कादम्बरी /196
This page has not been fully proofread.
जातस्य कुमारस्य वर्णनम् ]
पूर्वभागः ।
।
माहात्म्यमाविर्भावयन्ति चक्रवर्तिचिह्नानि तथा हि । अस्य संध्यांशुकरक्तबालशशिकलाकारे
लैलाटपट्टे नॅलिननालभङ्गतन्तुतन्वीयमूर्णा परिस्फुरति । एतद्विकचपुण्डरी कधवलं कर्णान्तायतं
मुहुर्मुहुरुन्मिषितैर्धवलयतीव वासभवनमरालपक्ष्म लोचनयुगलम् । विजृम्भमाणकमलकोश-
परिमलमनोहरमियमस्य सहजमाननामोदमाजिघ्रतीव दूरायता कनकलेखेव नासिका ।
रक्तोत्पलकलिका कारमुद्वहतीव चोस्याधररुचकम् । रक्तोत्पलकॅलिकालोहिततलौ भगवतो
विष्टरश्रवस इव शङ्खचक्रचिह्नौ प्रशस्तलेखालाञ्छितौ करौ । अभिनव कल्पतरुपल्लवकोमलं
लेखामयैर्ध्वजरथतुरगातपत्रकमलैर लंकृतमने क नरेन्द्र सहस्रचूडामणिचऋचुम्बनो चितं चरण-
१६३
।
।
दस्फुटा नामव्यक्तानामवयवानामपघनानां शोभा यस्यैवंभूतस्यापि चक्रवर्ती सार्वभौमस्तद्वच्चिह्नानि सामुद्रिक -
शास्त्रोक्तानि माहात्म्यं महापुरुषत्वमाविर्भावयन्ति प्रकटीकुर्वन्ति । तदेव दर्शयन्नाह - तथा हीति । 'अस्य'
इत्यारभ्य 'रुदतः श्रूयते' इतिपर्यन्तं प्रघट्टकः । संध्यांशव एव संध्यांशुकाः । खार्थे कः । तै रक्ता लोहिता या
बालशशिनः प्रतिपचन्द्रस्य कला तस्या आकार आकृतिर्यस्यैवंविधे ललाटपट्टे भालस्थले नलिननालं मृणालं तस्य
भङ्गाच्छेदा दन्तस्तन्तु र्निःसरति तद्वत्तन्वी सूक्ष्मा इयं ऊर्णा रोमपद्धतिः परिस्फुरति । एतल्लक्षणद्वयं चक्रवर्तिन
एव स्यादिति भावः । अरालं वक्रं पक्ष्म नेत्ररोम यस्मिन्नेवंभूतमेतल्लोचनयुगलं मुहुर्मुहुरुन्मिषितै र्निमेषोन्मेषैर्वास-
भवनं धवलयतीव शुश्रीकुर्वन्नि ( करोती )व कीदृशम् । विकचं यत्पुण्डरीकं सिताम्भोजं तद्वद्धवलम् ।
कर्णान्तं यावदायतं विस्तृतम् । विजृम्भेति । विजृम्भमाणः सर्वतः प्रसृतो यः कमलकोशस्तस्य परिमलस्त-
द्वन्मनोहरं चार्वस्थाननामोदं सहज स्वारसि ( भावि ) कमियं नासिका नासा जिघ्रतीव गन्धोपादानं कुर्व ( करो ) तीव
दूरायता दूरमत्यर्थमुच्छ्रिता । केव कनकलेखेव सुवर्णलेखेव रक्तोत्पलं कोकनदं तस्य या कलिंका तस्या
आकारो यैस्मिन्नेवंभूतमधररुचकमधरलक्षणं रुचकं मङ्गलद्रव्यं मणिविशेषं वोद्वतीवोद्वहनं कुर्व ( करो ) तीव ।
'रुचकं मङ्गलद्रव्ये बीजपूरे ससैन्धवे' इत्यनेकार्थः । चिह्नान्तरमाह - रक्तेति । रक्तोत्पलस्य कलिकावलोहितौ
रक्तौ तलौ ययोस्तौ भगवतो माहात्म्यवतो विष्टरश्रवस इवेन्द्रस्येव शङ्खः कम्बुः, चक्रं प्रसिद्धम्, एतयोश्चिह्नं
ययोरेतादृशौ करौ हस्तौ । इन्द्रस्यापि करौ शङ्खचक्रलाञ्छितौ भवतः । विष्णोरनुजत्वादिति भावः । करयोरेव
द्वितीयं चिह्नमाह - प्रशस्तेति । प्रशस्ता लक्षणोपेता या लेखा रेखा तथा लाञ्छितौ चिह्नितौ करौ हस्तौ ।
चरणयोरप्याह – अभिनवेति । अभिनवाः प्रत्यग्रा ये कल्पतरुपलवाः पारिजातकिसलयास्तद्वत्कोमलं मृदु ।
इत्येकं लक्षणम् । पञ्चभिर्द्वतीयमाह - लेखेति । लेखामयै रेखानिष्पन्नैः । ध्वजरथतुरगातपत्रकमलै-
रिति । ध्वजः पताका, रथः स्यन्दनः, तुरगो ययुः, आतपत्रं छत्रम्, कमलं नलिनम्, एतैरलंकृतं भूषितम् ।
वैभवमाह —— अनेकेति । अनेके ये नरेन्द्रा राजानस्तेषां सहस्रं तस्य चूडामणीनां चक्रं समूहस्तेन चुम्बनं
टिप्प० - 1 पीडनवशादस्फुटा सर्वतोभावेन अव्यक्ता अवयवशोभा यस्य तादृशस्यापि । इत्युचितम् ।
2 ' सन्ध्यांगुरत' इत्येव पाठः, निरर्थक'क' प्रत्ययस्य कवेरनभिमतत्वात् । 3 भ्रूयुगलमध्यवर्तिनी 'ऊर्जा
मेषादिलोनि स्यादावर्ते चान्तरा भ्रुवोः' इत्यमरः । 4 अस्य अधरो रुचकमिव अधररुचकम् ( बिम्बाकारं
मङ्गलद्रव्यम् ) रक्तोत्पलस्य या कलिका तस्या आकारमुद्दहतीव, इति व्याख्योचिता । 5 ' वैकुण्ठो विष्ट-
रश्रवाः' इति विष्णुरेवार्थः । भगवत इति विशेषणस्वारस्यात्, शङ्खचक्रयोर्विष्णौ प्रसिद्धत्वाच्च, इन्द्रस्य
विष्टरश्रवः पदेनाप्रयुक्तत्वाच सोयं प्रमाद एव । 6 प्रशस्ताः याः अङ्कुशादिरेखा : ताभिरिति बहुवचन-
मुचितम् ।
पाठा० -१ आविर्भावयन्तीव. २ संध्यांशुरक्त. ३ ललाटपट्टे च. ४ नवनलिन. ५ विजृम्भमाणकोश.
६ दूरादायता. ७ रक्तोत्पलनिकरम्; रक्तोत्पलकलिकानुरागम् ८ इवास्य; एतस्य ९ चास्याधरकम् ; चास्याधरपुटकम्,
१० कलिकाकारलोहित,