2023-12-14 08:11:13 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

जातस्य कुमारस्य वर्णनम् ]
 
पूर्वभागः ।
 

 
माहा [^१]त्म्यमाविर्भावयन्ति चक्रवर्तिचिह्नानि तथा हि । अस्य [^२]संध्यांशुकरक्तबालशशिकलाकारे
लै
[^३]ललाटपट्टे नॅ[^४]नलि- ननालभङ्गतन्तुतन्वीयमूर्णा परिस्फुरति । एतद्विकचपुण्डरी कधवलं कर्णान्तायतं
मुहुर्मुहुरुन्मिषितैर्धवलयतीव वासभवनमरालपक्ष्म लोचनयुगलम् । [^५]विजृम्भमाणकमलकोश-
परिमलमनोहरमिय- मस्य सहजमाननामोदमाजिघ्रतीव [^६]दूरायता कनकलेखेव नासिका ।
[^७]रक्तोत्पलकलिका कारमुद्वहतीव चो [^८]व [^९]चा- स्याधररुचकम् । रक्तोत्पलकॅ [^१०]कलिकालोहिततलौ भगवतो

विष्टरश्रवस इव शङ्खचक्रचिह्नौ प्रशस्तलेखालाञ्छितौ करौ । अभिनव कल्पतरुपल्लवकोमलं
लेखामयैर्ध्वजरथतुरगातपत्रकमलै-
लंकृतमनेनरेन्द्र सहस्रचूडामणिचक्रचुम्बनो चितं चरण-
१६३
 

 

 

 
[ टि ] -- [^1]
दस्फुटा नामव्यक्तानामवयवानामपघनानां शोभा यस्यैवंभूतस्यापि चक्रवर्ती सार्वभौमस्तद्वच्चिह्नानि सामुद्रिक -

शास्त्रोक्तानि माहात्म्यं महापुरुषत्वमाविर्भावयन्ति प्रकटीकुर्वन्ति । तदेव दर्शयन्नाह - तथा हीति । 'अस्य'
इत्यारभ्य 'रुदतः श्रूयते' इतिपर्यन्तं प्रघट्टकः । संध्यांशव एव संध्यां [^2]शुकाः । खास्वार्थे कः । तै रक्ता लोहिता या
बालशशिनः प्रतिपच्चन्द्रस्य कला तस्या आकार आकृतिर्यस्यैवंविधे ललाटपट्टे भालस्थले नलिननालं मृणालं तस्य
भङ्गाच्छेदा दन्तस्तन्तु र्निःसरति तद्वत्तन्वी सूक्ष्मा इयं [^3]ऊर्णा रोमपद्धतिः परिस्फुरति । एतल्लक्षणद्वयं चक्रवर्तिन
एव स्यादिति भावः । अरालं वक्रं पक्ष्म नेत्ररोम [^4]यस्मिन्नेवंभूतमेतल्लोच युगलं मुहुर्मुहुरुन्मिषितै र्निमेषोन्मेषैर्वासभवनं धवलयतीव शुभ्री-
भवनं धवलयतीव शुश्री
कुर्वन्नि ( करोती )व कीदृशम् । विकचं यत्पुण्डरीकं सिताम्भोजं तद्वद्धवलम् ।
कर्णान्तं यावदायतं विस्तृतम् । विजृम्भेति । विजृम्भ- माणः सर्वतः प्रसृतो यः कमलकोशस्तस्य परिमलस्त-
द्वन्मनोहरं चार्वस्था- ननामोदं सहज स्वारसि ( भावि ) कमियं नासिका नासा जिघ्रतीव गन्धोपादानं कुर्व ( करो ) तीव
दूरायता दूरमत्यर्थमुच्छ्रिता । केव कनकलेखेव सुवर्णलेखेव रक्तोत्पलं कोकनदं तस्य या कलिंलिका तस्या
आकारो यैस्मिन्नेवंभूतमधररुचकमधरलक्षणं रुचकं मङ्गल-द्रव्यं मणिविशेषं वोद्वतीवोद्वहनं कुर्व ( करो ) तीव ।
'रुचकं मङ्गलद्रव्ये बीजपूरे ससैन्धवे' इत्यनेकार्थः । चिह्नान्तरमाह - रक्तेति । रक्तोत्पलस्य कलिकावल्लोहितौ
रक्तौ तलौ ययोस्तौ भगवतो माहात्म्यवतो विष्टरश्रवस इवे [^5]न्द्रस्येव शङ्खः कम्बुः, चक्रं प्रसिद्धम्, एतयोश्चिह्नं
ययोरेतादृशौ करौ हस्तौ । इन्द्रस्यापि करौ शङ्खचक्रलाञ्छितौ भवतः । विष्णोरनुजत्वादिति भावः । कर- योरेव
द्वितीयं चिह्नमाह - प्रशस्तेति । प्रशस्ता लक्षणोपेता या लेखा [^6]रेखा तथा लाञ्छितौ चिह्नितौ करौ हस्तौ ।
चरणयोरप्याह – अभिनवेति । अभिनवाः प्रत्यग्रा ये कल्पतरुपल्लवाः पारिजातकिस- लयास्तद्वत्कोमलं मृदु ।
इत्येकं लक्षणम् । पञ्चभिर्द्वितीयमाह - लेखेति । लेखामयै रेखानिष्पन्नैः । ध्वजरथतुरगातपत्रकमलै-
रिति । ध्वजः पताका, रथः स्यन्दनः, तुरगो ययुः, आतपत्रं छत्रम्, कमलं नलिनम्, एतैरलंकृतं भूषितम् ।
वैभवमाह ——- अनेकेति । अनेके ये नरेन्द्रा राजानस्तेषां सहस्रं तस्य चूडामणीनां चक्रं समूहस्तेन चुम्बनं
 
टिप्प० -

 
[^
1]F. पीडनवशादस्फुटा सर्वतोभावेन अव्यक्ता अवयवशोभा यस्य तादृशस्यापि । इत्युचितम् ।

[^
2]F. ' सन्ध्यांगुरशुरक्त' इत्येव पाठः, निरर्थक'क' प्रत्ययस्य कवेर- नभिमतत्वात् ।
[^
3]F. भ्रूयुगलमध्यवर्तिनी 'ऊर्जा
मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः' इत्यमरः ।
[^
4]F. अस्य अधरो रुचकमिव अधररुचकम् ( बिम्बाकारं

मङ्गलद्रव्यम् ) रक्तोत्पलस्य या कलिका तस्या आकारमुद्हतीव, इति व्याख्योचिता ।
[^
5]F. ' वैकुण्ठो विष्ट-
रश्रवाः' इति विष्णुरेवार्थः । भगवत इति विशेषणस्वारस्यात्, शङ्खचक्रयोर्विष्णौ प्रसिद्धत्वाच्च, इन्द्रस्य

विष्टरश्रवः पदेनाप्रयुक्तत्वाच्च सोयं प्रमाद एव ।
[^
6]F. प्रशस्ताः याः अङ्कुशादिरेखा : ताभिरिति बहुवचन-
मुचितम् ।
 
पाठा०
- तम् ।
 
[^
]G. आविर्भावयन्तीव.
[^
]G. संध्यांशुरक्त.
[^
]G. ललाटपट्टे च.
[^
]G. नवनलिन.
[^
]G. विजृम्भमाणकोश.

[^
]G. दूरादायता.
[^
]G. रक्तोत्पलनिकरम्; रक्तोत्पलकलिकानुरागम् .
[^
]G. इवास्य; एतस्य .
[^
]G. चास्याधरकम् ; चास्याधरपुटकम्,
.
[^
१०]G. कलिकाकारलोहित,
 
.