2023-12-15 07:11:47 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१६४
 
कादम्बरी ।
 
[ कथायाम् -
 
युगलम् । एष च दुन्दुभेरिवातिगम्भीरः स्वरयोगोऽस्य रुदतः श्रूयते।' इत्येवं कथयत्येव
तस्मिन्ससंभ्रमापसृतेन राजलोकेन [^१]द्वारि- स्थितेन दत्तमार्गस्त्वरितगतिरागत्य प्रहर्षोद्गमपुलकित-
तनुः स्फारी- भवल्लोचनो मे[^२]मङ्गलकनामा प्रहृष्ठवंट [^३]वदनः पुरुषः पादयोः प्रणम्य राजानं व्यजिज्ञ
पत् - 'देव, दिध्ष्ट्या र्धसे । प्रतिहतास्ते शत्रवः । चिरं जीव । [^३]जय [^४]पृथिवीम्। त्वत्प्र
सादादत्रभवतः शुकनासस्यापि ज्येष्ठायां ब्राह्मण्यां मनोरमाभिधानायां राम इव रेणुकायां
तनयो जादःत:, श्रुत्वा देवः प्रमाणम्' इति ।
 

 

 
अथ [^६]नृपतिरमृतवृष्टिप्रतिममाकर्ण्य तद्वचनं प्रीतिविस्फारिता-
क्षः प्रत्यवदत् - 'अहो कल्याण-
परम्परा । सत्योऽयं [^७]लोकप्रवा- दो यद्विपद्विपदं संपत्संपद [^८]मनुबध्नातीति । सर्वथा समानसुख- दु:-
खतां दर्शयता विधिनापि भवतेव वयमनुवर्तिताः' इत्यभिधाय प्रीतिविकसितमुखः सरभसमा-
लिङ्ग्य विहसन्स्वयमेव शुकनास- स्योत्तरीयं पूर्णपात्रं जहार । तस्मै च प्रीतमनाः प्रियवचना-
नुरूपं पुरुषायापरिमितं पारितोषिकमादिदेश । उत्थाय च तथैव तेन चरण विकुंदन क [^१०]कुट्टुनक्वणि [^११]तनू-

 
[ टि ] --
संश्लेषस्तत्रोचितं योग्यमेवंविधं चरणयुगलं पादद्वितयम् । चिह्नान्तरमाह - एष चेति । अस्य बालस्य रुदत
एष समीपतरवर्ती दुन्दुभेरिव पटहस्येवातिगम्भीरोऽतिमन्द्रः स्वरयोगो ध्वनिसंबन्धः श्रूयत आकर्ण्यते । इत्येवं
पूर्वोक्त प्रकारेण कथयत्येवेति क्रियासंगते-
नैवकारेण सामानाधिकरण्यमुच्यत इति । तस्मिञ्शुकनाशे कथ- यत्येव
ब्रुवत्येव मङ्गलकनामा पुरुषो राजानं पादयोश्चरणयोः प्रणम्य व्यजिज्ञपद्विज्ञापनां चकार । मङ्गलकं विशेष-
यन्नाह - दत्तेति । दत्तो मार्गो यस्येति स तथा । केन । राजलोकेन राजसमूहेन । कीदृशेन । द्वारि स्थितेन
प्रतीहारस्थितेन । पुनः कीदृशेन । ससंभ्रमं सत्वर- मपसृतेन दूरीभूतेन । त्वरितं ( ता ) शीघ्रं ( घ्रा ) गतिर्गम
नं यस्य स तथा । प्रहर्षेति । प्रहर्षोद्गमेन प्रमोदोद्गमेन पुलकित ( ता ) कण्ट- कितं ( ता ) तनुर्यस्य सः । स्फारी [^1]भवती
विस्तीर्णतां प्राप्य- माणे लोचने यस्य सः । प्रहृष्टं सहर्षं वदनं यस्य सः । देव खास्वामिन्, त्वं दिष्ट्या भाग्येन वर्धस
एधसे । ते शत्रवः प्रतिहताः क्षयं प्राप्ताः । चिरं बहुकालं जीव प्राणिहि । पृथिवीं वसुंधरां जय गृहाण
त्वत्प्र
। त्वत्प्र- सादात्त्व माहात्म्यादत्रभवतः पूज्यस्य शुकनासस्यापि ज्येष्ठायां ब्राह्मण्याम् । इत्यनेन हर्षातिशयः सूचितः
शूद्रायां त्वनौचित्यात् 'तत्रायं जायते स्वतः' इत्युक्तत्वात् । मनोरंमेत्यभिधानं नाम यस्याः सा तस्याम् । कस्यां
क इव । रेणुकायां तुलजायां राम इव परशु- राम इव तनयः पुत्रो जातः समुत्पन्नः । श्रुत्वेति । श्रुत्वा
एतदाकर्ण्य देवो भवान्प्रमाणमिति यदाज्ञापयति देवस्तदेव कर्तव्यमिति भावः ।
 

 
अथेति । अथ एतदाकर्णनानन्तरं नृपती राजाऽमृतस्य पीयूषस्य या वृष्टिर्वर्षणं तत्प्रतिमं तुल्यं तद्वचनं
मङ्गलकवच आकर्ण्य श्रुत्वा । प्रीतीति । प्रीत्या स्नेहेन विस्फारिते विस्तारिते अक्षिणी येनेति बहु- व्रीहिः । ततो
डः समासान्तः डित्वाहिट्टिलोपः प्रत्यवदत्प्रत्यवोचत् । अहो इत्याश्चर्ये । कल्याणपरम्परा श्रेयःसंततिः । अतो
ज्ञायत इति । सत्योऽयमवितथोऽयं लोकप्रवादो जनानां चिरंतनो वचनव्यापारः । इतिवाच्यं दर्शयन्नाह -
यदिति । यत् यस्माद्धेतोर्विपदं विपत्, सम्पदं सम्पदनुबध्नात्यनुगच्छति । सर्वथा सर्वप्रकारेण समानं सुखदुःखं

ययोस्तयोर्भावस्तत्ता तां दर्शयता ज्ञापयता विधिनापि भवतेव वयमनुवर्तिताः पुत्रोत्पत्तिभ्यां निर्मिताः, यथा
पुत्रप्राध्प्त्या मत्साम्यं तव, तथा भवतेव ममापि साम्यमिति भावः । इत्यभिधायेत्युक्त्वा प्रीत्याभ्यन्तरस्ने
हेन विकसितं विमुद्रं मुखं यस्य सः । सरभसं वेगेनालिङ्ग्योपगूहनं कृत्वा विहसन्स्मितं कुर्वन्स्वयमेवात्मनैव

शुकनासस्योत्तरीयं निवसनं पूर्णपात्रं पूर्वं व्याख्यातस्वरूपं जहार हृतवान् । तस्मै शुभशंसिने पुरुषाय नराय
प्रीतमनाः संतुष्टचित्तः प्रियमिष्टं यद्वचनं तस्यानुरूपं योग्यमपरिमितं संख्यातीतं पारि- तोषिकं संतोषप्रयुक्तं दातुमा-
दिदेशाज्ञां दत्तवान् । उत्थाय चेति । तथैव तेनैव प्रकारेण उत्थायोत्थानं कृत्वा शुक्रनासभवनं गत्वा द्विगुणतर-
टिप्प० -

 
[^
1]F. भवन्ती इत्येवोचितम्, शप्श्यनोर्नित्यं नुम्शासनात् ।
 
पाठा०- -

 
[^
]G. द्वारस्थितेन.
[^
]G. मङ्गल.
[^
]G. वदनपुरुषः .
[^
]G. जय च.
[^
]G. पृथिवीं प्रतिपालय.
[^
]G. भूपतिः.
[^
]G. जन-
प्रवाद:, .
[^
]G. अनुबध्नाति .
[^
]G. प्रियवचनश्रवणानुरूपम् .
[^
१०]G. विघट्टन; कुट्टन.
[^
११]G. मणिनूपुर.