This page has not been fully proofread.

१६६
 
कादम्बरी ।
 
[ कथामुखे-
मधुरमुद्गायता हर्षनिर्भरतया मत्तेनेवोन्मत्तेनेव ग्रहगृहीतेने वापगतवाच्यावाच्यविवेकेन नृत्त-
क्रीडाप्रसक्तेनान्तः पुरिकाजनेन प्रचलमणिकुण्डलाहतकैपोलभित्तिना च विघूर्णमानकर्णोत्पले-
नाघोर्निंगलितविलोलशेखरेण दोलायमान वैकक्षककुसुममालेन निर्दयप्रहतभेरीमृदङ्गमर्दलप-
टहनिनादानुगत काहलाशङ्खरवजनितरभसेन चरणसंनिपातर्दारैयतेव वसुधां राजपरिजनेन
प्रवृत्तनृत्येन च चारणगणेन विविधेमुखवाद्यकृतकोलाहलेन पठता गौयता चानुगम्यमानः
शुकनासभवनं गत्वा द्विगुणतरमुत्सवमकारचत् ।
 
St
 
अतिक्रान्ते च षष्ठीजागरे प्राप्ते दशमेऽहनि पुण्ये मुहूर्ते गाः सुवर्ण च 'कोटिशो ब्राह्म-
णसात्कृत्वा 'मातुरस्य मया परिपूर्णमण्डलश्चन्द्रः स्वप्ने मुखकमलमाविशन्दृष्टः' इति स्वप्नानु-
रूपमेव राजा सूनोश्चन्द्रापीड इति नाम चकार । अपरेयुः शुकनासोऽपि कृत्वा ब्राह्मणो-
चिताः सकलाः क्रिया राजानुमतमात्मजस्य विप्रजनोचितं वैशम्पायन इति नाम चक्रे ।
 
वेणुर्वंशः, मुरजो मृदङ्गः, कांस्यतालं प्रसिद्धम् एतेषां यो लयः साम्यावस्था तदनुगतेन कलं मधुरं यथा
स्यात्तथोद्गायता गानं कुर्चता, हर्षस्य यो निर्भरोऽतिशयस्तस्य भावस्तत्ता तया मत्तेनेव क्षीबेणेवोन्मत्तेनेव
वातग्रस्नेव ग्रहगृहीतेनेव ग्रथिलेनेव । अपेति । अपगतो दूरीभूतो वाच्यावाच्ययोर्विवेकः पृथगात्मता
यस्मात्स तेन । नृत्तेति । नृत्तलक्षणा या क्रीडा विनोदस्तस्यां प्रसक्तेन लग्नेन । अथ च राजपरिजनेन नृप-
परिवारेणानुगम्यमानः । परिजनं विशेषयन्नाह – प्रचलेति । प्रचलानि चञ्चलानि यानि मणिकुण्डलानि रत्न-
कर्णाभरणानि तैराहता कपोलभित्तिर्यस्य स तेन । विघूर्णमानं पतनायोन्मुखं कर्णोत्पलं यस्य स तेन । अध
इति । अधो विगलितो विलोलञ्चञ्चलः शेखरोऽवतंसो यस्य स तेन । दोलायमाना कम्पमाना वैकक्षकीकृतो-
त्तरासङ्गीकृता कुसुममाला यस्य स तेन । निर्दयमिति । निर्दयमतिशयेन प्रहता वादिता भेर्यो दुन्दुभयः,
मृदङ्गा वाद्यविशेषाः, मर्दला मुरजाः, पटहाः प्रसिद्धाः एतेषां यो निनादः शब्दस्तदनुगतस्तन्मिश्रितः काहला
वाद्यविशेषः, शङ्खः प्रसिद्धः, तयो रवः शब्दस्तेन जनितो निष्पादितो रभसो वेगो यस्य स तेन । च
पातैः पादविक्षेपैर्वसुधां पृथ्वीं दारयतेव विदीर्णां कुर्वतेव । प्रवृत्तं प्रारब्धं नृत्यं येन स तथा तेन । चारण-
गणेन कुशीलवसमुदायेन । कीदृशेन । विविधं यन्मुखमेवैद्यं तेन कृतो विहितः कोलाहलः कलकलो येन स
तेन । पठतोच्चैः स्वरेण राजस्तुतिं गायता गानं कुर्वता च अनुगम्यमान इत्यस्य सर्वत्रानुषङ्गः ।
 
2
 
अतीति । अतिक्रान्ते व्यतीते षष्ठीजागरे षष्ठदिवसकृत्ये च सति दशमेऽहनि दशमे दिवसे प्राप्ते सति
पुण्ये पवित्रे मुहूर्ते वेलायां गाः सुरभी: कोटिशः सुवर्ण कनकं ब्राह्मणसाद्ब्राह्मणाधीनं कृत्वा विधाय, मया स्वप्ने
परिपूर्णमण्डलश्चन्द्रः शशी अस्य मातुर्जनन्या मुखकमलं वदनाम्भोजमाविशन्प्रविशन्दृष्टोऽवलोकित इति ख-
प्रानुरूपमेव स्वप्नसदृशमेव राजा नृपः स्वसूनोः स्वपुत्रस्य चन्द्रापीड इति नाम चकार निर्ममे । अपरेधुरन्य-
स्मिन्दिने शुकनासोऽपि ब्राह्मणोचिता विप्रकुलयोग्याः सकलाः समग्राः क्रियाः कृत्वा विधाय राजानुमतं
नृपेणानुज्ञातमात्मजस्य पुत्रस्य विप्रजनोचितं ब्राह्मणजनयोग्यं वैशम्पायन इति नाम चक्रे कृतवान् ।
 
टिप्प० - 1 भूताविष्टेनेवेत्युचितम् । 2 आनन्दो यस्य स इत्यर्थः । 3 विविधं यन्मुखवाद्यम् ( मुख-
द्वारा नानाविधाव्यक्तध्वनि निः
नेःसारणम् ) ।
 
पाठा०. -१ व्यपगत. २. विवेकेनेव. ३ नृत्यगीतक्रीडा. ४ प्रचलितमणि ५ उद्घट्टितकपोल. ६ गलित. ७ वैक-
क्षिक; वैकक्ष. ८ काहल. ९ विदारयता १० वसुंधराम्. ११ प्रवृत्तनृत्तेन; नृत्ते प्रवृत्त. १२ विविधवाद्य. १३ गायता
बलगता च. १४ कोटिशो दवा, १५ सूनो:.
 
.