2023-12-15 11:08:55 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

पुरसहस्रमुखरितदिगन्तरेणसम्भसोत्क्षेप [^१]चालितमणिवलया- वलीवाचालित [^२]भुजलतेनोर्ध्वीकृतैरुत्तानतलैःकरपुटैरनिल- [^३]लुलिता [^४]माकाशकमलिनीमिव दर्शयता पर्यस्तमृदित- कर्णपल्लवेन परस्पराङ्गदकोटिसंघट्टदष्टपाटितोत्तरीयांशुकेन श्रम- जलधौताङ्गरागरञ्जित [^५]नवीनवाससा किंचिदवशिष्टतमाल- पत्रेण विलसद्वारविलासिनीहसितैरुन्निद्रकैरववनानुकारं प्रथयता सरभस [^६]वल्गनस्खलल्लोलहारलतास्फालितकुचस्थलेन सिन्दूरतिलक [^७]लुलितालकलेखेन विप्रकीर्णपिष्टा [^८]तक- पांसुपुञ्जपिञ्जरितकेशपाशेन [^९]प्रनृत्तकलमूककुब्जकिरातवा-
मनबधिरजडजनपुरःसरेणोत्तरीयांशुकग्रीवाबद्धावकृष्ट [^१०]विड- म्बितजरत्कञ्चुकि [^११]कदम्बकेन वीणावेणुमुरजकांस्यताल-
लयानुगतेन कल-
 
[ टि ]-- मुत्सवमकारयत्कारयामासेति दूरेणान्वयः । कीदृशो राजा । अन्तःपुरिकाजनेनानुगम्यमानोऽनु पश्चात्तदनन्तरं
गन्तुं योग्य इत्यर्थः । अथ चान्तःपुरिकाजनं विशेषयन्नाह –चरणेति । चरणानां पादानां प्रमोदातिरेकाद्य-
द्विकुट्टनमास्फालनं तेन क्वणितं शब्दितं यन्नूपुरसहस्रं पादकटकसहस्रं तेन मुखरितं वाचालितं दिगन्तरं
दिङ्मध्यं येन स तेन । सरभसेति । सरभसे [^1]न वेगेन य उत्क्षेपो भुजानां चालनं तेन चालिता कम्पिता या
मणिवलयावली रत्न- कङ्कणश्रेणी तया वाचालिता मुखरिता भुजलता बाहुलता यस्य सः तथा तेन । हर्षव-
शादूर्ध्वीकृतैरु च्चैर्विहितैरुत्तानतलैः संमुखतलैः करपुटैर्हस्तपुटैनिललुलितां वायुना विलुठितामाकाशकमलिनीनीं
व्योमपद्मिनीमिव दर्शयं [^2]यता प्रकाशयता । पर्यस्तेति । पर्यस्ता विक्षिप्ता मृदिताश्चूर्णिताः कर्णपल्लवा येन स तथा
से
तेन । परस्परे-
ति । परस्परमन्योन्यमङ्गदानां बाहुवलयानां या कोटिरग्रभागस्त- स्याः संघट्टोऽभिघातस्तेने
[^3]व दष्टमिव पाटितं छिन्नमुत्तरीयांशुकं यस्य स तेन । संघट्टवशाच्छ्रमजलेन धौतः क्षालितो योऽङ्गरागो विलेपनं
तेन रञ्जितानि नवीनवासांसि नव्यवस्त्राणि यस्य स तेन । किंचिदिति । किंचित् अवशिष्टं उर्वरितं तमा-
ल [^4]पत्रं यस्य स तेन । इतरेषां भूषणानां वस्त्राणां च संमदेर्दवशान्निपतनमभूत् । तमालपत्रं तु महता क्लेशेन
सौभाग्यमण्डननिमित्तकत्वाव्यवस्था- पितमिति भावः । विलसन्त्यो या वारविलासिन्यो वारयोषितस्तासां हसि-
तैर्हास्यैः । उन्निद्रेति । उन्निद्राणि विकसितानि यानि कैरववना- नि तेषामनुकारं सादृश्यं प्रथयता विस्ता-
रयता । सरभसेति । सरभसं सवेगं यद्वावल्गनं परस्परमङ्गानामामोटनं तेन स्ख [^5]लन्तीर्लोला- श्चपला या हार-
लता मुक्तालतास्ताभिरास्फालितमाहतं कुचस्थलं यस्य स तेन । सिन्दूरेति । सिन्दूरं नागजं तेन जनितं
यत्तिलकं पुण्ड्रं तत्र श्रमवशाल्लुलिता लुठिता अलकलेखा यस्य स तेन । अत्र लेखाशब्देन ततिरुच्यते । तेन
कियतामलकानां तत्रावस्थितिर्न तु सर्वेषामिति भावः । विप्रेति । विप्रकीर्णो विक्षिप्तो यः पिष्टात एव पिष्टा-
तकः । स्वार्थे कः पटवासकस्तस्य पांसुपुञ्जो धूलिसमूहस्तेन पिञ्जरितः पीतरक्ततां प्राप्तः केशपाशो यस्य स तेन ।
प्रनृत्तेति । प्रवृत्ताः स्वयमेवारब्धताण्डवाः कला मनोज्ञाः, मूका अस्फुटवाचः, कुब्जा: पूर्वोत्क्तलक्षणाः;
किराताः स्वल्पतनवः, वामनाः पूर्वव्याख्या- ताः, बधिरा अकर्णाः, जडा मूर्खाः, एवंविधा जनाः पुरःसरा अग्रगा-
गा
मिनो यस्य स तेन । उत्तरीयेति । उत्तरीयांशुकेन प्रच्छादनवस्त्रेण ग्रीवायां कन्धरायां बद्धं संयमितम-
वकृष्टमाकृष्टमत एव विडम्बितं विडम्बनां प्रापितं जरत्कञ्चुकिकदम्बकं येन स तेन । वीणेति । वीणा वल्लकी,
 
टिप्प० -[^1]F. सरभसं वेगेन इत्युचितम् ।
[^
2]F. संमुखतलानां हस्तानामुपरि उत्थापनात् आकाशकमलिनी
( कमलपुष्पयुक्ता कमलिनी, वृक्षः ) दर्शितेत्यर्थः ।
[^
3]F. संघट्टेन पूर्व दष्टानि विद्धानि ततः पाटितानि उत्त-
रीयांशु- कानि यस्य तेनेत्यर्थ उचितः ।
[^
4]F. तिलकम् । 'तमालपत्रं तिलके तापिच्छे पत्रकेऽपि च' इति हैमः ।
[^5]F. स्स्वलन्त्य इत्यर्थः।
[^
6]F. असौष्ठवं टीकाकृतः । 'प्रवृत्य विकल' इति पाठः । 'विशेष-
नर्तनेन विह्वला मूकाः,
इति तदर्थः ।
 
पाठा० - [^]G. चलित; वलित .
[^
]G. भुजवलयेन.
[^
]G. लुण्ठिताम्.
[^
]G. आकाशगङ्गा.
[^
]G. चीन; स्वच्छचीन; चीर.
[^]G. चलन.
[^
]G. लोलित.
[^
]G. पांसुपिञ्जरित .
[^
]G. प्रणत्यविकल; प्रनृत्तकल; प्रवृत्तकल, .
[^
१०]G. विलम्बित .
[^
११]G. कदम्मेन.
बेन.
[^
१२]G. अनुयातेन.