीकां लेखितुं परिकरमाबध्नाति तस्यापि बुद्धेः किञ्चिन्मूल्यं जनसमाजेनाशंसनीयं भवति । गुरुतरं ह्यासनं टीकायाः । यद्धि वाक्यं सामान्यशिक्षितोपि न लेखितुं पारयति तादृशं वाक्यं बाणसदृशो मार्मिकचूडामणिः कथं वा कविमण्डलमण्डनभूते स्वग्रन्थे विलिखेदित्यक्षरमुखस्यापि विचारो भवत्येव । किन्त्वाश्चर्यं नास्यात्र गन्धोपि । नापि चात्र लेखक -मुद्रकदोषोपि संभावयितुं शक्यः, व्याख्याक्षराणां तथैवाऽभिप्रायात् । ग्रन्थस्य प्रायः प्रतिपदमेव सेयं दशा । टिप्पण्यां च सूचितमिदं स्थाने स्थाने । अत्र तदुद्धरणे मुधा विस्तरः स्यात् । किन्तु मार्मिका द्वित्रैरुदाहरणैस्तद्वर्णिकाम् (बानगी ) परीक्षितुं पारयेयुः ।
'विबुधसद्मन्यप्सरसो नाम कन्यकाः सन्तीति' मन्ये सर्वबोध्योयं विषयः । किन्तु टीकाकारेण मूलपाठः परिगृहीतोऽस्ति - 'विबुधसद्मन्यप्सरसेना नाम कन्यकाः सन्तीति' । व्याख्यानं चास्य दृश्यताम्- 'विबुधसद्मनि किंनरगृहे । अप्सरसेनाः । नामेति कोमलामन्त्रणे । कन्यकाः पुत्र्यः सन्तीति' । 'किंनरगृहे'
इति समीक्षणीयं तावत् । अविवाहितत्वात् 'कन्यकाः' इति बाणलेखन्योत्कीर्णम्, तस्य 'पुत्र्य:' इति पर्यायः कियत्स्वारस्यवाहीति सर्वैर्बुध्यतैव (२९३ ) ।
'हेमकूटधाम्नां किरातानां सुवर्णपुरं नाम निवासस्थानम्' इत्यस्य स्थाने पाठोऽस्ति 'हेमजकूटनाम्नां किरातानाम्' । व्याख्यानं दृश्यताम् – 'हेमजकूट इति नाम येषामेवंविधानां किरातानां भिल्लानां म्लेच्छानां वा (पृ. २५७ ) ।
गन्धर्वराजधान्यां हेमकूटे ( कादम्बरीनिवासस्थाने ) यदा चन्द्रापीडो जगाम तदाऽनुरक्ता कादम्बरी प्रेमोपायनं शेषाख्यं रत्नहारं तस्मै प्रजिघाय । तदेतदुपायनमादाय कादम्बर्याः प्राणप्रिया सखी मद-
लेखा तरलिकया सह चन्द्रापीडमुपजगाम । प्रणय मार्गोचितमिदम् । न हि स्वयं नायिकाया इदमौचित्यमावहति । बाणोपि तथैवोपनिबबन्ध । अत एव हारसमर्पणे तत्प्रशंसायामाह - ' (सोयं हारः ) अम्भसां पत्या प्रचेतसे दत्तः । पाशभृता गन्धर्वराजाय । गन्धर्वराजेन कादम्बर्यै' इति । न हि कादम्बरी स्वयमेवं ब्रूयात् । अत एव तदागमनावसरे पाठोऽस्ति — "... कादम्बरीप्रतीहार्या दक्षिणकरेण दत्तहस्तावलम्बां मदलेखाम्, तरलिकाम्** अद्राक्षीत्" इत्यादिः । किन्तु टीकाकारः पाठमाह - 'कादम्बरीं प्रतीहार्या दत्तहस्तावलम्बाम्' इत्यादिः । न हि लेखक-मुद्रकदोषोऽत्र संभाव्यः । पदच्छेदपूर्वकं स्पष्टं व्याख्याति — 'चन्द्रापीड: कादम्बरीम्, अथ चागच्छन्तीं मदलेखाम् तस्याः समीपे तरलिकाम्, ******पात्र विशेषे गृहीतं हारं चाद्राक्षीत्' इति । पुनरपि स्पष्टयति — 'अथ कादम्बरीं विशिनष्टि' इत्यादिना (पृ. ४१४ )।
केयूरकश्चन्द्रापीडसविधे कादम्बर्याः प्रणय-विह्वलतादिकं निवेदयति – 'निर्गते त्वयि हृदयसहस्रप्रयाणपटहकलकलमिव नूपुरक्वणितेन कन्यकान्तःपुरे कुर्वति । 'कन्यकान्तःपुरे नूपुरक्वणितेन, हृदयसहस्राणां यत्प्रयाणम् ( गृहं प्रत्यागच्छता त्वया सह प्रस्थानम् ) तस्य पटहकलकलमिव कुर्वति सति' इति सप्त-
म्यन्तः पाठः । अर्थात् कन्यकानां नूपुरशब्दा नासन्, मन्ये त्वया सह प्रस्थितानां कन्यकाहृदयसहस्राणां प्रयाणे पटहध्वनय एवाऽभूवन्निति । किन्तु टीका कारपाठोऽस्ति–पटहकलकलमिव नूपुरक्वणितेन कुर्वन्ती देवी कादम्बरी...' इत्यादि । एकस्यास्तस्या नूपुराभ्यां पटहकोलाहलः कथमिति न विचारयितुमिच्छति टीकाकारपुंगवः । न चात्रापि लेखक-मुद्रकदोषः । 'कुर्वन्ती सृजन्ती' इति स्फुटं व्याख्यानात् । लेखकदोषेण
ह्रस्वदीर्घयोर्व्यत्ययो न जात इत्येतस्य साक्षी नुमागमः, नहि सप्तम्यां नुमः स्पर्शशङ्कापि (पृ. ४३३) ।
कुत्रचित्कुत्रचिच्च दुष्पाठपरिग्रहणेन तथा ग्रन्थस्य सर्वनाशः कृतोऽस्ति यं दृष्ट्वैव सभ्यताऽवगुण्ठने