This page has not been fully proofread.

१६२
 
कादम्बरी ।
 
[ कथामुखै -
 
."
 
पल्लत्रम्, उत्फुल्लमिव रक्तारविन्दराशिम्, अवनिदर्शनावतीर्णमिव लोहिताङ्गम्, विद्रुमकिसल-
यदलैरिव बालातपच्छेदैरिव पद्मरागरश्मिभिरिव रैचितावयवम्, अनभिव्यक्तमुखपञ्चकमिव
महासेनम् सुरवनिताकैरपरिभ्रष्टमिवामरपतिकुमारकम् उत्तप्तकल्याणकार्तस्वरभास्वरैया
स्वदेहप्रभया पूरयन्तमिव वासभवनम् उद्धासमानैः सहजभूषणैरिव महापुरुषलक्षणैरुपेतम्,
आगामि कालपालन हृष्टयेव श्रिया समालिङ्गितम्, आहादहेतुमात्मजं ददर्श । विगतनि-
मेषनि लॅपक्ष्मणा च मुहुर्मुहुः प्रमृष्टसंघटितानन्द बाप्पैपटलप्लुततारकेण दूरविस्फारितेन
स्निग्धेन चक्षुषा पिबन्निवालपन्निव स्पृशन्निव मनोरथसहस्रप्राप्तदर्शनं सस्पृहं निरीक्षमाण-
स्तनयाननं मुमुदे । कृतकृत्यं चात्मानं मेने ।
 
1
 
"
 

 
समृद्धमनोरथः शुकनासस्तु शनैः शनैरङ्गप्रत्यङ्गान्यस्य निरूपयन्त्रीतिविस्तारितलोचनं
भूमिपालमवादीत्
– 'देव, पश्य पश्यास्य कुमारस्य गर्भसंपीडनवशास्फुटावयवशोभस्यापि
 
-
 
अनुपजातमनुत्पन्नं काठिन्यं जरठता यस्मिन्नेवंभूतं कल्पतरुपलवमिव पारिजातकिसलयमिव । उत्फुल्ल विक-
सितं रक्तारविन्दराशिमिव कोकनदसमूहमिव लोहिताङ्गं मङ्गलमवनिदर्शनं पृथिव्या अवलोकनं तदर्थमवती-
मागतमिव । विद्रुमेत्यादि । विद्रुमाणां हेमकन्दलानां यानि किसलयदलानि तैरिव, बालातपस्य नवीना-
तपस्य छेदैः खण्डैरिव, पद्मरागो लोहितमणिस्तस्य रश्मिभिरिव, रचिता निष्पादिता अवयवा अपघना यस्य
स तम् । अनेति । अनभिव्यक्तमप्रकटितं मुखपञ्चकं यस्यैवंभूतं महासेनं कार्तिकेयमिव । सुरेति ।
सुरवनिता देवयोषितस्तासां कराद्धस्तात्परिभ्रष्टममरपतिरिन्द्रस्तस्य कुमारकं बालमिव । उत्तप्तं तापितं
यत्कल्याणकारि कार्तस्वरं स्वर्ण तद्वद्भास्वरया दीप्यमानया स्वदेहप्रभया स्वशरीरकान्त्या वासभवनं
पूरयन्तमिव परिपूर्णीकुर्वन्तमिव । उद्भासेति । उद्भासमानैः शोभमानैः सहजभूषणैरिव स्वाभाविकालंकारै-
रिवं महापुरुषाश्चक्रवर्त्यादयस्तेषां लक्षणैश्विरुपेतं सहितम् । आगामीति । आगामिकाले भविष्यत्काले
यत्पालनं रक्षणं तस्मात्प्रहृष्टया हर्षितयेव श्रिया लक्ष्म्या समालिङ्गितमुपगूहितम् । आह्वादस्य प्रमोदस्य हेतुं
कारणम् । अन्वयस्तु प्रागेवोक्तः । विगतेति । स राजा चक्षुषा तनयाननं निरीक्षमाणो मुमुदे संतोत्रमवाप ।
अथ चक्षुर्विशेषयन्नाह — विगतो निमेषो यस्मादत एव निश्चलं स्थिरं पक्ष्म यस्य तत्तेन मुहुर्मुहुर्वारंवारं प्रसृष्टः
प्रमार्जितः संघटितः प्रादुर्भूतो य आनन्दबाष्पः प्रमोदाश्रु तस्य पटलं तेन हुता क्लिन्ना तारका कनीनिका
यस्मिंस्तत्तेन दूरमत्यर्थं विस्फारितेन विस्तारितेन स्निग्धेन चिक्कणेन । एतेनानन्दस्वरूपरसाभिव्यक्तिः सूचिता ।
पिबन्निव । अत्यादरेणावलोकनं पानमुच्यते । आलपन्निवालापं कुर्वन्निव । स्पृशन्निव स्पर्श कुर्वन्निव । मन
इति । मनोरथानां वाञ्छितानां यत्सहस्रं तेन प्राप्तं दर्शनं यस्य स तम् । सस्पृहं स्पृहासंयुक्तं यथा स्यात्तथेति
क्रियाविशेषणम् । कृतेति । आत्मानं च कृतकृत्यं कृतार्थं मेने ज्ञातवान् ।
 
शुक्रनासस्तु समृद्धः संपन्नो मनोरथो यस्यैवंभूतः शनैः शनैरस्य कुमारस्याङ्गं शरीरं प्रत्यङ्गानि हस्तपादादीनि
निरूपयन्विलोकयन् । प्रीतीति । प्रीत्या स्नेहेन विस्तारिते लोचने नेत्रे येनैवंभूतं भूमिपालं नृपतिमवादीदभ्य-
धात् । देवेति । हे देव हे स्वामिन् पश्य पश्य विलोकय विलोकय अस्य कुमारस्य गर्ने यत्संपीडनं तद्वशा
 
""
 
टिप्प० - 1 प्रवालानां वा । 2 धन्यष्टीकाकारः । शुकनासस्य समृद्धमनोरथ ताहर्षसूचनाय प्रीति-
विस्फारितलोचनं यथा स्यात्तथा निरूपयन्निति क्रियाविशेषणमिदम् ।
 
पाठा० -१ विरचित. २ करतल ३ भ्रष्ट. ४ अमरपतिकुमारम्; अमरकुमारकम् ५ भास्वरतया ६ प्रहृष्टया
श्रिया. ७ पक्ष्मणा मुहुर्मुहु: ८ संघट्टिता ९ बाष्पबिन्दु. १० दूरम्. ११ ईक्षमाण: १२ बालस्य १३ विस्फारित-
लोचनम्; विस्फारिताक्षः; विस्फारितलोचनः• १४ पश्यास्य. १५ अपरिस्फुट