2023-12-13 17:50:53 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
सूतिकागृहवर्णनम् ]
पूर्वभागः ।
१६१
मालालंकृतजरच्छागम्, अखिलव्रीहि [^१]मध्यावस्थापितार्यवृद्धा- ध्यासित [^२]शयनीयशिरोभागम्, अ-
नवरतदह्यमानाज्य मिश्रभुज-
गनिर्मो कमेषविषाणक्षोदम्, अनलप्पुअनलप्लुष्यमाणारिष्टतै [^३]तरुपल्लवो- ल्लसित-
रक्षाधूमगन्धम्, अध्ययनमुखरद्विजगण विप्रकीर्यमाणशान्त्यु- दकलवम्, अभिनवलिखितमा-
तृपदपूजाव्यग्रधात्रीजनम्, अनेक- वृद्धाङ्गनारब्धसूतिका मङ्गलगीतिकामनोहरम्, उपपाद्यमा-
नस्वस्त्यनस्वस्त्य- यनम्, क्रियमाणशिशुरक्षाबलि विधानम्, आबद्ध्यमानधवलकुसुम- दामशतम्, अवि-
च्छिन्नपठ्यमाननारायणनामसहस्रम्, अमलहाट-
क यष्टिप्रतिष्ठापितैरन्तः शुभशतानीव निश्चल-
शिखैर्ध्यायद्भिर्मङ्गल- प्रदीपै रुद्भासितम्, [^४]उत्खातासिलतासनाथपाणिभिः सर्वतो रक्षापुरुषैः
परिवृत्तं सूतिकागृहमै [^५]मदर्शत् ।
a
१
d
अम्भः पावकं च स्पृष्ट्वा विवेश । प्रविश्य च प्रसवपरिक्षामपाण्डु- मूर्तेरुत्सङ्गगतं विलास-
वत्या:, स्वप्रभासमुदयोपहतगर्भगृहमं [^६]प्र- दीपप्रभम्, अपरित्यक्तगर्भरागत्वादुदयपरिपाटलमण्डल-
वत्यामिव सवितारम्,
मिव सवितारम् अँ [^७]अपरसंध्यालोहितबिम्बमिव चन्द्रमसम्, अनुप- जातकाठिन्यमिव कल्पतरु-
[ टि ]-- स्तत् । अखिलेति । 'क्षेत्राद्यप्रहितं खिलम्' इति कोशः । न विद्यते खिलं येषां तेऽखिलाः क्षेत्रोत्पन्ना
ये ब्व्रीहयो धान्यानि तन्म- ध्येऽवस्थापिता यार्यवृद्धा तयाध्यासितः शयनीयशिरोभागो यस्मिन् । 'आयुरृर्वृद्ध'
इति पाठ आयुर्वृद्धा गोमयपुत्तलिका । शेषं पूर्ववत् । अनवरतेति । अनवरतं निरन्तरं दह्यमानः प्रज्वल
मान आज्येन सर्पिषा मिश्रः संयुक्तो भुजगस्य सर्पस्य निर्मोकः कञ्चुकः, मेष- स्योरणस्य विषाणं शृङ्गं तयोः
क्षोदचूर्णणं यस्मिन् । अनलेति । अन-लेन वह्निना लप्लुष्यमाणा दह्यमाना येऽरिष्टतरुपल्लवा निम्बवृक्ष- किसल-
यास्तेषामुल्लसितो विकसितो रक्षार्थथं धूमगन्धोंधो यस्मिन् । अध्ययनेति । अध्ययनेन मुखरा वाचाला ये
द्विजगणा विप्रसमूहा स्तैर्विप्रकीर्यमाणा इतस्ततो विक्षिप्यमाणाः शान्त्यर्थमुदकलवा: पानीयपृषता यस्मिन् ।
अभिनवेति । अभिनवो नूतनो लिखितो यो मातॄणां पटो मातरो बालरक्षाकारिण्यो देव्यो यस्मि-
न्पटे लिख्यन्ते तस्य पूजायां व्यग्रो धात्रीजनो यस्मिन् । सूतिकेति । सूतिकामुद्दिश्य अनेकवृद्धाङ्गनाभिर्ज •
रत्स्त्रीभिरारब्धा या सूतिकामङ्गलगीतिका तथाया मनोहरम् । उपपाद्यमानं क्रियमाणं स्वस्त्ययनमरिष्ट निवृत्त्यु-
पायो यस्मिन्, क्रियते क्रियमाणं विधीयमानं शिशोर्बालस्य रक्षार्थं बलिविधानं यस्मिन् । आबद्धध्येति ।
आबध्यमानं धवलकुसुमानां श्वेतपुष्पाणां दामशतं सस्रक्शतं यस्मिन् । अवीति । अविच्छिन्नं निरन्तरं पठ्य-
मानं नारायणस्य कृष्णस्य नामसहस्रं यस्मिन् । अम- लेति । अमलं निर्मलं यद्धाटकं सुवर्णणं तस्य यष्टयो
दण्डास्तेषु प्रति- ष्ठापितैः सम्यक्तया स्थापितैः । निश्चलेति । निश्चला अकम्प्रा शिखा- र्चिर्येषां ते तथा तैः ।
। अत एवान्तर्मध्ये शुभशतानि ध्यायद्भिरिव । एवंविधैर्मङ्गलप्रदीपैरुद्भासितं शोभितम् । उत्खातेति । उत्खाताः
कोशाद्वबहिः कर्षिता असिलताः खड्गलतास्ताभिः सनाथाः सहिताः पाणयो हस्ता येषामेवंविधैः सर्वतश्चतुर्दिक्षु
रक्षार्थं नियुक्तसुभटैः परिवृतं परिवेष्टितम् । अन्वयस्तु प्रागेवोक्तः ।
अम्भ इति । अम्भो जलं पावकं वह्निं च स्पृष्ट्वा तत्स्पर्शशं विधाय विवेश गृहे प्रवेशं कृतवान् ।
बालकनिरीक्षणे दृष्टिदोषनिवारक- मेतत् । प्रविश्येति । प्रविश्य प्रवेशं कृत्वात्मजं ददर्शेत्यन्वयः । अथात्मजं
विशेषयन्नाह - प्रलसवेति । प्रसवेन वैजननेन परिक्षामा कृशा पाण्ड्डीवी च मूर्तिः शरीरं यस्या एवंविधाया
विलासवत्या उत्सङ्गः क्रोडस्तत्र गतं प्राप्तम् । स्वेति । स्वकीयप्रभायाः कान्त्याः समुदयेन समूहेनोपहता
दूरं ध्वस्ता गर्भगृहस्य सूतिकागृहस्य प्रदीपप्रभा गृहमणिकान्तिर्येन स तम् । अपरित्यक्तो यो गर्भस्य रागो
रक्तिमा तस्य भावस्तत्त्वं तस्मात् । उदयेनोद्गसमनेन परिपाटलं श्वेतरक्तं मण्डलं यस्यैवंभूतं सवितारं सूर्यमिव ।
अपरसंध्या पश्चिमसायंकालस्तया लोहितमा ईषद्रक्तं बिम्बं यस्यैवंभूतं चन्द्रमसं निशानाथमिव । अनुपेति ।
पाठा०
[^१]G. -१ अवस्थित .
[^२]G. शयन.
[^३]G. निम्नतरु.
[^४]G. उद्यत .
[^५]G. अपश्यत् .
[^६]G. प्रदीपक.
[^७]G. संध्यालोहित.
२१ का०