2023-12-15 13:43:06 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१६६
 
कादम्बरी ।
 
[ कथामुखे-
मधुरमुद्गायता हर्षनिर्भरतया मत्तेनेवोन्मत्तेनेव ग्रहगृहीतेने [^१]वा-
पगतवाच्यावाच्य [^२]विवेकेन [^३]नृत्त-
क्रीडाप्रसक्तेनान्तः पुरि- काजनेन [^४]प्रचलमणिकुण्डलाहतकै [^५]कपोलभित्तिना च विघू- र्णमानकर्णोत्पले-
नाघोर्निंधो [^६]विगलितविलोलशेखरेण दोलायमान वै- [^७]कक्षककुसुममालेन निर्दयप्रहतभेरीमृदङ्गमर्दलप-
टहनिनादा- नुगत [^८]काहलाशङ्खरवजनितरभसेन चरणसंनिपातर्दारैयतेव - [^९]यतेव [^१०]वसुधां राजपरिजनेन
[^११]प्रवृत्तनृत्येन च चारणगणेन विविधे[^१२]विविधमुखवाद्यकृतकोलाहलेन पठता गौ[^१३]गायता चानुगम्यमानः
शुकनासभवनं गत्वा द्विगुणतरमुत्सव- मकारचत् ।
 
St
 

 
अतिक्रान्ते च षष्ठीजागरे प्राप्ते दशमेऽहनि पुण्ये मुहूर्ते गाः सुवर्ण च '[^१४]कोटिशो ब्राह्म-
णसात्कृत्वा 'मातुरस्य मया परिपूर्णमण्डल- श्चन्द्रः स्वप्ने मुखकमलमाविशन्दृष्टः' इति स्वप्नानु-
रूपमेव राजा
[^१५]स्व
सूनोश्चन्द्रापीड इति नाम चकार । अपरेद्युः शुकना- सोऽपि कृत्वा ब्राह्मणो-
चिताः सकलाः क्रिया राजानुमतमात्मजस्य विप्रजनोचितं वैशम्पायन इति नाम चक्रे ।
 

 
[ टि ] --
वेणुर्वंशः, मुरजो मृदङ्गः, कांस्यतालं प्रसिद्धम्, एतेषां यो लयः साम्यावस्था तदनुगतेन कलं मधुरं यथा
स्यात्तथोद्गायता गानं कुर्ता, हर्षस्य यो निर्भरोऽतिशयस्तस्य भावस्तत्ता तया मत्तेनेव क्षीबेणेवोन्मत्तेनेव
वातग्रस्तेनेव ग्रहगृहीतेनेव ग्रथिलेने [^1]व । अपेति । अपगतो दूरीभूतो वाच्यावाच्ययोर्विवेकः पृथगात्मता

यस्मात्स तेन । नृत्तेति । नृत्तलक्षणा या क्रीडा विनोदस्तस्यां प्रस- क्तेन लग्नेन । अथ च राजपरिजनेन नृप-
परिवारेणानुगम्यमानः । परिजनं विशेषयन्नाह – प्रचलेति । प्रचलानि चञ्चलानि यानि मणिकुण्डलानि रत्न-
कर्णाभरणानि तैराहता कपोलभित्तिर्यस्य स तेन । विघूर्णमानं पतनायोन्मुखं कर्णोत्पलं यस्य स तेन । अध

इति । अधो विगलितो विलोलञ्श्चञ्चलः शेखरोऽवतंसो यस्य स तेन । दोलायमाना कम्पमाना वैकक्षकीकृतो-
त्तरासङ्गीकृता कुसुममाला यस्य स तेन । निर्दयमिति । निर्दयमतिशयेन प्रहता वादिता भेर्यो दुन्दुभयः,
मृदङ्गा वाद्यविशेषाः, मर्दला मुरजाः, पटहाः प्रसिद्धाः एतेषां यो निनादः शब्दस्तदनुगतस्तन्मिश्रितः काहला
वाद्यविशेषः, शङ्खः प्रसिद्धः, तयो रवः शब्दस्तेन जनितो निष्पादितो रभसो [^2]वेगो यस्य स तेन । च
रणसंनिपातैः पादविक्षेपैर्वसुधां पृथ्वीं दारयतेव विदीर्णां कुर्वतेव । प्रवृत्तं प्रारब्धं नृत्यं येन स तथा तेन । चारण-
गणेन कुशीलवसमुदायेन । कीदृशेन । विविधं यन्मुखमेवै- [^3]व वाद्यं तेन कृतो विहितः कोलाहलः कलकलो येन स
तेन । पठतोच्चैः स्वरेण राजस्तुतिं गायता गानं कुर्वता च अनुगम्यमान इत्यस्य सर्वत्रानुषङ्गः ।
 
2
 

 
अतीति । अतिक्रान्ते व्यतीते षष्ठीजागरे षष्ठदिवसकृत्ये च सति दशमेऽहनि दशमे दिवसे प्राप्ते सति
पुण्ये पवित्रे मुहूर्ते वेलायां गाः सुरभी: कोटिशः सुवर्ण कनकं ब्राह्मणसाद्ब्राह्मणाधीनं कृत्वा विधाय, मया स्वप्ने
परिपूर्णमण्डलश्चन्द्रः शशी अस्य मातुर्जनन्या मुखकमलं वदनाम्भोजमाविशन्प्रविशन्दृष्टोऽवलोकित इति ख-
प्रा
स्वप्नानुरूपमेव स्वप्नसदृशमेव राजा नृपः स्वसूनोः स्वपुत्रस्य चन्द्रापीड इति नाम चकार निर्ममे । अपरेधुद्युरन्य-
स्मिन्दिने शुकनासोऽपि ब्राह्मणोचिता विप्रकुलयोग्याः सकलाः समग्राः क्रियाः कृत्वा विधाय राजानुमतं

नृपेणानुज्ञातमात्मजस्य पुत्रस्य विप्रजनोचितं ब्राह्मणजनयोग्यं वैशम्पायन इति नाम चक्रे कृतवान् ।
 
टिप्प० -

 
[^
1]F. भूताविष्टेनेवेत्युचितम् ।
[^
2]F. आनन्दो यस्य स इत्यर्थः ।
[^
3]F. विविधं यन्मुखवाद्यम् ( मुख-
द्वारा नानाविधाव्यक्तध्वनि निः
नेः
-
नि:
सा रणम् ) ।
 
पाठा०. -

 
[^
]G. व्यपगत.
[^
]G.. विवेकेनेव.
[^
]G. नृत्यगीतक्रीडा.
[^
]G. प्रचलितमणि .
[^
]G. उद्घट्टितकपोल.
[^
]G. गलित.
[^
]G. वैक-
क्षिक; वैकक्ष.
[^
]G. काहल.
[^
]G. विदारयता .
[^
१०]G. वसुंधराम्.
[^
११]G. प्रवृत्तनृत्तेन; नृत्ते प्रवृत्त.
[^
१२]G. विविधवाद्य.
[^
१३]G. गायता
बलगता च.
[^
१४]G. कोटिशो दत्त्वा, .
[^
१५]G. सूनो:.
 
.
 

 
.