कादम्बरी /194
This page has not been fully proofread.
सूतिकागृहवर्णनम् ]
पूर्वभागः ।
१६१
मालालंकृतजरच्छागम्, अखिलव्रीहिमध्यावस्थापितार्यवृद्धाध्यासितशयनीयशिरोभागम्, अ-
नवरतदह्यमानाज्य मिश्रभुजगनिर्मो कमेषविषाणक्षोदम्, अनलप्पुष्यमाणारिष्टतैरुपल्लवोल्लसित-
रक्षाधूमगन्धम् अध्ययनमुखरद्विजगण विप्रकीर्यमाणशान्त्युदकलवम् अभिनवलिखितमा-
तृपदपूजाव्यग्रधात्रीजनम्, अनेकवृद्धाङ्गनारब्धसूतिका मङ्गलगीतिकामनोहरम्, उपपाद्यमा-
नस्वस्त्ययनम्, क्रियमाणशिशुरक्षाबलि विधानम्, आबद्ध्यमानधवलकुसुमदामशतम्, अवि-
च्छिन्नपठ्यमाननारायणनामसहस्रम्, अमलहाटक यष्टिप्रतिष्ठापितैरन्तः शुभशतानीव निश्चल-
शिखैर्यायद्भिर्मङ्गलप्रदीपै रुद्भासितम्, उत्खातासिलतासनाथपाणिभिः सर्वतो रक्षापुरुषैः
परिवृत्तं सूतिकागृहमैदर्शत् ।
a
१
d
अम्भः पावकं च स्पृष्ट्वा विवेश । प्रविश्य च प्रसवपरिक्षामपाण्डुमूर्तेरुत्सङ्गगतं विलास-
स्वप्रभासमुदयोपहतगर्भगृहमंदीपप्रभम्, अपरित्यक्तगर्भरागत्वादुदयपरिपाटलमण्डल-
वत्या,
मिव सवितारम् अँपरसंध्यालोहितबिम्बमिव चन्द्रमसम्, अनुपजातकाठिन्यमिव कल्पतरु-
स्तत् । अखिलेति । 'क्षेत्राद्यप्रहितं खिलम्' इति कोशः । न विद्यते खिलं येषां तेऽखिलाः क्षेत्रोत्पन्ना
ये ब्रीहयो धान्यानि तन्मध्येऽवस्थापिता यार्यवृद्धा तयाध्यासितः शयनीयशिरोभागो यस्मिन् । 'आयुरृद्ध'
इति पाठ आयुर्वृद्धा गोमयपुत्तलिका । शेषं पूर्ववत् । अनवरतेति । अनवरतं निरन्तरं दह्यमानः प्रज्वल
मान आज्येन सर्पिषा मिश्रः संयुक्तो भुजगस्य सर्पस्य निर्मोकः कचुकः, मेषस्योरणस्य विषाणं शृङ्गं तयोः
क्षोदचूर्ण यस्मिन् । अनलेति । अनलेन वह्निना लष्यमाणा दयमाना येऽरिष्टरुपलवा निम्बवृक्षकिसल-
यास्तेषामुल्लसितो विकसितो रक्षार्थ धूमगन्धों यस्मिन् । अध्ययनेति । अध्ययनेन मुखरा वाचाला ये
द्विजगणा विप्रसमूहा स्तैर्विप्रकीर्यमाणा इतस्ततो विक्षिप्यमाणाः शान्त्यर्थमुदकलवा: पानीयपृषता यस्मिन् ।
अभिनवेति । अभिनवो नूतनो लिखितो यो मातॄणां पटो मातरो बालरक्षाकारिण्यो देव्यो यस्मि-
न्पटे लिख्यन्ते तस्य पूजायां व्यग्रो धात्रीजनो यस्मिन् । सूतिकेति । सूतिकामुद्दिश्य अनेकवृद्धाङ्गनाभिर्ज •
रत्स्त्रीभिरारब्धा या सूतिकामङ्गलगीतिका तथा मनोहरम् । उपपाद्यमानं क्रियमाणं स्वस्त्ययनमरिष्ट निवृत्त्यु-
पायो यस्मिन्, क्रियते क्रियमाणं विधीयमानं शिशोर्बालस्य रक्षार्थं बलिविधानं यस्मिन् । आबद्धयेति ।
आबध्यमानं धवलकुसुमानां श्वेतपुष्पाणां दामशतं सक्शतं यस्मिन् । अवीति । अविच्छिन्नं निरन्तरं पठ्य-
मानं नारायणस्य कृष्णस्य नामसहस्रं यस्मिन् । अमलेति । अमलं निर्मलं यद्धाटकं सुवर्ण तस्य यष्टयो
दण्डास्तेषु प्रतिष्ठापितैः सम्यक्तया स्थापितैः । निश्चलेति । निश्चला अकम्प्रा शिखार्चिर्येषां ते तथा तैः ।
अत एवान्तर्मध्ये शुभशतानि ध्यायद्भिरिव । एवंविधैर्मङ्गलप्रदीपैरुद्भासितं शोभितम् । उत्खातेति । उत्खाताः
कोशाद्वहिः कर्षिता असिलताः खगलतास्ताभिः सनाथाः सहिताः पाणयो हस्ता येषामेवंविधैः सर्वतश्चतुर्दिक्षु
रक्षार्थं नियुक्तसुभटैः परिवृतं परिवेष्टितम् । अन्वयस्तु प्रागेवोक्तः ।
अम्भ इति । अम्भो जलं पावकं वह्निं च स्पृष्ट्वा तत्स्पर्श विधाय विवेश गृहे प्रवेशं कृतवान् ।
बालकनिरीक्षणे दृष्टिदोषनिवारकमेतत् । प्रविश्येति । प्रविश्य प्रवेशं कृत्वात्मजं ददर्शेत्यन्वयः । अथात्मजं
विशेषयन्नाह - प्रलवेति । प्रसवेन वैजननेन परिक्षामा कृशा पाण्ड्डी च मूर्तिः शरीरं यस्या एवंविधाया
विलासवत्या उत्सङ्गः क्रोडस्तत्र गतं प्राप्तम् । स्वेति । स्वकीयप्रभायाः कान्त्याः समुदयेन समूहेनोपहता
दूरं ध्वस्ता गर्भगृहस्य सूतिकागृहस्य प्रदीपप्रभा गृहमणिकान्तिर्येन स तम् । अपरित्यक्तो यो गर्भस्य रागो
रक्तिमा तस्य भावस्तत्त्वं तस्मात् । उदयेनोद्गसनेन परिपाटलं श्वेतरक्तं मण्डलं यस्यैवंभूतं सवितारं सूर्यमिव ।
अपरसंध्या पश्चिमसायंकालस्तया लोहितमा ईषद्रक्तं बिम्बं यस्यैवंभूतं चन्द्रमसं निशानाथमिव । अनुपेति ।
पाठा०. -१ अवस्थित २ शयन. ३ निम्नतरु. ४ उद्यत ५ अपश्यत् ६ प्रदीपक. ७ संध्यालोहित.
२१ का०