कादम्बरी /197
This page has not been fully proofread.
१६४
कादम्बरी ।
[ कथायाम् -
युगलम् । एष च दुन्दुभेरिवातिगम्भीरः स्वरयोगोऽस्य रुदतः श्रूयते । इत्येवं कथयत्येव
तस्मिन्ससंभ्रमापसृतेन राजलोकेन द्वारिस्थितेन दत्तमार्गस्त्वरितगतिरागत्य प्रहर्षोद्गमपुलकित-
तनुः स्फारीभवल्लोचनो मेङ्गलकनामा प्रहृष्ठवंदनः पुरुषः पादयोः प्रणम्य राजानं व्यजिज्ञ
पत् - 'देव, दिध्या बर्धसे । प्रतिहतास्ते शत्रवः । चिरं जीव जय पृथिवीम्। त्वत्प्र
सादादत्रभवतः शुकनासस्यापि ज्येष्ठायां ब्राह्मण्यां मनोरमाभिधानायां राम इव रेणुकायां
तनयो जादः, श्रुत्वा देवः प्रमाणम्' इति ।
।
अथ नृपतिरमृतवृष्टिप्रतिममाकर्ण्य तद्वचनं प्रीतिविस्फारिताक्षः प्रत्यवदत् - 'अहो कल्याण-
परम्परा । सत्योऽयं लोकप्रवादो यद्विपद्विपदं संपत्संपदमनुबध्नातीति । सर्वथा समानसुखदु:-
खतां दर्शयता विधिनापि भवतेव वयमनुवर्तिताः' इत्यभिधाय प्रीतिविकसितमुखः सरभसमा-
लिङ्ग्य विहसन्स्वयमेव शुकनासस्योत्तरीयं पूर्णपात्रं जहार । तस्मै च प्रीतमनाः प्रियवचना-
नुरूपं पुरुषायापरिमितं पारितोषिकमादिदेश । उत्थाय च तथैव तेन चरण विकुंदन कणितनू-
संश्लेषस्तत्रोचितं योग्यमेवंविधं चरणयुगलं पादद्वितयम् । चिह्नान्तरमाह - एष चेति । अस्य बालस्य रुदत
एष समीपतरवर्ती दुन्दुभेरिव पटहस्येवातिगम्भीरोऽतिमन्द्रः स्वरयोगो ध्वनिसंबन्धः श्रूयत आकर्ण्यते । इत्येवं
पूर्वोक्त प्रकारेण कथयत्येवेति क्रियासंगतेनैवकारेण सामानाधिकरण्यमुच्यत इति । तस्मिञ्शुकनाशे कथयत्येव
ब्रुवत्येव मङ्गलकनामा पुरुषो राजानं पादयोश्चरणयोः प्रणम्य व्यजिज्ञपद्विज्ञापनां चकार । मङ्गलकं विशेष-
यन्नाह - दत्तेति । दत्तो मार्गो यस्येति स तथा । केन । राजलोकेन राजसमूहेन । कीदृशेन । द्वारि स्थितेन
प्रतीहारस्थितेन । पुनः कीदृशेन । ससंभ्रमं सत्वरमपसृतेन दूरीभूतेन । त्वरितं ( ता ) शीघ्रं ( घ्रा ) गतिर्गमन
यस्य स तथा । प्रहर्षेति । प्रहर्षोद्गमेन प्रमोदोद्गमेन पुलकित ( ता ) कण्टकितं ( ता ) तनुर्यस्य सः । स्फारीभवती
विस्तीर्णतां प्राप्यमाणे लोचने यस्य सः । प्रहृष्टं सहर्ष वदनं यस्य सः । देव खामिन, त्वं दिष्ट्या भाग्येन वर्धस
एधसे । ते शत्रवः प्रतिहताः क्षयं प्राप्ताः । चिरं बहुकालं जीव प्राणिहि । पृथिवीं वसुंधरां जय गृहाण ।
त्वत्प्रसादात्त्व माहात्म्यादत्रभवतः पूज्यस्य शुकनासस्यापि ज्येष्ठायां ब्राह्मण्याम् । इत्यनेन हर्षातिशयः सूचितः ।
शूद्रायां त्वनौचित्यात् 'तत्रायं जायते स्वतः' इत्युक्तत्वात् । मनोरंमेत्यभिधानं नाम यस्याः सा तस्याम् । कस्यां
क इव । रेणुकायां तुलजायां राम इव परशुराम इव तनयः पुत्रो जातः समुत्पन्नः । श्रुत्वेति । श्रुत्वा
एतदाकर्ण्य देवो भवान्प्रमाणमिति यदाज्ञापयति देवस्तदेव कर्तव्यमिति भावः ।
अथेति । अथ एतदाकर्णनानन्तरं नृपती राजाऽमृतस्य पीयूषस्य या वृष्टिर्वर्षणं तत्प्रतिमं तुल्यं तद्वचनं
मङ्गलकवच आकर्ण्य श्रुत्वा । प्रीतीति । प्रीत्या स्नेहेन विस्फारित विस्तारिते अक्षिणी येनेति बहुव्रीहिः । ततो
डः समासान्तः डित्वाहिलोपः प्रत्यवदत्प्रत्यवोचत् । अहो इत्याश्चर्ये । कल्याणपरम्परा श्रेयःसंततिः । अतो
ज्ञायत इति । सत्योऽयमवितथोऽयं लोकप्रवादो जनानां चिरंतनो वचनव्यापारः । इतिवाच्यं दर्शयन्नाह -
यदिति । यत् यस्माद्धेतोर्विपदं विपत्, सम्पदं सम्पदनुबनात्यनुगच्छति । सर्वथा सर्वप्रकारेण समानं सुखदुःखं
ययोस्तयोर्भावस्तत्ता तां दर्शयता ज्ञापयता विधिनापि भवतेव वयमनुवर्तिताः पुत्रोत्पत्तिभ्यां निर्मिताः, यथा
पुत्रप्राध्या मत्साम्यं तव तथा भवतेव ममापि साम्यमिति भावः । इत्यभिधायेत्युक्त्वा प्रीत्याभ्यन्तरस्ने
हेन विकसितं विमुद्रं मुखं यस्य सः । सरभसं वेगेनालिजयोपगूहनं कृत्वा विहसन्स्मितं कुर्वन्स्वयमेवात्मनैव
शुकनासस्योत्तरीयं निवसनं पूर्णपात्रं पूर्व व्याख्यातस्वरूपं जहार हृतवान् । तस्मै शुभशंसिने पुरुषाय नराय
प्रीतमनाः संतुष्टचित्तः प्रियमिष्टं यद्वचनं तस्यानुरूपं योग्यमपरिमितं संख्यातीतं पारितोषिकं संतोषप्रयुक्तं दातुमा-
दिदेशाज्ञां दत्तवान् । उत्थाय चेति । तथैव तेनैव प्रकारेण उत्थायोत्थानं कृत्वा शुक्रनासभवनं गत्वा द्विगुणतर-
टिप्प० - 1 भवन्ती इत्येवोचितम्, शप्इयनोर्नित्यं नुशासनात् ।
पाठा०- -१ द्वारस्थितेन. २ मङ्गल. ३ वदनपुरुषः ४ जय च. ५ पृथिवीं प्रतिपालय. ६ भूपतिः. ७ जन-
प्रवाद:, ८ अनुबध्नाति ९ प्रियवचनश्रवणानुरूपम् १० विघटन कुट्टन. ११ मणिनूपुर.