2023-12-15 07:19:46 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१६५
 
शुकनासपुत्रजन्मोत्सवः ]
 
पूर्वभागः ।
 
पुरसहस्रमुखरित दिगन्तरेण
 
सम्भसोत्क्षेप [^१]चालितमणिवलया- वलीवाचालितर् [^२]भुजलतेनोर्ध्वीकृतै-
रुत्तानतलैः करपुटैरनिल- [^३]लुलिता [^४]माकाशकमलिनी मिव दर्शयता पर्यस्तमृदित- कर्णपल्लवेन परस्प-
राङ्गदकोटि संघट्टदष्टपाटितोत्तरीयांशुकेन श्रम- जलधौताङ्गरागरञ्जितनै [^५]नवीनवाससा किंचिदव-
शिष्टतमाल- पत्रेण विलसद्वार विलासिनीहसितैरु न्निद्रकैरववनानुकारं प्रथयता सरभसवर्लं [^६]वल्गन-
स्खलल्लोलहारलतास्फालितकुचस्थलेन सिन्दूरतिलकलुँ [^७]लुलितालकलेखेन विप्रकीर्णपिष्टात क [^८]तक- पांसु
पुञ्जपिञ्जरितकेशपाशेन [^९]प्रनृत्तंकलमूककुब्ज किरातवा-
मनबधिरजडजनपुरःसरेणोत्तरीयांशुक -
प्
ग्रीवाबद्धावकृष्टविडँ [^१०]विड- म्बितजरत्कञ्चुकिकै [^११]कदम्बकेन वीणावेणुमुरजकांस्यताल-
लयानुगतेन कल-

 
[ टि ]--
मुत्सवमकारयत्कारयामासति दूरेणान्वयः । कीदृशो राजा । अन्तःपुरिकाजनेनानुगम्यमानोऽनु पश्चात्तदनन्तरं

गन्तुं योग्य इत्यर्थः । अथ चान्तःपुरिकाजनं विशेषयन्नाह –चरणेति । चरणानां पादानां प्रमोदातिरेकाद्य-

द्विकुट्टनमास्फालनं तेन क्वणितं शब्दितं यन्नूपुरसहस्रं पादकटकसहस्रं तेन मुखरितं वाचालितं दिगन्तरं

दिङ्मध्यं येन स तेन । सरभसेति । सरभसेन वेगेन य उत्क्षेपो भुजानां चालनं तेन चालिता कम्पिता या

मणिवलयावली रत्नकङ्कणश्रेणी तया वाचालिता मुखरिता भुजलता बाहुलता यस्य सः तथा तेन । हर्षव-

शादूवकृतैरु चैर्विहितैरुत्तानतलैः संमुखतलैः करपुटैर्हस्तपुटै र निललुलितां वायुना विलुठितामाकाशकमलिनी

व्योमपद्मिनीमिव दर्शयंता प्रकाशयता । पर्यस्तेति । पर्यस्ता विक्षिप्ता मृदिताश्चूर्णिताः कर्णपल्लवा येन स तथा

सेन । परस्परेति । परस्परमन्योन्यमङ्गदानां बाहुवलयानां या कोटिरग्रभागस्तस्याः संघट्टोऽभिघातस्तेनेव

दष्टमिव पाटितं छिन्नमुत्तरीयांशुकं यस्य स तेन । संघट्टवशाच्छ्रमजलेन धौतः क्षालितो योऽङ्गरागो विलेपनं

तेन रञ्जितानि नवीनवासांसि नव्यवस्त्राणि यस्य स तेन । किंचिदिति । किंचित् अवशिष्टं उर्वरितं तमा-

लपत्रं यस्य स तेन । इतरेषां भूषणानां वस्त्राणां च संमदेवशान्निपतनमभूत् । तमालपत्रं तु महता क्लेशेन

सौभाग्यमण्डननिमित्तकत्वाव्यवस्थापितमिति भावः । विलसन्त्यो या वारविलासिन्यो वारयोषितस्तासां हसि-

तैर्हास्यैः । उन्निद्रेति । उन्निद्राणि विकसितानि यानि कैरववनानि तेषामनुकारं सादृश्यं प्रथयता विस्ता-

रयता । सरभसेति । सरभसं सवेगं यद्वानं परस्परमङ्गानामामोटनं तेन स्खलन्तीर्लोलाश्चपला या हार-

लता मुक्तालतास्ताभिरास्फालितमाहतं कुचस्थलं यस्य स तेन । सिन्दूरेति । सिन्दूरं नागजं तेन जनितं

यत्तिलकं पुण्ड्रं तत्र श्रमवशाल्लुलिता लुठिता अलकलेखा यस्य स तेन । अत्र लेखाशब्देन ततिरुच्यते । तेन

कियतामलकानां तत्रावस्थितिर्न तु सर्वेषामिति भावः । विप्रेति । विप्रकीर्णो विक्षिप्तो यः पिटात एव पिष्टा-

तकः । स्वार्थे कः पटवासकस्तस्य पांसुपुञ्ज धूलिसमूहस्तेन पिञ्जरितः पीतरक्ततां प्राप्तः केशपाशो यस्य स तेन ।

प्रनृत्तेति । प्रवृत्ताः स्वयमेवारब्धताण्डवाः कला मनोज्ञाः, मूका अस्फुटवाचः, कुब्जा: पूर्वोत्तलक्षणाः;

किराताः स्वल्पतनवः, वामनाः पूर्वव्याख्याताः, बधिरा अकर्णाः, जडा मूर्खाः, एवंविधा जनाः पुरःसरा अग्र-

गामिनो यस्य स तेन । उत्तरीयेति । उत्तरीयांशुकेन प्रच्छादनवस्त्रेण ग्रीवायां कन्धरायां बद्धं संयमितम-

वकृष्टमाकृष्टमत एव विडम्बितं विडम्बनां प्रापितं जरत्कञ्चुकिकदम्बकं येन स तेन । वीणेति । वीणा वल्लकी,
 

 
टिप्प० -1 सरभसं वेगेन इत्युचितम् । 2 संमुखतलानां हस्तानामुपरि उत्थापनात् आकाशकमलिनी

( कमलपुष्पयुक्ता कमलिनी, वृक्षः ) दर्शितेत्यर्थः । 3 संघट्टेन पूर्व दष्टानि विद्धानि ततः पाटितानि उत्त-

रीयांशुकानि यस्य तेनेत्यर्थ उचितः । 4 तिलकम् । 'तमालपत्रं तिलके तापिच्छे पत्रकेऽपि च' इति हैमः ।

5 स्स्वलन्त्य इत्यर्थः। 6 असौष्ठवं टीकाकृतः । 'प्रवृत्य विकल' इति पाठः । 'विशेषनर्तनेन विह्वला मूकाः,

इति तदर्थः ।
 

 
पाठा० - १ चलित; वलित २ भुजवलयेन. ३ लुण्ठिताम्. ४ आकाशगङ्गा. ५ चीन; स्वच्छचीन; चीर.

६ चलन. ७ लोलित. ८ पांसुपिञ्जरित ९ प्रणत्यविकल; प्रनृत्तकल; प्रवृत्तकल, १० विलम्बित ११ कदम्मेन.

१२ अनुयातेन.