2023-12-14 05:56:41 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१६२
 
कादम्बरी ।
 
[ कथामुखै -
 
."
 

पल्लत्रम्, उत्फुल्लमिव रक्तारविन्दराशिम्, अवनिदर्शनावतीर्णमिव लोहिताङ्गम्, विद्रुमकिसल-
यदलैरिव बालातपच्छेदैरिव पद्मराग- रश्मिभिरिव रै[^१]रचितावयवम्, अनभिव्यक्तमुखपञ्चकमिव
महा- सेनम्, सुरवनिताकैर [^२]कर [^३]परिभ्रष्टमिवामरपति [^४]कुमा- रकम्, उत्तप्तकल्याणकार्तस्वरभास्वरैया
[^५]स्वरया स्वदेहप्रभया पूर- यन्तमिव वासभवनम्, उद्धाभासमानैः सहजभूषणैरिव महापुरुषलक्ष- णैरुपेतम्,
आगामि कालपालन [^६]प्रहृष्टयेव श्रिया समालिङ्गितम्, आहाह्लादहेतुमात्मजं ददर्श । विगतनि-
मेषनि लॅश्च [^७]लपक्ष्मणा च मुहुर्मुहुः [^८]प्रमृष्टसंघटितानन्द बाप्पै [^९]ष्पपटलप्लुततारकेण [^१०]दूरविस्फारितेन
स्निग्धेन चक्षुषा पिबन्निवालपन्निव स्पृशन्निव मनोरथसहस्रप्राप्तदर्शनं सस्पृहं निरी [^११]क्षमाण-
स्तनयाननं मुमुदे । कृतकृत्यं चात्मानं मेने ।
 
1
 
"
 

 

 
समृद्धमनोरथः शुकनासस्तु शनैः शनैरङ्ग [^१२]प्रत्यङ्गान्यस्य निरूपयन्त्प्रीतिवि [^१३]स्तारितलोचनं
भूमिपालमवादीत्
– 'देव, [^१४]पश्य पश्यास्य कुमारस्य गर्भसंपीडनवशाद [^१५]स्फुटा- वयवशोभस्यापि
 

 
[ टि ]
-
 
- अनुपजातमनुत्पन्नं काठिन्यं जरठता यस्मिन्नेवंभूतं कल्प- तरुपल्लवमिव पारिजातकिसलयमिव । उत्फुल्लं विक-
सितं रक्ता- रविन्दराशिमिव कोकनदसमूहमिव लोहिताङ्गं मङ्गलमवनिदर्शनं पृथिव्या अवलोकनं तदर्थमवती-
र्णमागतमिव । विद्रुमेत्यादि । विद्रु- माणां हेम [^1]कन्दलानां यानि किसलयदलानि तैरिव, बाला- तपस्य नवीना-
तपस्य छेदैः खण्डैरिव, पद्मरागो लोहितमणिस्तस्य रश्मिभिरिव, रचिता निष्पादिता अवयवा अपघना यस्य
स तम् । अनेति । अनभिव्यक्तमप्रकटितं मुखपञ्चकं यस्यैवंभूतं महासेनं कार्तिकेयमिव । सुरेति ।
सुरवनिता देवयोषितस्तासां कराद्ध- स्तात्परिभ्रष्टममरपतिरिन्द्रस्तस्य कुमारकं बालमिव । उत्तप्तं तापितं
यत्कल्याणकारि कार्तस्वरं स्वर्णं तद्वद्भास्वरया दीप्यमानया स्वदेहप्रभया स्वशरीरकान्त्या वासभवनं
पूरयन्तमिव परिपूर्णी- कुर्वन्तमिव । उद्भासेति । उद्भासमानैः शोभमानैः सहजभूषणैरिव स्वाभाविकालंकारै-
रिवं
रिव महापुरुषाश्चक्रवर्त्यादयस्तेषां लक्षणैश्विचिह्नै- रुपेतं सहितम् । आगामीति । आगामिकाले भविष्यत्काले
यत्पा- लनं रक्षणं तस्मात्प्रहृष्टया हर्षितयेव श्रिया लक्ष्म्या समालिङ्गितमुप- गूहितम् । आह्वालादस्य प्रमोदस्य हेतुं
कारणम् । अन्वयस्तु प्रागे- वोक्तः । विगतेति । स राजा चक्षुषा तनयाननं निरीक्षमाणो मुमुदे संतोत्रमवाप ।
अथ चक्षुर्विशेषयन्नाह — विगतो निमेषो यस्मादत एव निश्चलं स्थिरं पक्ष्म यस्य तत्तेन मुहुर्मुहुर्वारंवारं प्रसृष्टः
प्रमार्जितः संघटितः प्रादुर्भूतो य आनन्दबाष्पः प्रमोदाश्रु तस्य पटलं तेन हुप्लुता क्लिन्ना तारका कनीनिका
यस्मिंस्तत्तेन दूरमत्यर्थं विस्फारितेन विस्तारितेन स्निग्धेन चिक्कणेन । एतेनानन्दस्वरूपरसाभिव्यक्तिः सूचिता ।
पिबन्निव । अत्यादरेणावलोकनं पानमुच्यते । आलपन्नि- वालापं कुर्वन्निव । स्पृशन्निव स्पर्शं कुर्वन्निव । मन
इति । मनो- रथानां वाञ्छितानां यत्सहस्रं तेन प्राप्तं दर्शनं यस्य स तम् । सस्पृहं स्पृहासंयुक्तं यथा स्यात्तथेति
क्रियाविशेषणम् । कृतेति । आत्मानं च कृतकृत्यं कृतार्थं मेने ज्ञातवान् ।
 

 
शुक्रनासस्तु समृद्धः संपन्नो मनोरथो यस्यैवंभूतः शनैः शनैरस्य कुमारस्याङ्गं शरीरं प्रत्यङ्गानि हस्तपादादीनि
निरूपयन्विलोकयन् । प्रीतीति । प्रीत्या स्नेहेन विस्तारिते लोचने नेत्रे येनैवंभूतं भूमिपालं नृपतिमवादीदभ्य-
धात् । देवेति । हे देव हे स्वामिन् पश्य पश्य विलोकय विलोकय अस्य कुमारस्य गर्नेभे यत्संपीडनं तद्वशा
 
""
 
टिप्प० -

 
[^
1]F. प्रवालानां वा ।
[^
2]F. धन्यष्टीकाकारः । शुकनासस्य समृद्धमनोरथ ताहर्षसूचनाय प्रीति-
विस्फारितलोचनं यथा स्यात्तथा निरूपयन्निति क्रियाविशेषण- मिदम् ।
 
पाठा० -

 
[^
]G. विरचित.
[^
]G. करतल .
[^
]G. भ्रष्ट.
[^
]G. अमरपतिकुमारम्; अमरकुमारकम् .
[^
]G. भास्वरतया .
[^
]G. प्रहृष्टया
श्रिया.
[^
]G. पक्ष्मणा मुहुर्मुहु: .
[^
]G. संघट्टिता .
[^
]G. बाष्पबिन्दु.
[^
१०]G. दूरम्.
[^
११]G. ईक्षमाण: .
[^
१२]G. बालस्य .
[^
१३]G. विस्फारित-
लोचनम्; विस्फारिताक्षः; विस्फारितलोचनः.
[^
१४]G. पश्यास्य.
[^
१५]G. अपरिस्फुट
 
.